सिन्दु(न्धु)वारः, पुं, सिन्धुं गजमदं वारयति तिक्त- त्वात् । वृ + अण् । पाक्षिको धस्य दः ।) वृक्ष- विशेषः । निसिन्दा इति भाषा । इनछुर इति च क्वचित् । तत्पर्य्यायः । सिन्दुकः २ इन्द्र- सुरिसः ३ निर्गुण्डी ४ इन्द्राणिका ५ । इत्यमरः । २ । ४ । ६८ ॥ सिन्धुकः ६ सिन्धुवारकः ७ इन्द्राणी ८ पौलोमी ९ शक्राणी १० कासनाशिनी ११ । इति रत्नकोषः ॥ श्वेतपुष्पः १२ सिन्दुवारकः २३ स्थिरसाधनकः १४ अनन्तः १५ सिद्धकः १६ अर्थसिद्धकः १७ । अस्य गुणाः । कटुत्वम् । तिक्तत्वम् । कफवातक्षयकुष्ठकण्डूतिशूलना- शित्वम् । कायसिद्धिदत्वञ्च । इति राजनिर्घण्टः ॥ [] अपि च । “सिन्धुकः स्मृतिदस्तिक्तः कषायः कटुको लघुः केश्यो नेत्रहितो हन्ति शूलशोथाममारुतान् ॥ कृमिकुष्टारुचिश्लेष्मव्रणान् नीलापि तद्विधा । सिन्धुवारदलं तत्तु वातश्ले ष्महरं लघु ॥” इति भावप्रकाशः ॥ * ॥ “स्यन्दं वारयति सिन्दुवारः षण् निपातनात् जिः अत उच्च । सिन्दुकसिन्दुवारौ दन्त्यसादी तवर्ग- तृतीयवन्ताविति बहवः । केचित्तु सिन्धुं समुद्र- मपि वारयति शोषयति तीक्ष्णरसत्वेन कफघ्न- त्वात् सिन्धुवारः सिन्धुकसिन्धु वारौ तवर्गचतुर्थ- वन्तावित्याहुः ।” इति भरतः ॥
📄 मूल मुद्रित पृष्ठ (5-353-a) स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।