स्वातियोग पु० आशाडशुभ्रपक्षे कस्यां तित् तिथौ माघकृष्ण- पक्षसप्तभ्या तिथौ च स्वातिनक्षत्रस्थचन्द्रस्य शुभफलादि- ज्ञापके योमभेदे यथोक्तं वृ० सं० २५ अ० “यद्रोहिणीयामभफलं तदेव स्वातावषाढासहिते च चन्द्रे । [] च चन्द्रे । आषाढशुक्ले निखिलं विचिन्त्यं योऽस्मिन् विशे- षन्तमहं प्रवक्ष्ये । स्वातौ निशांशे प्रथमेऽभिवृष्टे शस्यानि सर्वाण्युपयान्ति वृद्धिम् । भागे द्वितीये तिलमुद्गमाषा ग्रैष्मं तृतीयेऽस्ति न शरदानि । वृष्टेऽह्नि भागे प्रथमे सुवृष्टि- स्तद्वद्वितीये तु सकीटसर्पा । वृष्टिस्तु मध्यापरभागवृष्टे निश्छिद्रवृष्टिर्द्युनिशं प्रवृष्टे । सममुत्तरेण तारा चि त्रायाः कीर्त्यते ह्यपांवत्सः । तस्यासन्ने चन्द्रे स्वाते- योगः शिवो भवति । सप्तम्यां स्वातियोगे यदि पतति हिमं माघमासान्धकारे वायुर्वा चण्डवेगः सजलजल- धरो वापि गर्जत्यजसम् । विद्युन्मालाकुलं वा यदि भवति नभो नष्टचन्द्रार्कतारं विज्ञेया प्रावृडेषा मुदित- जनपदा सर्वशस्यैरुपेता । तथैव फाल्गुने चैत्रे वैशा- खस्यासितेऽपि वा । स्वातियोगं विजानीयादाषाढे च विशेषतः” ।
📄 मूल मुद्रित पृष्ठ (5387-a) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।