समन्तपञ्चकं, क्ली, (समन्तात् पञ्चकं ह्रदपञ्चकं यत्र ।) कुरुक्षेत्रम् । तच्च कुरुपाण्डवयोर्युद्ध- स्थानम् । तत्र पुरा परशुरामः क्षत्त्रियरुधिरेण पञ्च ह्रदान् चकार । यथा, -- “त्रिःसप्तकृत्वः पृथिवीं कृत्वा निःक्षत्त्रियां प्रभुः । समन्तपञ्चके पञ्च कृतवान् रुधिरैर्ह्रदान् ॥ स तेषु तर्पयामास पितॄन् भृगुकुलोद्वहः । साक्षात् ददर्श पितरं स च रामं न्यवारयत् ॥” इति पाद्मे भूमिखण्डे १२४ अध्यायः ॥ * ॥ अन्यच्चे । “त्रिःसप्तकृत्वः पृथिवीं कृत्वा निःक्षत्त्रियां प्रभुः । समन्तपञ्चके चक्रे शोणितोदान् ह्रदान् नव ॥” इति श्रीभागवते ९ स्कन्धे १६ अध्यायः ॥ * ॥ तस्य माहात्म्यं सीमा च यथा, -- “पृथिव्यां नैमिषं तीर्थमन्तरीक्षे च पुष्करम् । त्रयाणामपि लोकानां कुरुक्षेत्रं विशिष्यते ॥” इत्यारभ्य, -- “तरन्तुकारन्तुकयोर्यदन्तरं रामह्रदानाञ्च मचक्रुकस्य च । एतत् कुरुक्षेत्रसमन्तपञ्चकं पितामहस्योत्तरवेदिरुच्यते ॥” इति महाभारतीयवनपर्व्वणि ८३ अध्यायः ॥
📄 मूल मुद्रित पृष्ठ (5-267-b) स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।