सवितर्का स्त्री पात० उक्ते समापत्तिरूपसमाधिभेदे “तत्र शब्दार्थज्ञानविकल्पैः सङ्कीणां सवितर्का समा- पत्तिः” सू० “तद्यथा गौरिति शब्दो गौरित्यर्थो नौ- रिति ज्ञानमित्यविभागेन विभक्तानामपि ग्रहणं दृष्टं विभज्यमानाश्चान्ये शब्दधर्मा अन्येऽर्थधर्मा अन्ये विज्ञा- नधर्मा इत्येतेषां विभक्तः पन्थाः, तत्र समापन्नस्य योगिनोयोगवाह्यर्थः समाधिप्रज्ञायां समारूढः स चेत्- शब्दज्ञानविकल्पानुविद्ध उपावर्त्तते सा सङ्कीर्णा समा- पत्तिः सवितर्केत्युच्यते । यदा पुनः शब्दसङ्केतस्मृति- परिशुद्धौ श्रुतानुमानज्ञानविकल्पशून्याया समाधिप्रज्ञायां स्वरूपमात्रेणावस्थितोऽर्थस्तत्स्वरूपाकारमात्रतयैवावच्छि- द्यते सा च निर्वितर्का समापत्तिः तत् योगिनां परं प्रत्यक्षं, तच्च श्रुतानुमानयोर्वीजं ततः श्रुतानुमाने प्रभ- वतः । न च श्रुतानुमानज्ञानसहभूतं तद्दर्शनं तस्माद- सङ्कीर्णं प्रमाणान्तरेण योगिनो निर्वितर्कसमाधिजं दर्शनमिति” भा० ।
📄 मूल मुद्रित पृष्ठ (5262,b) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।