सप्तपदी, स्त्री, सप्तानां पदानां ममाहारः । (“द्विगोः ।” ४ । १ । २१ । इति ङीप् ।) इति व्याकरणम् ॥ विवाहाङ्गसप्तपदीगमनं यथा । ततो जामाता प्रागुदीचीं गत्वा बधूं सप्तमि- र्म्मन्त्रैः सप्तमण्डलिकासु सप्तपदानि नयेत् । बवृश्च दक्षिणपादं नीत्वा पश्चाद्वामपादं मण्ड- लिकां नयत् जामाता च बधूं ब्रूयात् । वामेन पादेन दक्षिणं पादमाक्रमयेति । सप्तानां मन्त्राणामृष्यादयः साधारणाः । प्रजापति- रृषिरेकपाद्विराट् छन्दो विष्णुर्द्देवता पादा- क्रामणे विनियोगः । ओँ एकमिषे विष्णुस्त्वा नयतु । द्वे ऊर्ज्जे विष्णुस्त्वा नयतु । त्रीणिंव्रताय विष्णुस्त्वा नयतु । चत्वारि मायो भवाय विष्णुस्त्वा नयतु । पञ्चपशुभ्यो विष्णुस्त्वा नयतु । षड्- रायस्पोषाय विष्णुस्त्वा नयतु । सप्तसप्तभ्यो होत्राभ्यो विष्णुस्त्वा नयतु ॥ ततः सप्तमं पदं गतां बधूं पतिराशास्ते । प्रजापतिरृषिर्म्मा- मकीपंक्तिच्छन्दः कन्या देवता पादाक्रामणा- नन्तरमाशासने विनियोगः । सखा सप्तपदीभव सख्यन्ते गमेयं सख्यन्ते मा योषा सख्यन्ते मायोष्ठ्याः । इति सप्तपदीगमनम् । इति भव- देवभट्टः ॥
📄 मूल मुद्रित पृष्ठ (5-262-a) स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।