सूतकं, क्ली, (सू + भावे क्तः । ततः स्वार्थे कन् । जन्म । इति मेदिनी ॥ (सूतकं जन्म कारण- त्वेनास्त्यस्येति । अच् ।) जननाशौचम् । यथा, “मृतेन सूतकं गच्छेन्नेतरत् सूतकेन तु ।” इति । वृद्धमनुरपि । “शावस्योपरि शावे तु सूतकोपरि सूतके । शेषाहोभिर्व्विशुद्धिः स्यादुदक्यां सूतिकां विना ॥” मरणाशौचम् । यथा, -- “सर्व्वं गोत्रमसंस्पृश्यं तत्र स्यात् सूतके सति । मध्येऽपि सूतके दद्यात् पिण्डान् प्रेतस्य तृप्तये ॥” इति शुद्धितत्त्वम् ॥ [] प्रतिबन्धकम् । यथा, -- “व्रतयज्ञविवाहेषु श्राद्धे होमेऽर्च्चने जपे । आरब्धे सूतकं न स्यादनारब्धे नु सूतकर्म् ॥” इति तिथ्यादितत्त्वम् ॥ (उपरागः । ग्रहणम् । यथा, मनुः । ४ । ११० । “प्रतिगृह्य द्विजो विद्वानेकोद्दिष्टस्य केतनम् । त्र्यहं न कीर्त्तयेद्ब्रह्म राज्ञो राहोश्च सूतके ॥” “राजा चन्द्रमास्तस्य सूतकं राहुं प्रत्यमृत- स्रवणं चशब्दात् सूर्य्यस्य च । अथवा जनपदे- श्वरस्य राज्ञः सूतकं पुत्त्रजन्मोत्मवः । राहोः सूतकं चन्द्रसूर्य्ययोरुपरागः ग्रहणमिति प्रसि- द्धम् ॥” इति तत्र मेधातिथिः ॥)
सूतकः, पुं, क्ली, (सूत एव । स्वार्थे कन् ।) पारदः । इति मेदिनी ॥ (पर्य्यायोऽस्य यथा, -- “रसेन्द्रः पारदः सूतः सूतराजश्च सूतकः । शिवतेजो रसः सप्त नामान्येवं रसस्य तु ॥” ईति वैद्यकरसेन्द्रसारसंग्रहे जारणमारणा- धिकारे ॥)
📄 मूल मुद्रित पृष्ठ (5-392-c) स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।