स्वरभङ्ग पु० स्वरस्य कण्ठध्वनिभेदस्य भङ्गो यस्मात् । रोग- भेदे स्वरभेदोऽप्यत्र तल्लक्षणादि सुश्रु० उक्तं यथा “अथातः स्वरभेदप्रतिषेधमध्यायं व्याख्यास्यामः । अत्यु- च्चभाषणविषाध्ययनाभिघातशीतादिभिः प्रकुपिताः पव- नादयस्तु । ते शब्दवाहिधमनीषु गताः प्रतिष्ठां हन्युः स्वरं भवति चापि हि षड्विधः सः । वातेन कृष्णनय- [] नाननमूत्रवर्च्चा भिन्नं शनैर्वदति गर्दभवत्स्वरञ्च । पित्तेन पीतवदनाक्षिपुरीषमूत्री ब्रूयाद्गलेन च विदाहसमन्वि- तेन । कृच्छ्रात्कफेन सततं कफरुद्धकण्ठो मन्दं शनैर्वदति वापि दिवा विशेषात् । सर्वात्मके भवति सर्वविकारसम्पद- व्यक्तता च वचसस्तमसाध्यमाहुः । धूप्येत वाक्क्षयकृते क्षयमाप्नुयाच्च वागेष वापि हतवाक् परिवर्जनीयः । अन्तर्गतस्वरमलक्ष्यपद चिरेण मेदोऽन्वयाद्वदति दिग्धग- लोष्ठतालुः । क्षीणस्य वृद्धस्य कृशस्य चापि चिरोत्थितो यश्च सहोपजातः । मेदस्वितः सर्वसमुद्भवश्च स्वरामयी यो न स सिद्धिमेति । स्निग्धात् स्वरातुरनरानपकृष्टदोषान् संयोजयेद्वमनरेचनवस्तिभिश्च । नस्यावपीडमुखधावन- धूमलेहैः सम्पादयेच्च विविधैः कबलग्रहैश्च” ।
📄 मूल मुद्रित पृष्ठ (5382-b) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।