सात्त्व(त्व)ती, स्त्री, नाटकवृत्तिविशेषः । यथा, -- “अभिनेयप्रकाराः स्युर्भाषाः षट् संस्कृता- दिकाः । भारती सात्त्वती कैशिक्यारभट्यौ च वृत्तयः ॥” इति हेमचन्द्रः ॥ (यथा, शृङ्गारतिलके । ३ । ४२ -- ४३ । “हर्षप्रधानाधिकसत्त्ववृत्ति- स्त्यागोत्तरोदारवचोमनोज्ञा । आश्चर्य्यसम्पत्सुभगा च या स्या- त्सा सात्त्वती नाम मतात्र वृत्तिः ॥ नातिगूढार्थसम्पत्तिः श्रव्यशब्दमनोरमा । वीरे रौद्रेऽद्भुते शान्ते वृत्तिरेषा मता यथा ॥ लक्ष्म्यास्त्वं जनको निधिश्च पयसां निःशेष- रत्नाकरो मर्यादानिरतस्त्वमेव जलधे ! ब्रूतेऽत्र कोऽन्या- दृशम् । किं त्वेकस्य गृहं गतस्य बडवावह्नेः सदा तृष्णया क्लान्तस्योदरपूरणेऽपि न सहो यत्तन्मनाङ्मध्य- मम् ॥ स्फारितोत्कटकठोरतारका- कीर्णवह्निकणसंततिः क्रुधा । दुर्निमित्ततडिदाकृतिर्बभौ दृष्टिरिष्टसमरांशुमालिनः ॥ अत्यद्भुतं नराधिप तव कीर्तिर्धवलयन्त्यऽपि जगन्ति । रक्तान् करोति सुहृदो मलिनयति च वैरि- वदनानि ॥ निवृत्तविषयासङ्गमधुना सुचिराय मे । आत्मन्येव समाधानं मनः केवलमिच्छति ॥” * ॥ सात्त्वतस्यापत्यं स्त्री । सात्त्वत + अञ् । ङीप् ।) शिशुपालमाता । इति केचित् ॥ (यथा, महा- भारते । २ । ४५ । ६ । “एष नः शत्रुरत्यन्तं पार्थिवाः सात्त्वतीसुतः । सात्त्वतानां नृशंशात्मा न हितोऽनपकारि- णाम् ॥” सुभद्रा । यथा, महाभारते । १ । २२२ । ६६ ॥ “स सात्त्वत्यामधिरथः सम्बभूव धनञ्जयात् । मखे निर्मथनेनेव शमीगर्भाद्धुताशनः ॥”)
📄 मूल मुद्रित पृष्ठ (5-325-c) स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।