🕉️ 26 November 2026, Thursday · 10:41:54 AM · CDSHARMA.IN

📚 उमा संस्कृत-हिन्दी महाशब्दकोश

अर्थ · व्याकरण · व्युत्पत्ति · पर्याय · समास · शास्त्रीय उद्धरण — पाँच प्रामाणिक कोश व अमरकोश एक साथ

279,511 शीर्ष-शब्द · 452,554 कोश-प्रविष्टियाँ

स्वायंभुव
svāyaṃbhuva
🟠 शब्दसागर🔵 मोनियर-विलियम्स🟣 आप्टे🟢 वाचस्पत्यम्🟤 शब्दकल्पद्रुम
🟠 हिन्दी शब्दसागरहिन्दी में अर्थ
स्वायंभुव २ वि॰
१. स्वयंभु संबंधी । ब्रह्मा संबंधी ।
२. स्वायंभुव मनु से संबद्ध [को॰] ।
स्रोत: हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
🔵 मोनियर-विलियम्स संस्कृत-अंग्रेज़ी कोशअंग्रेज़ी में अर्थ
स्वायम्भुव mfn. (fr. स्वयम्भू) relating to Svayam-bhū or the Self-existent, derived from the Self-existent (i.e. Brahman), MBh.; Kāv. &c.
relating to or derived from Manu Svāyambhuva, MBh.; Hariv.; Pur.
स्वायम्भुव m. ‘son of Svayam-bhū’, N. of various sages (esp. of the first Manu, of Marīci, Atri, Nārada &c.), ib.
स्वायम्भुव (अम्), n. N. of a Śaiva Tantra.
📄 मूल मुद्रित पृष्ठ (1284,1)
स्रोत: Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
🟣 आप्टे संस्कृत-अंग्रेज़ी कोशअंग्रेज़ी में अर्थ
स्वायंभुव a. (वी f.) 1 Relating to Brahman; Ku. 2. 1. --2 Descended from Brahman; Ś. 7. 9. --वः An epithet of the first Manu (as he was a son of Brahman).
📄 मूल मुद्रित पृष्ठ (1162-c)
स्रोत: V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
🟢 वाचस्पत्यम् (संस्कृत-संस्कृत)संस्कृत में अर्थ
स्वायम्भुव पु० स्वयंभुवोऽपत्यम्, तस्येदम् वा अण् ओरो- दिति वक्तव्ये ओर्गुण इत्युक्त्या संज्ञापूर्वकविधेरनित्य- त्वज्ञापनान्न गुणः उवड् । १ स्वयम्भूपुत्रे मनौ २ स्वयम्भू- सम्बन्धिनि त्रि० “धाम स्वायम्भुवं ययुः” कुमारः । स्त्रियां ङीप् । सा च ३ ब्राह्म्याम् । “भार्गवी नार- दोया च वार्हस्पत्याङ्गिरस्यपि । स्वायम्भुवस्य शास्त्रस्य चतस्रः संहिता मताः” इति तदुक्तधर्मशास्त्रसंहिता- चतुष्टयम् । तदुत्पत्त्यादिकं यथा “ततः कालेन महता तस्याः पुत्रोऽभवन् मनुः । स्वाय- म्भुव इति ख्यातः स विराडिति नः श्रुतम् । तद्रूपगुण- सामान्यादविपूरुष उच्यते । वैराजा यत्र ते जाता वहवः संशितव्रताः । स्वायम्भुवान् महाभागाः सप्त सप्त तथापरे । स्वारोचिषाद्या ते सर्वे ब्रह्मतुल्यस्वरूपिणः । औत्तमिप्रमुखास्तद्वद् येषान्त्वं सप्तमोऽधुना” मत्स्यपु० ४ अ० । “ऋषीस्तेषां प्रवक्ष्यामि पुत्रान् देवगणांस्तथा । मरीचिरत्रिर्भगवानङ्गिराः पुलहः क्रतुः । पुलस्त्यश्च वशि- ष्ठश्च सप्तैते ब्रह्मणः सुताः । उत्तरस्यां दिशि तथा राजन्! सप्तर्षयः स्थिताः । यामा नाम तथा देवास्त्वासन् स्वायम्भुवेऽन्तरे । आग्नीध्रश्चग्निबाहुश्च मेधा मेधातिथि- र्वसुः । ज्योतिष्मान् द्युतिमान् हव्यः स नः पुत्र एव च मनोः स्वा म्भुवस्यैते दश पुत्रा महौजसः । एतत्ते प्रथमं राजन्! मन्वन्तरमुदाहृतम्” हरिवं० ७ अ० ।
📄 मूल मुद्रित पृष्ठ (5391,a)
स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🟤 शब्दकल्पद्रुम (संस्कृत-संस्कृत)संस्कृत में अर्थ
स्वायम्भुवः, पुं, (स्वयम्भुवोऽपत्यमिति । स्वयम्भू + अण् । संज्ञापूर्व्वकस्य विधेरनित्यत्वात् न गुणः ।) प्रथममनुः । स च सृष्टिवृद्धये ब्रह्मणो दक्षि- णाङ्गाज्जातः । वामाङ्गात् शतरूपा स्त्री तस्य [] महिषी आसीत् । अस्मिन्मन्वन्तरे यज्ञोऽवतारः स एव इन्द्रः । यमादयो देवाः मरीच्यादिसप्त- र्षयः । स्वायम्भुवो मनुः । प्रियव्रतोत्तानपादौ मनुपुत्त्रौ । आकूतिः देवहूतिः प्रसूतिः कन्याः । इति श्रीभागवतमतम् ॥ * ॥ अपि च । “यामा नाम पुरा देवाः आसन् स्वायम्भुवे- ऽन्तरे । सप्तैव ऋषयः पूर्व्वं ये मरीच्यादयः स्मृताः ॥ अग्निध्रश्चाग्निबाहुश्च रिभः सवन एव च । ज्योतीष्मान् द्युतिमान् हव्यो मेधा मेधातिषि- र्व्वसुः ॥ स्वायम्भुवस्यास्य मनोर्द्दशैते वंशवर्द्धनाः । प्रतिस्वर्मममी कृत्वा जम्मुस्ते परमं पदम् ॥ एतत् स्वायम्भुवं प्रोक्तं स्वारोचिषमतः परम् ॥” इति मात्स्वे । ९ । ३ -- ६ ॥ * ॥ अपरञ्च । “ततो ब्रह्मात्मसंभूतं पूर्व्वं स्वायम्भुवं प्रभुः । आत्मनः सदृशं चक्रे प्रजापाल्ये मनुं तदा ॥ शतरूपाञ्च तां नारीं तपोनिर्धूतकल्मषाम् । स्वायम्भुवो मनुर्देवः पत्नीत्वे जगृहे प्रभुः ॥ तस्माच्च पुरुषात् पुत्त्रौ शतरूपा व्यजायत । प्रियव्रतोत्तानपादौ प्रख्यातावात्मकर्म्मभिः ॥ कन्ये द्वे च तथाकूतिः प्रसूतिश्च ततः पिता । ददौ प्रसूतिं दक्षाय तथाकूतिं रुचेः पुरा ॥ प्रजापतिः स जगृहे तयोर्यज्ञः सदक्षिणः । पुत्त्रो जज्ञे महाभानः दम्पत्योर्मिथुनं ततः ॥ यज्ञस्य दक्षिणायास्तु पुत्त्रो द्वादश जज्ञिरे ॥ यामा इति समाख्याता देवाः स्वायम्भुवेऽन्तरे तस्य पुत्त्रास्तु यज्ञस्य दक्षिणायां सुभास्वराः ॥ प्रसूत्याञ्च तथा दक्षश्चतस्रो विंशतिस्तथा । ससर्ज कन्यास्तासान्तु सम्यक् नामानि मे शृणु ॥” इति मार्कण्डेयपुराणे दुःसहशासननामाध्यायः (तत्सम्बन्धिनि, त्रि । यथा, हरिवंशे । ७ । ९ । “यामा नाम तथा देवा आसन् सायम्भुवे- ऽन्तरे ॥ ब्रह्मसम्बन्धिनि च त्रि । यथा, कुमारे । २ । १ । “तस्मिन् विप्रकृताः काले तारकेण दिवौकसः । तुरासाह पुरोधाय धाम स्वायम्भुवं ययुः ॥”)
📄 मूल मुद्रित पृष्ठ (5-492-c)
स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🔗 इससे बने/आरम्भ होने वाले शब्द (समास व व्युत्पन्न)
स्रोत व श्रेय:
  • हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
  • Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
  • V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
  • तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
  • राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।

Cologne Digital Sanskrit Dictionaries के डिजिटल पाठ CC BY-NC-SA लाइसेंस के अनुसार निःशुल्क, गैर-व्यावसायिक उपयोग हेतु श्रेय सहित प्रस्तुत हैं। यह शब्दकोश-सेवा पूर्णतः निःशुल्क है। पुराने मुद्रित ग्रन्थों के डिजिटल पाठ में कहीं-कहीं टंकण/OCR दोष सम्भव हैं — सन्देह होने पर "📄 मूल मुद्रित पृष्ठ" देखें।

💬