🕉️ 19 November 2026, Thursday · 03:32:54 PM · CDSHARMA.IN

📚 उमा संस्कृत-हिन्दी महाशब्दकोश

अर्थ · व्याकरण · व्युत्पत्ति · पर्याय · समास · शास्त्रीय उद्धरण — पाँच प्रामाणिक कोश व अमरकोश एक साथ

279,511 शीर्ष-शब्द · 452,554 कोश-प्रविष्टियाँ

सीसक
sīsaka
🟠 शब्दसागर🔵 मोनियर-विलियम्स🟣 आप्टे🟤 शब्दकल्पद्रुम
📗 अमरकोश — पर्याय
🟠 हिन्दी शब्दसागरहिन्दी में अर्थ
सीसक संज्ञा पुं॰ [सं॰] सीसा नामक धातु ।
स्रोत: हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
🔵 मोनियर-विलियम्स संस्कृत-अंग्रेज़ी कोशअंग्रेज़ी में अर्थ
सीसक m. n. lead, L.
सीसक m. = शूल, L.
📄 मूल मुद्रित पृष्ठ (1219,2)
स्रोत: Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
🟣 आप्टे संस्कृत-अंग्रेज़ी कोशअंग्रेज़ी में अर्थ
सीसं, सीसकं, सीसपत्रकं, सीसपत्रं Lead; Ms. 5. 114; Y. 1. 190.
📄 मूल मुद्रित पृष्ठ (1125-c)
स्रोत: V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
🟤 शब्दकल्पद्रुम (संस्कृत-संस्कृत)संस्कृत में अर्थ
सीसकं, क्ली, (सीसमेव । स्वार्थे कन् ।) धातु- विशेषः । सीसा इति भाषा । तत्पर्य्यायः । नागम् २ योगेष्टम् ३ वप्रम् ४ । इत्यमरः । २ । ९ । १०५ ॥ सीसम् ५ सीसपत्रकम् ६ गण्डूपदभवम् ७ सिन्दूरकारणम् ८ वर्द्धम् ९ स्वर्णारि १० यवनेष्टम् ११ सुवर्णकम् १२ । इति हेमचन्द्रः ॥ वध्रम् १३ पिच्चटम् १४ सुवर्णारि १५ त्रपु १६ त्रपुः १७ । इति शब्दरत्नावली ॥ वध्रकम् १८ महावलम् १९ यवनेष्टकम् २० । इति जटाधरः ॥ बहुमलम् २१ चीनम् २२ पिष्टम् २३ । इति रत्नमाला ॥ जडम् २४ भुजङ्गमम् २५ उरगम् २६ कुरङ्गम् २७ परि- पिष्टकम् २८ मृदुकृष्णायसम् २९ पद्मम् ३० तार- शुद्धिकरम् ३१ शिरावृत्तम् ३२ वयोवङ्गम् ३३ चीनपिष्टम् ३४ । अस्य गुणाः । “सीसन्तु वङ्गसाम्यं साद्रसवीर्य्यविपाकतः । उष्णञ्च कफवातघ्नमर्शोघ्नं गुरु लेखनम् ॥ वर्णे नीलं मृदु स्निग्धं निर्म्मलञ्च सुगौरवम् । रौप्यसंशोधने क्षिप्रं सीसकञ्च तदुत्तमम् ॥” इति राजनिर्घण्टः ॥ * ॥ अथ सीसस्योत्पत्तिनामगुणाः । “दृष्ट्वा भोगिसुतां रम्यां वासुकिस्तु मुमोच यत् । वीर्य्यं जातस्ततो नागः सर्व्वरोगापहो नृणाम् । सीसं वध्रञ्च वप्रञ्च योगेष्टं नागनामकम् । नागः भुजङ्ग इत्यादि । सीसं वङ्गगुणं ज्ञेयं विशेषान्मेहनाशनम् ॥ नागस्तु नागशततुल्यबलं ददादि व्याधिं विनाशयति जीवनमातनोति । वह्निं प्रदीपयति कामबलं करोति मृत्युञ्च नाशयति सन्ततसेवितः सः ॥ पाकेन हीनौ किल रङ्गनागौ कुष्ठानि गुल्मांश्च तथा निकृष्टान् । [] पाण्डुप्रमेहानिलसादसोथ- भगन्दरादीन् कुरुतः प्रयुक्तौ ॥” * ॥ अथ सीसकस्य शोधनम् । “तस्य साहजिका दोषा वङ्गस्येव निदर्शिताः । शोधनञ्चापि तस्यैव भिषग्भिर्गदितं पुरा ॥” * ॥ अथ सीसकस्य मारणविधिः । “ताम्बू लरससंपिष्टशिलालेपात् पुनः पुनः । द्वात्रिंशद्भिः पुटैर्नाशो निरुत्थं भस्म जायते ॥” शिला मनःशिला । अन्यच्च । अश्वत्थचिञ्चात्वक्चूर्णं चतुर्थांशेन निःक्षिपेत् । मृत्पात्रे विद्रुतो नागो लोहदर्व्या प्रचालितः ॥ यामैकेन भवेद्भस्म तत्तुल्या स्यान्मनःशिला । काञ्जिकेन द्वयं पिष्ट्वा पचेद्दृढपुटेन च ॥ स्वाङ्गशीतं पुनः पिष्ट्वा शिलया काञ्जिकेन च । पुनः पचेत् शरावाभ्यामेवं षष्टिपुटैर्मृतिः ॥” इति भावप्रकाशः ॥ मारितस्यास्य गुणाः पूर्व्ववत् ॥ * ॥ अपि च । “तैले तक्रे गवां मूत्रे काञ्जिके च कुलत्थके । त्रिधा त्रिधा विशुद्धिः स्यात् स्वर्णादीनां समासतः ॥” अथ सीसकस्य मारणम् । “कुडवं नागपत्राणां कुनट्याः स्यात् पलार्द्ध- कम् । तण्डु लीयरसैर्य्यामं यामं वासारसैस्तथा ॥ संमर्द्य च क्रियां कृत्वा घर्म्मे संशोष्य तं पुनः । सरावसंपुटे कृत्वा पचेद्वन्योपलैर्भिषक् ॥ एवं सप्तपुटैर्नागो भस्मीभवति निश्चितम् । द्विगुञ्जोऽयं ध्रुवं हन्यात् प्रमेहानखिलानपि ॥” इति वैद्यदर्पणः ॥
📄 मूल मुद्रित पृष्ठ (5-361-c)
स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🔁 जिनके अर्थ में "सीसक" आता है (2)
स्रोत व श्रेय:
  • हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
  • Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
  • V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
  • तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
  • राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।

Cologne Digital Sanskrit Dictionaries के डिजिटल पाठ CC BY-NC-SA लाइसेंस के अनुसार निःशुल्क, गैर-व्यावसायिक उपयोग हेतु श्रेय सहित प्रस्तुत हैं। यह शब्दकोश-सेवा पूर्णतः निःशुल्क है। पुराने मुद्रित ग्रन्थों के डिजिटल पाठ में कहीं-कहीं टंकण/OCR दोष सम्भव हैं — सन्देह होने पर "📄 मूल मुद्रित पृष्ठ" देखें।

💬 ज्योतिषीय प्रश्न पूछें