सत्त्रं, क्ली, (सतः साधून् त्रायते इति । त्रै + कः । यद्वा, सीदन्ति सज्जना यत्र । सद गतौ + “गुधृवीपचिवचीति ।” उणा० ४ । १६६ । इति त्रः ।) यज्ञः । (यथा, भनुः । ८ । ३०३ । “अभयस्य हि यो दाता संपूज्यः सततं नृपः । सत्त्रं हि वर्द्धते तस्य सदैवाभयदक्षिणम् ॥”) सदादानम् । आच्छादनम् । अरण्यम् । (यथा, किराते । १३ । ९ । “अयमेव मृगव्यसत्त्रकामः प्रहरिष्यन् मयि मायया समस्थे । पृथुभिर्ध्वजिनीरवैरकार्षीत् चकितोद्भ्रान्तमृगाणि काननानि ॥”) कैतवम् इति मेदिनी ॥ (यथा, महाभारते । ४ । ३६ । ३८ । “सत्त्रेण नूनं छन्नं हि चरन्तं पार्थमर्ज्जुनम् । उत्तरः सारथिं कृत्वा निर्य्यातो नगरात् बहिः ॥”) धनम् । गृहम् । दानम् सरोवरम् । इत्यने- कार्थकोषः ॥ यागविशेषः । यथा, -- “नैमिषेऽनिमिषक्षेत्रे ऋषयः शौनकादयः । सत्त्रं स्वर्गाय लोकाय सहस्रसमभासत ॥ कलिमागतमाज्ञाय क्षेत्रेऽस्मिन् वैष्णवे वयम् । आसोना दीर्घसत्रेण कथायां सक्षणा हरेः ॥” इति श्रीभागवते १ स्कन्धे १ अध्यायः ॥ * ॥ द्वादशाहसाध्यसत्त्रं यथा । ज्योतिष्टोमे द्वादश- गोशतदक्षिणाविभागः षोडशर्त्विजां तद्विकृती- भूते सत्त्रात्मके द्वादशाहसाध्ये शतेनाद्धिनी दीक्षयन्तीत्यादिदर्शनेन निर्णीयते । तच्च सावन- मानेन कर्त्तव्यम् । यथा, -- “सत्त्राण्युपास्यान्यथ सावनेन लौक्यञ्च यत् स्याद्व्यवहारमर्म्म ।” इति मलमासतत्त्वम् ॥ * ॥ सदक्षिणं सततान्नदानम् । तन्निन्दकस्पशनादि- निषेधो यथा, -- “नालपेज्जनविद्विष्टान् वीरहीनां तथा स्त्रियम् । देवतापितृसच्छास्त्रयज्ञसत्त्रादिनिन्दकैः । कृत्या तु स्पर्शनालापं शुद्ध्येतार्कावलोकनात् ॥” इति मार्कण्डेयपुराणे सदाचाराध्यायः ॥ सत्त्रं सदक्षिणं सततान्नदानम् । इति तट्टीका ॥
सत्त्रं, [म्] व्य, सह । इति शब्दरत्नावली जटा- धरश्च ॥
📄 मूल मुद्रित पृष्ठ (5-224-a) सत्र, त् ङ क सम्बन्धे । सन्ततौ । इति कविकल्प- द्रुमः ॥ (अदन्त-चुरा-आत्म-सक-सेट् ।) दन्त्यवर्गाद्यमध्यः । सन्ततिर्निर्व्वाहक्रियेति भट्ट- मल्लः । ङ सत्रयते । सत्रापयते प्रतिज्ञां साधुः । सन्ततिर्विस्तारणमिति गोविन्दभट्टः । इति दुर्गादासः ॥
सत्रं, क्ली, (सत्र्यते संतन्यते इति । सत्र + घञ् ।) यज्ञविशेषः । यथा, -- [] “नैमिषेऽनिमिषक्षेत्रे ऋषयः शौनकादयः । सत्रं स्वर्गाय लोकाय सहस्रसममासत ॥ कलिमागतमाज्ञाय क्षेत्रेऽस्मिन् वैष्णवे वयम् । आसीना दीर्घसत्रेण कथायां सक्षणा हरेः ॥” इति श्रीभागवते १ स्कन्धे १ अध्यायः ॥
📄 मूल मुद्रित पृष्ठ (5-231-a) स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।