🕉️ 29 November 2026, Sunday · 05:02:53 AM · CDSHARMA.IN

📚 उमा संस्कृत-हिन्दी महाशब्दकोश

अर्थ · व्याकरण · व्युत्पत्ति · पर्याय · समास · शास्त्रीय उद्धरण — पाँच प्रामाणिक कोश व अमरकोश एक साथ

279,511 शीर्ष-शब्द · 452,554 कोश-प्रविष्टियाँ

स्रोतोञ्जन
srotoñjana
🔵 मोनियर-विलियम्स🟢 वाचस्पत्यम्🟤 शब्दकल्पद्रुम
🔵 मोनियर-विलियम्स संस्कृत-अंग्रेज़ी कोशअंग्रेज़ी में अर्थ
स्रोतो—ऽञ्जन n. ‘stream-collyrium’, antimony (esp. as a collyrium for the eyes, said to be produced in the river Yamunā), L.
📄 मूल मुद्रित पृष्ठ (1274,3)
स्रोत: Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
🟢 वाचस्पत्यम् (संस्कृत-संस्कृत)संस्कृत में अर्थ
स्रोतोऽञ्जन न० स्रोतसि यमुंनास्रोतो जलसन्निकृष्टसौवीरदेशे भवम् अञ्जनम् । सौवीरदेशजेऽञ्जने अमरः । “वल्मीकशिखराकारं भिन्नं नीलाञ्जनप्रभम् । घृष्टे च गैरिकावर्णं श्रेष्ठं स्रोतोऽञ्चनञ्च तत्” राजनि० । “स्रोतोऽञ्जनं तत्र श्रेष्ठं विशुद्धं सिन्धुसम्भवम् । दृष्टेः कण्डूमलहरं दाहक्लेदरुजापहम् । अक्ष्णो रूपावह- ञ्चैव सहते मारुतातपौ । नेत्ररोगा न जायन्ते तस्मा- दञ्जनमाचरेत्” । “अञ्जनं यामुनञ्चापि कापोताञ्जन- मित्यपि । तत्र स्रोतोऽञ्जनं कृष्णं सौवीरं श्वेतमीरि- तम् । स्रोतोऽञ्जनसमं ज्ञेयं सौवीरं तत्तु पाण्डरम् । स्रोतोऽञ्जनं भवेत् स्वादु चक्षुष्यं कफपित्तनुत् । कषायं लेखनं स्निग्धं ग्राहि च्छर्दिविषापहम् । सिध्मक्षयास्रहृत्- शीतं सेवनीयं सदा बुधैः । सौतोऽञ्जनगुणाः सर्वे सौवी- रेऽपि मता बुधैः । किन्तु द्वयोरञ्जनयोः श्रेष्ठं स्रोतो- ऽञ्जनं स्मृतम्” भावप्र० ।
📄 मूल मुद्रित पृष्ठ (5375,b)
स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🟤 शब्दकल्पद्रुम (संस्कृत-संस्कृत)संस्कृत में अर्थ
स्रोतोञ्जनं, क्ली, (स्रोतोभवमञ्जनम्) यमुना- स्रोतोभवाञ्जनम् । तत्पर्य्यायः । सौवीरम् २ कापोताञ्जनम् ३ यामुनम् ४ इत्यमरः । २ । ९ । १०० ॥ अञ्ज्यते नयनमनेन चक्षुष्यत्वादञ्जनं अनट् । यमुनायाः स्रोतोभवत्वात् स्रोतसो- ऽञ्जनं स्रोतोञ्जनम् । सुवीरदेशे भवं सौवौरं ष्णः । स्रोतोञ्जनाद्विलक्षणं सौवीरमिति ख्यातम् । अदूरभवत्वाद्भेदेऽपि एकत्वोपनिबन्धनमिति सुभूतिः । कपोतस्यायं कापोतो वर्णः तद्युक्त- मञ्जनं कापोताञ्जनम् । कापोतवर्णमञ्जनं कापोताञ्जनमिति स्वामी । यमुनायां भवं यामुनं ष्णः । इति तट्टीकायां भरतः ॥ * ॥ अपरञ्च । “स्रोतोञ्जनं नदीजञ्च कृष्णं श्वेतञ्च लोहितम् ॥” इति रत्नमाला ॥ तत्पर्य्यायान्तरं यथा । वारिभवम् ५ स्रोतोभवम् ६ स्रोतनदीभवम् ७ सौवीरसारम् ८ कपोत- सारम् ९ वल्मीकशीर्षम् १० । अस्य गुणाः । शीतत्वम् । कटुत्वम् । कषायत्वम् । क्रमिनाशि- त्वम् । रसायनत्वम् । रसे योग्यत्वम् । स्तनवृद्धि- करत्वञ्च । तस्य लक्षणं यथा, -- “बल्मीकशिखराकारं भिन्नं नीलाञ्जनप्रभम् । [] घृष्टे च गैरिकावर्णं श्रेष्ठं स्रोतोञ्जनञ्च तत् ॥” इति राजनिर्घण्टः ॥ अपि च । “स्रोतोञ्जनं मतं श्रेष्ठं विशुद्धं सिन्धुसम्भवम् । दृष्टे कण्डूमलहरं दाहक्लेदरुजापहम् ॥ अक्ष्णो रूपावहञ्चैव सहते मारुतातपौ । नेत्ररोगा न जायन्ते तस्मादञ्जनमाचरेत् ॥” स्रोतोऽञ्जनं कृष्ण सुरमा इति । शोधनं विनापि सिन्धुनामपर्व्वतस्तत्र भवम् । इति । अथ सुरमा सौवीर । “अञ्जनं यामुनञ्चापि कापोताञ्जनमित्यपि । तत्र स्रोतोञ्जनं कृष्णं सौवीरं श्वेतमीरितम् ॥ स्रोतोञ्जनसमं ज्ञेयं सौवीरं तत्तु पाण्डुरम् । स्रोतोञ्जनं स्मृतं स्वादु चक्षुष्यं कफपित्तनुत् ॥ कषायं लेखनं स्निग्धं ग्राहि छर्द्दिविषापहम् । सिध्मक्षयास्रहृच्छीतं सेवनीयं सदा बुधैः ॥ स्रोतोञ्जनगुणाः सर्व्वे सौवीरेऽपि मता बुधैः । किन्तु द्वयोरञ्जनयोः श्रेष्ठं स्रोतोञ्जनं स्मृतम् ॥” इति च भावप्रकाशः ॥
📄 मूल मुद्रित पृष्ठ (5-467-c)
स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
स्रोत व श्रेय:
  • हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
  • Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
  • V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
  • तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
  • राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।

Cologne Digital Sanskrit Dictionaries के डिजिटल पाठ CC BY-NC-SA लाइसेंस के अनुसार निःशुल्क, गैर-व्यावसायिक उपयोग हेतु श्रेय सहित प्रस्तुत हैं। यह शब्दकोश-सेवा पूर्णतः निःशुल्क है। पुराने मुद्रित ग्रन्थों के डिजिटल पाठ में कहीं-कहीं टंकण/OCR दोष सम्भव हैं — सन्देह होने पर "📄 मूल मुद्रित पृष्ठ" देखें।

💬