सूचिकाभरणः, पुं, औषधविशेषः । यथा, -- “विषं पलमितं सूतः शाणकश्चूर्णयेद्द्वयम् । तच्चूर्णं संपुटे कृत्वा काचलिप्तशरावयोः ॥ मुद्रां कृत्वाथ संशोष्य ततश्चुल्ल्यां निवेशयेत् । वह्निं शनैः शनैः कुर्य्यात् प्रहरद्वयसङ्ख्यया ॥ ततः उद्घाट्य तन्मुद्रामुपरिस्थशरावकात् । सलग्नी यो भवेद्धूमस्तं गृह्णीयाच्छनैः शनैः ॥ वायुस्पर्शी यथा न स्यात्ततः कूप्यां निवेशयेत् । यावत् सूच्या मुखे लग्नं कूप्या निर्याति भेषजम् तावन्मात्रो रसो देयो मूर्च्छिते सतिपातिनि ॥ क्षुरेण पक्षते मूर्द्ध्नि तत्राङ्गुल्या च घर्षयेत् ॥ [] रक्तभेषजसम्पर्कात् मूर्च्छितोऽपि हि जीवति । तथैव सर्पदष्टोऽपि मृतावस्थोऽपि जीवति । यदा तापो भवेत्तस्य मधुरं तत्र दीयते ॥” इति सूचिकाभरणो रसः ॥ इति भैषज्यरत्नावली ॥ * ॥ अपि च । “विषं पलं रस शाणं तच्चूर्णं काचलेपिते । मृत्संपटे च संरुध्य चल्ल्यां संस्थाप्य पाच- येत् ॥ शनैर्य्यामद्वयं पक्त्वा तं समुद्वास्य शीतलम् । ऊर्द्धपात्रगतं धूमं गृहीत्वा स्पृष्टमारुतम् ॥ यावत् सूच्या मुखे लग्नं कूप्या आयाति भेषजम् क्षुरेण प्रक्षते शीर्षे तत्राङ्गुल्या च घर्षयेत् ॥ त्रिदोषे मूर्च्छितो जीवो रक्तभेषजसङ्गमात् । सर्पदष्टो मृतावस्थः सोऽपि जीवति तत्क्षणात् दद्याच्च मधुरं तोयं सूचिकाभरणे रसे ॥” इति सूचिकाभरणरसः सन्निपाते ॥ इति रसप्रदीपः ॥ * ॥ (अपि च । “रसगन्धकनागञ्च विषं स्थावरजङ्गमम् । मात्स्यवाराहमायूरच्छागपित्तैर्विभावयेत् ॥ सूचिकाभरणो नाम भैरवेण प्रकीत्तितः । सूचिकाग्रेण दातव्यः सन्निपातनिवर्हणः ॥” इति सूचिकाभरणो रसः ॥ इति वैद्यकरसेन्द्रसारसंग्रहे ज्वराधिकारे ॥)
📄 मूल मुद्रित पृष्ठ (5-391-b) स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।