🕉️ 20 November 2026, Friday · 02:43:52 AM · CDSHARMA.IN

📚 उमा संस्कृत-हिन्दी महाशब्दकोश

अर्थ · व्याकरण · व्युत्पत्ति · पर्याय · समास · शास्त्रीय उद्धरण — पाँच प्रामाणिक कोश व अमरकोश एक साथ

279,511 शीर्ष-शब्द · 452,554 कोश-प्रविष्टियाँ

स्वीया
svīyā
🟠 शब्दसागर🔵 मोनियर-विलियम्स🟤 शब्दकल्पद्रुम
🟠 हिन्दी शब्दसागरहिन्दी में अर्थ
स्वीया संज्ञा स्त्री॰ [सं॰] अपने ही पति में अनुराग रखनेवाली स्त्री । विशेष दे॰ स्वकीया ।
स्रोत: हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
🔵 मोनियर-विलियम्स संस्कृत-अंग्रेज़ी कोशअंग्रेज़ी में अर्थ
स्वीया (आ), f. ‘one's own wife’, a wife solely attached to her husband, Sāh.
📄 मूल मुद्रित पृष्ठ (1279,1)
स्रोत: Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
🟤 शब्दकल्पद्रुम (संस्कृत-संस्कृत)संस्कृत में अर्थ
स्वीया, स्त्री, (स्वस्येयमिति । स्व + छः । टाप् ।) नायिकाभेदः । तस्या लक्षणम् । स्वामिन्ये- वानुरक्ता पतिव्रता इति यावत् । अस्याश्चेष्टा स्वामिशुश्रूषा शीलरक्षा सरलता क्षमा च । सा च त्रिविधा । मुग्धा मध्या प्रगल्भा च । एताः सर्व्वा नायिका अवस्थाभेदेन प्रत्येके नवविधा । प्रोषितभर्त्तृका खण्डिता कलहा- न्तरिता विप्रलब्धा उत्कण्ठिता वासकसज्जा स्वाधीनपतिका अभिसारिका प्रवत्स्यत्पतिका च । एताः प्रत्येके उत्तममध्यमाधमभेदेन अष्टाविंशत्युत्तरशतनायिका भवन्ति । एतासां दिव्यादिव्यगणनाभेदेन चतुरशीत्युत्तरशतत्रय- प्रकारा भवन्ति । तत्र प्रमाणं यथा । नायिका त्रिविधा । स्वीया परकीया सामान्यवनिता चेति । तत्र स्वामिन्येवानुरक्ता स्वीया । न च परिणीतायां परगामिन्यामतिव्याप्तिस्तत्र पति- व्रताया एव लक्ष्यत्वात् । तस्या परगामितया परकीयत्वमेव समायाति । अस्याश्चेष्टा । भर्त्तुः शुश्रूषा । शीलसंरक्षणम् । आर्ज्जवम् । क्षमा च । यथा, -- “गतागतकुतूहलं नयनयोरपाङ्गावधि स्मितं कुलनतभ्रुवामधर एव विश्राम्यति । वचः प्रियतमश्रुतेरतिथिरेव कोपक्रमः कदाचिदपि चेत्तदा मनसि केवलं मज्जति ॥” अपि च । “सञ्चारो रतिमन्दिरावधि सखीकर्णावधि व्याहृतं चेतः कान्तसमीहितावधि पदन्यासावधि प्रेक्षितम् । हास्यञ्चाधरपल्लवावधि महामानोऽपि मौना- वधि सर्व्वं स्वावधि नावधिः कुलभुवां प्रेम्णः परं केवलम् ॥” अपि च । “पदन्यासो गेहाद्वहिरांहफणारोहणसमः स्वगेहादन्यत् यद्भवनमपरद्वीपतुलितम् । वचो लोकालभ्यं कृपणधनतुल्यं मृगदृशः पुमानन्यः कान्ताद्विधुरिव चतुर्थीसमुदितः ॥” स्वीयापि त्रिविधा । मुग्धा मध्या प्रगल्भा च । तत्राङ्कुरितयौवना मुग्धा । सा च ज्ञातयौवना अज्ञातयौवना च । सैव क्रमशो लज्जाभयपरा- धीनरतिर्नवोढा । सैव क्रमशो जातप्रश्रया विश्रब्धनवोढा । अस्याश्चेष्टा । क्रिया मनोहरा [] कोपे मार्द्दवं नवविभूषणे समीहा च ॥ * ॥ मुग्धा यथा, -- “आज्ञप्तं किल कामदेवधरणीपालेन काले शुभे वस्तुं वास्तुविधिं विधास्यति तनौ तारुण्य- मेणीदृशः । दृष्ट्या खञ्जनचातुरी मुखरुचा सौधाकरी माधुरी वाचा किञ्च सुधासमुद्रलहरी लावण्यमाम- न्त्यते ॥” अज्ञातयौवना यथा, -- “नीरात्तीरमुपागता श्रवणयोः सीम्रि स्फुर- न्नेत्रयोः श्रोत्रे लग्नमिदं किमुत्पलमिति ज्ञातुं करं न्यस्यति । सैवालाङ्कुरशङ्कया शशिमुखी रोमावलीं प्रोञ्छति श्रान्तास्मीति मुहुः सखीमविदितश्रोणीभरा पृच्छति ॥” ज्ञातयौवना यथा, -- “स्वयम्भुः शम्भुरम्भोजलोचने ! तत्पयोधरः । नखेन कस्य धन्यस्य चन्द्रचूडो भविष्यति ॥” * ॥ नवोढा यथा, -- “हस्ते धृतापि शयने विनिवेशितापि क्रोडे कृतापि यतते बहिरेव गन्तुम् । जानीमहे नवबधूरथ तस्य वश्या । यः पारदं स्थिरयितुं क्षमते करेण ॥” यथा च । “बलान्नीता पार्श्वं सुखमनुमुखं नैव कुरुते धुनाना मूर्द्धानं क्षिपति वदनं चुम्बनविधौ । हृदि न्यस्तं हस्तं क्षिपति गमनारोपितमना नवोढा वोढारं रमयति च सन्तापयति च ॥” * विश्रब्धनवोढा यथा, -- “दरमुकुलितनेत्रपाणिनीवी- नियमितबाहुकृतोरुयुग्मबन्धम् । मरकलितकुचस्थलं नवोढा स्वपिति समीपमुपेत्य कस्य यूनः ॥” * ॥ समानलज्जामदना मध्या । एषव चातिप्रश्रया- दतिविश्रब्धनवोढा । अस्याश्चेष्टा सागसि प्रेयसि धैर्य्ये वक्रोक्तिरधैर्य्ये परुषवाक् । यथा, -- “स्वापे प्रियाननविलोकनहानिरेव स्वापच्युतौ प्रियकरग्रहणप्रसङ्गः । इत्थं सरीरुहमुखी परिचिन्तयन्ती स्वापं विधातुमपि हातुमपि प्रपेदे ॥” * ॥ पतिमात्रविषयकेलिकलापकोविदा प्रगल्भा । वेश्यायां कुलटायाञ्च पतिमात्रविषयत्वाभा- वात् न तत्रातिव्याप्तिः । अस्याश्चेष्टा रति- प्रीतिरानन्दादात्मसंमोहः । प्रथमं यथा, -- “सस्पृश्य स्तनमाकलय्य वदनं
स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🔗 इससे बने/आरम्भ होने वाले शब्द (समास व व्युत्पन्न)
स्रोत व श्रेय:
  • हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
  • Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
  • V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
  • तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
  • राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।

Cologne Digital Sanskrit Dictionaries के डिजिटल पाठ CC BY-NC-SA लाइसेंस के अनुसार निःशुल्क, गैर-व्यावसायिक उपयोग हेतु श्रेय सहित प्रस्तुत हैं। यह शब्दकोश-सेवा पूर्णतः निःशुल्क है। पुराने मुद्रित ग्रन्थों के डिजिटल पाठ में कहीं-कहीं टंकण/OCR दोष सम्भव हैं — सन्देह होने पर "📄 मूल मुद्रित पृष्ठ" देखें।

💬 ज्योतिषीय प्रश्न पूछें