🕉️ 28 November 2026, Saturday · 10:11:57 PM · CDSHARMA.IN

📚 उमा संस्कृत-हिन्दी महाशब्दकोश

अर्थ · व्याकरण · व्युत्पत्ति · पर्याय · समास · शास्त्रीय उद्धरण — पाँच प्रामाणिक कोश व अमरकोश एक साथ

279,511 शीर्ष-शब्द · 452,554 कोश-प्रविष्टियाँ

सात्त्विक
sāttvika
🔵 मोनियर-विलियम्स🟣 आप्टे🟢 वाचस्पत्यम्🟤 शब्दकल्पद्रुम
📗 अमरकोश — पर्याय
शरीर के अंगों से किया गया अभिनय 'आंगिक' और मन (सत्त्व) से उत्पन्न 'सात (1.7.17) आंगिक
🔵 मोनियर-विलियम्स संस्कृत-अंग्रेज़ी कोशअंग्रेज़ी में अर्थ
सात्त्विक mf(ई)n. (fr. सत्-त्व) spirited, vigorous, energetic, Mn.; MBh. &c.
relating to or endowed with the quality Sattva (i.e. ‘purity’ or ‘goodness’), pure, true, genuine, honest, good, virtuous (also applied to partic. Purāṇas which exalt Viṣṇu, IW. 513), MaitrUp.; Mn.; MBh. &c. internal, caused by internal feeling or sentiment, Mālatīm.
natural, not artificial, unaffected (as style), Sāh.
सात्त्विक m. a state of body caused by some natural emotion (constituting a class of 8 Bhāvas holding a middle place between the Sthāyi- and Vyabhicāri-bhāvas, viz. स्तम्भ, स्वेद, रोमाञ्च, स्वर-विकार, वेपथु, वर्ण-विकार, अश्रु, प्रलय, qq.vv.), ib.
N. of Brahmā, L.
of the eighth creation by Prajā-pati, MW.
सात्त्विक n. an offering or oblation (without pouring water), L.
📄 मूल मुद्रित पृष्ठ (1200,1)
स्रोत: Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
🟣 आप्टे संस्कृत-अंग्रेज़ी कोशअंग्रेज़ी में अर्थ
सात्त्विक a. (की f.) [सत्त्वगुणेन तत्कार्येण मनसा वा निर्वृत्तः ठञ्] 1 Real, essential. --2 True, genuine, natural. --3 Honest, sincere, good. --4 Virtuous, amiable. --5 Vigorous. --6 Endowed with the quality Sattva (goodness). --7 Belonging to or derived from the Sattva quality; ये चैव सात्त्विका भावाः Bg. 7. 12, 14. 16. --8 Caused by internal feeling or sentiment (as of love), internal; तद्भूरिसात्त्विकविकारमपास्तधैर्यमाचार्यकं विजयि मान्मथमाविरासीत् Māl. 1. 26. --कः 1 An external indication of (internal) feeling or emotion, one of the kinds of Bhāvas in poetry; these are eight: --स्तंभः स्वेदोऽथ रोमांचः स्वरभंगोऽथ वेपथुः । वैवर्ण्यमश्रु प्रलय इत्यष्टौ सात्त्विकाः स्मृताः ॥ see S. D. 164 also. --2 A Brāhmaṇa. --3 N. of Brahman. --की N. of Durgā.
📄 मूल मुद्रित पृष्ठ (1114-b)
स्रोत: V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
🟢 वाचस्पत्यम् (संस्कृत-संस्कृत)संस्कृत में अर्थ
सात्त्विक पु० सत्त्वात् सत्त्वगुणप्रधानात् विष्णोर्भवति ठञ् । १ चतुर्मुखे ब्रह्मणि हेमच० । तस्य विष्णुनाभिकमलजत्वात् तथात्वम् । सत्त्वमेव सात्त्वमस्त्यस्य ठन् । २ विष्णौ । सत्त्वगुणेन तत्कार्य्येण मनसा वा निर्वृत्तः ठञ् । ३ स- त्त्वगुणजाते ४ सत्त्वप्रधानमनोविशेषजाते च । ५ शृङ्गा- रादिरसानुगुणे भावभेदे सा० द० “उक्ताः स्त्रीणामलङ्कारा अङ्गजाश्च स्वभावजाः । तद्रूपाः सात्त्विका भावास्तथा चेष्टाः परा अपि । विकाराः सत्त्व- सम्भूताः सात्त्विकाः परिकीर्त्तिताः । सत्त्वमात्रोद्भवत्वात्ते भिन्ना अप्यनुभावतः । स्तम्भः स्वेदोऽथ रोमाञ्चः स्वर- भङ्गोऽथ वेपथुः । वैवर्ण्यमश्रु प्रलय इत्यष्टौ सात्त्विका स्मृताः” । एतेषां लक्षणानि तत्तच्छब्दे दृश्यानि । स्त्रीणां यौवने सत्त्वजाते ६ अलङ्कारभेदे सा० द० “यौवने सत्त्वजास्तासामष्टाविंशतिसंख्यकाः” । अलङ्कारशब्दे ४०८ पृ० दृश्यम् । ७ सत्त्वप्रधाने त्रि० । ८ देवीपूजाभेदे स्त्री “शा- रदी चण्डिकापूजा त्र्विधा परिकीर्त्तिता । सात्त्विको राजसी चैव तामसी चति तां शृणु । सात्त्विको जप- यज्ञैश्च नैवेद्यैश्च निरामिषैः” ति० त० । ९ भावभेदे पु० [] “सत्त्वोत्कटे मनसि ये प्रभवन्ति भावास्ते सात्त्विका इति विदुर्मुनिपुङ्गवास्तु” सर्वान० । १० सत्त्वप्रधाने पुराण- भेदे “वैष्णवं नारदीयञ्च तथा भागवतं शुभम् । गारु- डञ्च तथा पाद्मं वाराहं शुभदर्शने! । सात्त्विकानि पुरा- णानि विज्ञेयानि शुभानि वै । सात्विकेषु पुराणेषु विष्णुमाहात्म्यवर्णनम्” उपपुराणशब्दे दृश्यम् । ११ स्मृतिभेदे स्त्री “वासिष्ठं चैव हारीतं व्यासं पारा- शरं तथा । भारद्वाजं काश्यपञ्च सात्त्विक्यो मुक्तिदाः शुभाः” पद्मपु० उत्त० ४३ अ० । १२ दुर्गायां स्त्री ङीप् । १३ गीतोक्तेषु श्रद्धादिभेदेषु यथायथं त्रि० यथा “सत्त्वानुरूपा सर्वस्य श्रद्धा भवति भारत! । श्रद्धाम योऽयं पुरुषो यो यच्छ्रद्धः स एव सः । यजन्ते सात्त्विका देवान्” (श्रद्धा) “आहारस्त्वपि सर्वस्य त्रिविधो भवति प्रियः । यज्ञस्तपस्तथा दानं तेषां भेदमिमं शृणु” इत्यु- पक्रमे “आयुःसत्त्वबलारोग्यसुखप्रीतिविवर्द्धनाः । रस्याः स्निग्धाः स्थिरा हृद्या आहाराः सात्त्विक प्रियाः” (आहारः) “अफलाकाङ्क्षिभिर्यज्ञो विधिदृष्टो य इज्यते । यष्टव्यमेवेति मनः समाधाय स सात्त्विकः” (यज्ञः) “श्रद्धया परया तप्तं तपस्तत्त्रिविधं नरैः । अफलाकाङ्क्षिभिर्युक्तैः सात्त्विकं परिचक्षते” (कायिकादि त्रिविधं तपः) “दातव्यमिति यद्दानं दीयतेऽनुपकारिणे । देशे काले च पात्रे च तद्दानं सात्त्विकं मतम्” (दानम्) “सर्वभूतेषु येनैकं भावमव्ययमीक्षते । अविभक्तं विभ- क्तेषु तज्ज्ञानं विद्धि सात्त्विकम्” (ज्ञानम्) “नियतं सङ्गरहितमरागद्वेषतः कृतम् । अफलप्रेप्सुना कर्म यत्तत् सात्त्विकमुच्यते” (कर्म) “मुक्तसङ्गोऽनहंवादी धृत्युत्साहसमन्वितः । सिद्ध्यसिद्ध्योर्निर्विकारः कर्त्ता सा त्त्विक उच्यते” (कर्त्ता) “प्रवृत्तिं च निवृत्तिं च कार्य्या- कार्य्ये भयाभये । बन्धं मोक्षं च या वेत्ति बुद्धिः सा पार्थ! सात्त्विकी” (बुद्धिः) “धृत्या यया धारयते मनः प्राणेन्द्रियक्रियाः । योगेनाव्यभिचारिण्या धृतिः सा पार्थ! सात्त्विकी” (धृतिः) “यत्तदग्रे विषमिव परिणाभे- ऽमृतोपमम् । तत् सुखं सात्त्विकं प्रोक्तमात्मबुद्धिप्रसादजम्” (सुखम्) “कार्य्यमित्येव यत् कर्म नियत कुरुतेऽर्जुन! । सङ्गं त्यक्त्वाफलं चैव स त्यागः सात्त्विको मतः” (त्यागः) । तत्र सात्त्विकाहारस्य चित्तशुद्धौ हेतुत्वं छान्दो० उक्तं यथा “आहारशुद्धौ सतवशुद्धिः सत्त्वशुद्धौ ध्रुवा स्मृतिः” । सत्त्वं मनः । “अन्नमयं हि सौम्य! मनः इत्यादिना” तस्य [
स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🟤 शब्दकल्पद्रुम (संस्कृत-संस्कृत)संस्कृत में अर्थ
सात्त्विकः, पुं, (सत्त्वात् सत्त्वगुणप्रधाणात् विष्णो- र्भूतः । सत्त्व + ठञ् ।) ब्रह्मा । (सात्त्वं सत्त्व- गुणोऽस्यास्तीति । ठन् । विष्णुः । इति महा- भारतम् । १३ । १४९ । १०६ ॥) त्रिविध- भावान्तर्गतभावविशेषः । इति हेमचन्द्रः ॥ तस्य लक्षणं यथा, -- “सत्त्वोत्कटे मनसि ये प्रभवन्ति भावा- स्ते सात्त्विका इति विदुर्म्मुनिपुङ्गवास्ते ।” इति सर्व्वानन्दः ॥ [] ते च यथा, -- “स्वेदः स्तम्भोऽथ रोमाञ्चः स्वरभङ्गोऽथ वेपथुः । वैवर्णमश्रुप्रलय इत्यष्टौ सात्त्विका मताः ॥” प्रलयो मूर्च्छा । इति भरतः ॥
सात्त्विकः, त्रि, (सत्त्वेन निर्वृत्तः । तेन निर्वृत्त- मिति ठञ् ।) सत्त्वगुणनिष्पादितः । इत्यमरः । १ । ७ । १६ ॥ सत्त्वं मनोगुण आशयो वा तेन निष्पादितः सात्त्विकः स्वेदादिः । सत्त्वशब्दात् ढघे कादिति ष्णिकः । इति भरतः ॥ * ॥ सत्त्व- गुणयुक्तः । तद्विवरणं यथा, गीतायाम् । १७ । ४ । “यजन्ते सात्त्विका देवान् यक्षरक्षांसि राजसाः । प्रेतान् भूतगणांश्चान्ये यजन्ते तामसा जनाः ॥” सात्त्विकयज्ञो यथा, गीतायाम् । १७ । ११ । “अफलाकाङ्क्षिभिर्यज्ञो विधिदृष्टो य इज्यते । यष्टव्यमेवेति मनः समाधाय स सात्त्विकः ॥” सात्त्विकतपो यथा, तत्रैव । १७ । १७ । “श्रद्धया परया तप्तं तपस्तत्त्रिविधं नरैः । अफलाकाङ्क्षिभिर्युक्तैः सात्त्विकं परिचक्षते ॥” सात्त्विकदानं यथा, तत्रैव । १७ । २० । “दातव्यमिति यद्दानं दीयतेऽनुपकारिणे । देशे काले च पात्रे च तद्दानं सात्त्विकं स्मृतम् ॥” सात्त्विकयोगो यथा, तत्रैव । १८ । ९ । “कार्य्यमित्येव यत् कर्म्म नियतं क्रियतेऽर्ज्जुन । सङ्गं त्यक्त्वा फलञ्चैव स त्यागः सात्त्विको मतः ॥” सात्त्विकज्ञानं यथा, तत्रैव । १८ । २० । “सर्व्वभूतेषु येनैकं भावमव्ययमीक्षते । अविभक्तं विभक्तेषु तज्ज्ञानं विद्धि सात्त्वि- कम् ॥” सात्त्विककर्म्म यथा, तत्रैव । १८ । २३ । “नियतं सङ्गरहितमरागद्बेषतः कृतम् । अफलप्रेय्सुना कर्म्म यत्तत् सात्त्विकमुच्यते ॥” सात्त्विकबुद्धिर्यथा, तत्रैव । १८ । ३० । “प्रवृत्तिञ्च निवृत्तिञ्च कार्य्याकार्य्ये भयाभये । बन्धं मोक्षञ्च या वेत्ति बुद्धिः सा पार्थ सात्त्विकी ॥” सात्त्विकी धृतिर्यथा, तत्रैव । १८ । ३३ । “धृत्या यया घारयते मनःप्राणेन्द्रियक्रियाः । योगेनाव्यभिचारिण्या धृतिः सा पार्थ ! सात्त्विकी ॥” सात्त्विकसुखं यथा, तत्रैव । १८ । ३७ । “यत्तदग्रे विषमिव परिणामेऽमृतोपमम् । तत् सुखं सात्त्विकं प्रोक्तमात्मबुद्धिप्रसादजम् ॥” सात्त्विकपुराणानि यथा, -- “वैष्णवं नारदीयञ्च तथा भागवतं शुभम् । गारुडञ्च तथा पाद्मं वाराहं शुभदर्शने । सात्त्विकानि पुराणानि विज्ञेयानि शुभानि वै ॥” सात्त्विकस्मृतयो यथा, -- “वाशिष्ठञ्चैव हारीतं व्यासं पाराशरं तथा । भारद्वाजं काश्यपञ्च सात्त्विका मुक्तिदाः शुभाः ॥” इति पाद्मोत्तरखण्डे ४३ अध्यायः ॥ सात्त्विकप्रियाहारा यथा, -- “आयुःसत्त्वबलारोग्यसुखप्रीतिविवर्द्धनाः । [] रस्याः स्निग्धाः स्थिरा हृद्या आहाराः सात्त्विकप्रियाः ॥” इति श्रीभगवद्गीतायाम् । १७ । ८ ॥ सात्त्विककर्त्ता कर्त्तृशब्दे सात्त्विकाहार आहार- शब्दे च द्रष्टव्यः ॥
📄 मूल मुद्रित पृष्ठ (5-326-a)
स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🔗 इससे बने/आरम्भ होने वाले शब्द (समास व व्युत्पन्न)
स्रोत व श्रेय:
  • हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
  • Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
  • V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
  • तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
  • राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।

Cologne Digital Sanskrit Dictionaries के डिजिटल पाठ CC BY-NC-SA लाइसेंस के अनुसार निःशुल्क, गैर-व्यावसायिक उपयोग हेतु श्रेय सहित प्रस्तुत हैं। यह शब्दकोश-सेवा पूर्णतः निःशुल्क है। पुराने मुद्रित ग्रन्थों के डिजिटल पाठ में कहीं-कहीं टंकण/OCR दोष सम्भव हैं — सन्देह होने पर "📄 मूल मुद्रित पृष्ठ" देखें।

💬