🕉️ 28 November 2026, Saturday · 10:17:57 PM · CDSHARMA.IN

📚 उमा संस्कृत-हिन्दी महाशब्दकोश

अर्थ · व्याकरण · व्युत्पत्ति · पर्याय · समास · शास्त्रीय उद्धरण — पाँच प्रामाणिक कोश व अमरकोश एक साथ

279,511 शीर्ष-शब्द · 452,554 कोश-प्रविष्टियाँ

सूतिकारोग
sūtikāroga
🟠 शब्दसागर🔵 मोनियर-विलियम्स🟢 वाचस्पत्यम्🟤 शब्दकल्पद्रुम
🟠 हिन्दी शब्दसागरहिन्दी में अर्थ
सूतिकारोग संज्ञा पुं॰ [सं॰] प्रसूता को होनेवाले रोग । विशेष—वैद्यक के अनुसार सूतिकारोग अनुचित आहार विहार, क्लेश, विषमासन तथा अजीर्णावस्था में भोजन करने से होते हैं । प्रसूता के अंगों का टूटना, अग्निमांद्य, निर्बलता, शरीर का काँपना, सूजन, ग्रहणी, अतिसार, शूल, खाँसी, ज्वर, नाक, मुँह से कफ निकलना आदि सूतिकारोग के लक्षण हैं ।
स्रोत: हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
🔵 मोनियर-विलियम्स संस्कृत-अंग्रेज़ी कोशअंग्रेज़ी में अर्थ
सूतिका—रोग m. = -गद, MW.
📄 मूल मुद्रित पृष्ठ (1240,1)
स्रोत: Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
🟢 वाचस्पत्यम् (संस्कृत-संस्कृत)संस्कृत में अर्थ
सूतिकारोग पु० ६ त० । भावप्र० उक्ते रोगभेदे तन्निदानादि यथा “मिथ्योपचारात् संक्लेशात् विषमा- जीर्णभोजनात् । मूतिकायास्तु ये रोगा जायन्ते दारु- णाश्च ते” । मिथ्योपचारात् अनुचिताचरणात् प्रवा- तादिसेवनात् । संक्लेशात् संक्लिश्यन्ते दोषा अनेन इति संक्लेशः दोषजनकमन्नं तस्मात् । दारुणाः कष्टसाध्याः । के ते व्याधय इत्याकाङ्क्षायामाह “अङ्गमर्दो ज्वरः कासः पिपासा गुरुगात्रता । शोथः शूलातिसारौ च मूतिका- रोगलक्षणम् । एतेऽङ्गमर्दादयः प्रायेण मूतिकाया भवन्तः मूतिकारोगत्वेन लक्ष्यन्ते । ज्वरादीनां रोग- विशेषाणां निदानविशेषमाह “ज्वरातीसारशोथाश्च शू लानाहबलक्षयाः । तन्द्रारुचिप्रसेकाद्या वातश्लेष्म- समुद्भवाः । कृच्छ्रसाध्या हि ते रोगाः क्षीणमांसबला- श्रिताः । ते सर्वे सूतिकानाम्ना रोगास्ते चाप्युपद्रवाः” मूतिकाभवत्वेन मूतिकानाम्ना ते रोगाः आश्रयाश्रित- योरमेदोपचारात् ते चाप्युपद्रवा इति त एव ज्वरादयः उक्तानां रोगाणामन्यतमं प्रधानीकृत्योपद्रवाश्च” ।
📄 मूल मुद्रित पृष्ठ (5326,a)
स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🟤 शब्दकल्पद्रुम (संस्कृत-संस्कृत)संस्कृत में अर्थ
सूतिकारोगः, पुं, (सूतिकाया रोगः ।) नव- प्रसूताया व्याधिभेदः । तन्निदानादि यथा, -- “मिथ्योपचारात् संक्नेशात् विशमाजीर्णभोज- नात् । सूतिकायास्तु ये रोगा जायन्ते दारुणाश्च ते ॥” मिथ्योपचारात् अनुचिताचरणात् । प्रवातादि- सेवनात् । संक्लेशात् संक्लिश्यन्ते दोषा अनेन इति संक्लेशः दोषजनकमन्नं तस्मात् । दारुणाः कष्टसाध्याः । के ते व्याधय इत्याकाङ्क्षायामाह । “अङ्गमर्द्दो ज्वरः कासः पिपासा गुरुमात्रता । शोथः शूलातिसारौ च सूतिकारोगलक्षणम् ॥” एतेऽङ्गमर्द्दादयः प्रायेण सूतिकाया भवन्तः सूतिकारोगत्वेन लक्ष्यन्ते ॥ * ॥ ज्वरादीनां रोगविशेषाणां निदानविशेषमाह । “ज्वरातीसारशोथाश्च शूलानाहबलक्षयाः । तन्द्रारुचिप्रसेकाद्या वातश्लेष्मसमुद्भवाः ॥ कृच्छ्रसाध्या हि ते रोगाः क्षीणमांसबलाश्रिताः ते सर्व्वे सूतिका नाम्ना रोगास्ते चाप्युपद्रवाः ॥” सूतिकाभवत्वेन सूतिकानाम्ना ते रोगाः । आश्रयाश्रितयोरभेदोपचारात् । ते चाप्युपद्रवा इति । त एव ज्वरादय उक्तानां रोगाणामन्य- तमं प्रधानीकृत्योपद्रवाश्च ॥ * ॥ अथ सूतिकारोगचिकित्सा । “सूतिकारोगशान्त्यर्थं कुर्य्यात् वातहरीं क्रियाम् । दशमूलकृतं क्वाथं कोष्णं दद्यात् घृतान्वितम् ॥ अमृतानागरसहचरभद्रोत्कटपञ्चमूलकं जल- दम् । शृतशीतं मधुयुक्तं शमयत्यचिरेण सूतिकातङ्कम् ॥ देवदारु वचा कुष्ठं पिप्पली विश्वभेषजम् । भूनिम्बकट्फलं मुस्तं तिक्ताधान्यं हरीतकी ॥ गजकृष्णा सदुःस्पर्शा गोक्षुरं धन्वयासकः । बृहत्यतिविषा च्छिन्ना कर्क्कटः कृष्णजीरकः ॥ [] समभागान्वितैरेतैः सिन्धुरामठसंयुतैः । क्वाथमष्टावशेषन्तु प्रसूतां पाययेत् स्त्रियम् ॥ शूलकासज्वरश्वासमूर्च्छाकम्पशिरोऽर्त्तिभिः । युक्तं प्रलापतृड्दाहतन्द्रातीसारवान्तिभिः ॥ निहन्ति सूतिकारोगं वातपित्तकफोद्भवम् । कषायो देवदार्व्वादिः सूतायाः परमौषधम् ॥” इति देवदार्व्वादिक्वाथः ॥ * ॥ “जीरकः स्थूलजीरश्च शतपुष्पाद्वयन्तथा । यवानी चाजमोदा च धान्यकं मेथिकापि च ॥ शुण्ठी कृष्णा कणामूलं चित्रकं हपुषापि च । वदरीफलचूर्णञ्च कुष्ठं कम्पिल्लकं तथा ॥ एतानि पलमात्राणि गुडं शतपलं मतम् । क्षीरं प्रस्थद्वयं दद्यात् सर्पिषः कुडवन्तथा ॥ पञ्चजीरकपाकोऽयं प्रसूतानां प्रशान्तये । युज्यते सूतिकारोगे योनिरोगे ज्वरे क्षये । कासे श्वासे पाण्डुरोगे कार्श्ये वातामयेषु च ॥” इति पञ्चजीरकपाकः ॥ * ॥ “आज्यस्याञ्जलियुग्ममत्र पयसःप्रस्थद्वयंखण्डत पञ्चाशत्पलमत्र चूर्णितमथ प्रक्षिप्यते नागरम् । प्रस्थार्द्धं गुडवद्विपाच्य विधिना मुष्टित्रयं धान्य- कात् मिश्याः पञ्चपलं पलं कृमिरिपोः साजाजि- जीरादपि ॥ व्योषाम्भोददलोरगेन्द्र-सुमनस्तत्द्राविडीनां पल पक्वं नागरखण्डसंज्ञकमिदं सौभाग्यदं योषि- ताम् । तृट्श्वासज्वरदाहशोषशमनं सश्वासकासापहं प्लीहव्याधिविनाशनं कृमिहरं मन्दाग्निसन्दी- पनम् ॥” दलं पत्रकम् । उरगेन्द्रसुमुखनागकेशरम् । द्राविडी सूक्ष्मैला । सौभाग्यशुण्ठीपाकः । इति भावप्रकाशः ॥
📄 मूल मुद्रित पृष्ठ (5-393-c)
स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
स्रोत व श्रेय:
  • हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
  • Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
  • V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
  • तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
  • राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।

Cologne Digital Sanskrit Dictionaries के डिजिटल पाठ CC BY-NC-SA लाइसेंस के अनुसार निःशुल्क, गैर-व्यावसायिक उपयोग हेतु श्रेय सहित प्रस्तुत हैं। यह शब्दकोश-सेवा पूर्णतः निःशुल्क है। पुराने मुद्रित ग्रन्थों के डिजिटल पाठ में कहीं-कहीं टंकण/OCR दोष सम्भव हैं — सन्देह होने पर "📄 मूल मुद्रित पृष्ठ" देखें।

💬