स्वर्णदी, स्त्री, (स्वः स्वर्मस्य नदी ।) मन्दाकिनी । इत्यमरः । १ । १ । ५२ ॥ बृणिकाली । इति राजनिर्घण्टः ॥ सितगङ्गा । सा तु कामा- ख्यायाः पूर्व्वभागे दिक्करवासिन्याः प्रान्ते खिता । यथा, -- “नद्याः स्वर्णश्रिया पूर्व्वं नदी कामाह्वया तथा । कामाख्यायाः पूर्व्वभागे नदी सोमासनाह्वया । सोमासनायाः पूर्व्वस्यां नदी नाम्ना वृषोदका ॥ ततः पूर्व्वे कामरूपपीठान्ते जगतां प्रसूः । जगन्माया महामाया देवी दिक्करवासिनी ॥ एता या कथिता नद्यः सकला दक्षिणस्रवाः । तासु स्नात्वा च पीत्वा च स्वर्गलोकमवाप्नुयात् ॥ प्रान्ते दिक्करवासिन्याः सदा वहति स्वर्णदी । सितगङ्गाह्वया लोके साक्षात् गङ्गाफलप्रदा ॥ सा भूमिपीठसंस्था तु देवी दिक्करवासिनी । अन्तर्ज्जलैः प्लावयन्ती याति प्रत्यक्षतां सुरैः ॥ सितगङ्गाजले स्नात्वा पृष्ट्वा शम्मुं हरिं विधिम् । इष्ट्वा ललितकान्ताख्यां पुनर्योनौ न जायते ॥” इति कालिकापुराणे ८२ अध्यायः ॥
📄 मूल मुद्रित पृष्ठ (5-487-b) स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।