सूतिकागार न० सूतिकाया निवासयोग्यमगारम् । मू- तिकागृहे अरिष्टे । सूतिकागृहादयोऽप्यत्र । तत्करणप्रवेशमुहूर्त्तादिकं पीयू० उक्तं यथा “उक्तञ्च श्रीपतिना “पुनर्वसौ च सूतिकागृहस्य निर्मितिः शुभा । विरञ्चिविष्णु भान्तरे प्रवेशनं हितं भवेत्” इति । विरञ्चिरभिजिन्नक्षत्रम् अन्तरे मध्ये विरञ्चिविष्णुतारयोरि- त्येव सप्तम्या अधिकरणत्वे वोधिते अन्तरपदोक्तिः स्पष्टार्था । तदेतत्ब्राह्मणव्यतिरिक्तवर्णत्रयविषयम् । यदाह लल्लः “पुनर्वसौ नृपादीनां कर्त्तव्यं सूतिकागृहम् । श्रवणा- भिजितोर्मध्ये प्रवेशं तत्र कारयेत्” इति । आवश्यकत्वे तु श्रवणाभिजितोर्मुहूर्त्तस्तदुदयो ग्राह्यः वा इत्यर्थः । ब्राह्मणस्य तु प्रागुक्तनक्षत्रेष्वेव सूतिकागृहनिर्माणप्रवेशौ तत्र सूतिकागृहं नैरृत्यां कार्य्यम् । यदाह वृद्धवसिष्ठः “ऐन्द्र्यां तु विक्रमस्थानमाग्नेय्यां पचनालयः । वारुण्यां भोजनगृहं नैरृत्यां सूतिकागृहम् । याम्यायां शयन- स्थानं वायव्यां पशुमन्दिरम् । कौवेर्य्यां तु धनस्थानम् ऐशान्यां देवतालयः” इति । स्मृतिभास्करे गर्गः “वारे- ऽनुकूले राशौ तु दिने दोषविवर्जिते । सानुकूलदिशि प्रोक्तं सूतिकाभवनं वुधैः” इति । कालानियभ उक्तो रत्नकोशे “आसन्नप्रसवे मासि कुर्य्याच्चैव विशेषतः । तद्वत् प्रसवकाले स्यादिति शास्त्रेषु निश्चयः” इति । वराहेणात्रानेकनक्षत्राणामभिधानं कृतं यथा “हस्ता- दित्यशशाङ्कतिष्यपवनप्राज्येशमित्रोत्तराचित्राश्विश्रवणेषु वृश्चिकघटौ हित्वा विरिक्ते तिथौ । शुक्राचार्य्यशनै श्चरज्ञ शशिनां वारेऽनुकूले विधौ सद्रर्वेश्मनि सूतिका गृहविधिः क्षेमङ्करः कीर्त्यते” इति । वेश्मनि चतुर्थस्थाने [] सद्भिः शुभग्रहैः । सूतिकागृहप्रवेशे कालविशेषमाह ज्योतिर्वशिष्ठः “अथातः सम्प्रवक्ष्यामि सूतिकागार- वेशनम् । मासे तु नवमे प्राप्ते पूर्वपक्षे शुभे दिने । प्रसूतिसम्भवे काले सद्य एव प्रवेशयेत्” इति । पूर्वपक्षे शुक्लपक्षे नक्षत्रादीन्याह गर्गः “रोहिण्यैन्दवपौष्णेषु स्वातीवारुणयोरपि । पुष्ये पुनर्वसौ हस्तधनिष्ठा त्र्यु- त्तरासु च” इति । “मैत्रत्वाष्ट्रे तथाश्विन्यां सूतिकागार- वेशनम् । सर्वे शुभग्रहाः केन्द्रे पापाश्च त्रिषडायगाः । शुभाशे शुभसंदृष्टौ सूतिकागारवेशनमिति” । तदाकारमाह भावप्र० “अष्टहस्तायतं चारु चतुर्हस्तविशा- लकम् । प्राचीद्वारमुदग्द्वारं विदध्यात् सूतिकागृहम्” ।
📄 मूल मुद्रित पृष्ठ (5326-a) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।