🕉️ 23 November 2026, Monday · 07:39:47 PM · CDSHARMA.IN

📚 उमा संस्कृत-हिन्दी महाशब्दकोश

अर्थ · व्याकरण · व्युत्पत्ति · पर्याय · समास · शास्त्रीय उद्धरण — पाँच प्रामाणिक कोश व अमरकोश एक साथ

279,511 शीर्ष-शब्द · 452,554 कोश-प्रविष्टियाँ

सोपप्लव
sopaplava
🟠 शब्दसागर🔵 मोनियर-विलियम्स🟣 आप्टे🟢 वाचस्पत्यम्🟤 शब्दकल्पद्रुम
📗 अमरकोश — पर्याय
राहु से ग्रस्त चन्द्रमा या सूर्य 'सोपप्लव' और 'उपरक्त' कहलाते हैं (1.4.10) उपरक्त
🟠 हिन्दी शब्दसागरहिन्दी में अर्थ
सोपप्लव वि॰ [सं॰]
१. उपप्लव अर्थात् बाढ़, उपद्रव आदि से युक्त ।
२. ग्रहण से युक्त [को॰] ।
स्रोत: हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
🔵 मोनियर-विलियम्स संस्कृत-अंग्रेज़ी कोशअंग्रेज़ी में अर्थ
सोपप्लव mfn. eclipsed (as the sun or moon), L.
afflicted with any great calamity, overrun or attacked by enemies, MW.
📄 मूल मुद्रित पृष्ठ (1249,1)
स्रोत: Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
🟣 आप्टे संस्कृत-अंग्रेज़ी कोशअंग्रेज़ी में अर्थ
सोपप्लव a. 1 Afflicted with any great calamity. --2 Invaded or overrun by enemies. --3 Eclipsed (as the sun or moon).
📄 मूल मुद्रित पृष्ठ (1139-b)
स्रोत: V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
🟢 वाचस्पत्यम् (संस्कृत-संस्कृत)संस्कृत में अर्थ
सोपप्लव पु० सह उपप्लवेन सादेशः । समाक्रान्तभूच्छायेन राहुणा योगरूपोप्लवसहिते १ चन्द्रे तथाभूतचन्द्रच्छाया- योगयुक्ते २ सूर्य्य च अमरः । ३ उपद्रवयुते त्रि० । चन्द्रार्कयोर्ग्रासकारणमुंपरागशब्दे प्रायेणाक्तं देवीपुरा- णोक्तमधिकमत्रोच्यते । “ब्रह्मोवाच “यदयं वदते लोको वासिशत्वान्महामते! । तदहं संप्रवक्ष्यामि चन्द्रसूर्य्योपरागिकम् । यदि सत्यमयं ग्रस्तस्तेजाराशिर्दिवाकरः । तत्कथं नोदरस्थेन राहुणा भस्मसात् कृतः । अथ वा राहुणाक्रम्य निजवक्त्रं प्रवे- शितः । तत्कथं दशनैस्तीक्ष्णः शतथा न विखण्डितः । विमुक्तश्च पुनर्दृष्टस्तथैवाखण्डमण्डलः । न चास्याप- हृतं तेजो न स्थानादपसारितः । यदि वा ह्येष निष्पीतः कथं दीप्ततरोऽभवत् । तस्मान्न तेजसां राशी राहोर्वक्त्रं गमिष्यति । भक्ष्यार्थं सर्वदेवानां सोमः सृष्टः स्वयम्भुवा । तत्रस्थममृतञ्चापि सम्भूत सूर्य्यतेजसा । पिबन्त्यम्बुमयं देवाः पितरश्च स्वधाऽमृतम् । त्रयञ्च त्रिशतञ्चैव त्रय- स्त्रिंशत्तथैव च । त्रयश्च त्रिसहस्राश्च देवाः सोमं पिवन्ति ये । राहोरप्यमृतं भागः पुरा सृष्टं स्नयम्भुवा । तस्मा- त्तद्राहुरागत्य पातुमिच्छति पर्वसु । उद्धृत्य पार्थिवीं छायामभ्राकारां तमोमयः । पातुमिच्छन् ततश्चेन्दु- माच्छादयति छायया । शुक्ले च चन्द्रमभ्येति कृष्णे एर्वणि भास्करम् । सूर्य्यमण्डलसस्थस्तु चन्द्रमेव जिघांसति । तस्मात् पिवति तं राहुस्तनुमस्या विना- शयन् । अविहिसन् यथा पद्मं पिबति भ्रमरो मधु । चन्द्रस्थममृतं तद्वदभेदाद्राहुरश्नुते । चन्द्रकान्तो मणि र्यद्वत्तुहिनं क्षरते क्षणात् । क्षरन्नपि न हीयेत तेजसा नैव सुच्यते । यथा सूर्य्यमणिः सूर्य्यादुत्पाद्य पावकं शुभम् । न भवत्यङ्गहीनोऽपि तेजसा नैव मुच्यते । एवं चन्द्रश्च सूर्य्यश्च छादितावपि राहुणा । स्वतेजसा न मुच्येते नाङ्गहीनौ बभूवतुः । पर्वस्वथ च चन्द्रस्य माणिक्यकनकाकृतिः । सोमा दैवतसंयोगात् छाया योगाच्च पार्थिवात् । राहाश्च वरलब्ध्या वै प्रक्षरेदमृतं शशी । स्वदोहकाले सम्पाप्ते वत्सं दृष्ट्वा च गौर्यथा । स्वाङ्गादेव क्षरेत् क्षीरं तथेन्दुः क्षरतेऽमृतम् । पितेव सूर्य्यो देवानां सोमो मातेव लक्ष्यते । यथा मातुःस्तनं [] पीत्वा जीवन्ति सर्वजन्तवः । पीत्वाऽमृतं तथा सोमात् तृप्यन्ते सर्वदेवताः । सम्भृतं सर्वयागेषु तथायं क्षरते शशी । तं क्षरन्तं यथाभागमुपजीवन्ति देवताः । तस्मिन् काले समभ्येति राहुरप्यवकर्षति । सर्वमर्द्धं त्रिभागञ्च पादं पादार्द्धमेव च । आक्रम्य पार्थिवीं छायां यावन्त चन्द्रमण्डलम् । स्मृतः स भागो राहोस्तु देवभागास्तु शेषकाः । तृप्तिं विधाय देवानां राहोः प्रर्वनतस्य च । चन्द्रो न क्षयमायाति तेजसा नैव मुच्यते । तिथिभा- नाश्च यावन्तः पुनन्त्यर्कं प्रमाणतः । पर्वच्छायास्थितः कालस्तावानेव प्रकीर्त्तितः । अतो राहुभुजः सोमः सोमवृद्धिर्दिवाकरात् । पर्वकाले स्थितिस्त्वेवं विप- रीता पुनः पुमः । अतश्छादयते राहुरभ्रवच्छशिभा स्करौ । राहुरभ्रकसंस्थानः सोममाच्छाद्य निष्ठति । उद्धृत्य पाथिवीं छायां धूममेघ इवोत्थितः । चन्द्रस्य यदवष्टब्धं राहुणा भास्करस्य च । तन्नावखण्डित तस्य केवलं श्यामलीकृतम् । कर्दमेन यथा वस्त्रं शुक्लमप्युप हन्यते । एकदेशोऽथ सर्वं वा राहुणा चन्द्रमास्तथा । प्रक्षालितं तदेवेह पुनः शुक्लतरं भवेत् । राहुत्यक्तं भवेत्तद्वत् निर्मलं चन्द्रमण्डलम् । राहुणा च्छादितौ वापि दृष्ट्वा चन्द्रदिवाकरौ । विप्राः शान्तिपरा भूत्वा पुनराप्याययन्ति तम् । एवं न गृह्यते सूर्य्यश्चन्द्रमास्तत्र गृह्यते । अबुधास्तं न पश्यन्ति मानुषा मांसचक्षुषः । जगत्सम्मोहनञ्चैतत् ग्रहणं
स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🟤 शब्दकल्पद्रुम (संस्कृत-संस्कृत)संस्कृत में अर्थ
सोपप्लवः, पुं, (उपप्लवेन सह वत्तमानः ।) राहु- ग्रस्तः चन्द्रः सूर्य्यश्च । इत्यमरः । १ । ४ । १० ॥
📄 मूल मुद्रित पृष्ठ (5-415-c)
स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
स्रोत व श्रेय:
  • हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
  • Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
  • V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
  • तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
  • राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।

Cologne Digital Sanskrit Dictionaries के डिजिटल पाठ CC BY-NC-SA लाइसेंस के अनुसार निःशुल्क, गैर-व्यावसायिक उपयोग हेतु श्रेय सहित प्रस्तुत हैं। यह शब्दकोश-सेवा पूर्णतः निःशुल्क है। पुराने मुद्रित ग्रन्थों के डिजिटल पाठ में कहीं-कहीं टंकण/OCR दोष सम्भव हैं — सन्देह होने पर "📄 मूल मुद्रित पृष्ठ" देखें।

💬