हकारः ष्यञ्जनेषु ऊष्मवर्णभेदः । कण्ठस्थानोच्चर्य्यः । “हकारं पञ्चमैर्युक्तसन्तःस्थाभिश्च संयुतम । औरस्यं तं विजामीयात् कण्ठ्यमाहुरसंयुतम् शिक्षोक्तेः पञ्च मादिवर्णमंयोगे उरसोच्चार्य्यश्च । तस्योच्चारणे आभ्यन्तर प्रवत्नः जिह्वाग्रेण कण्ठस्थानस्य अर्द्धस्पर्शः । “अचो- ऽस्पृष्टायणस्तीषन्नेमस्पृष्टाः शलस्तष्ठेति” शिक्षोक्तेः । बाह्यप्रयत्नास्तु घोषसंवारनादा महाप्राणश्च । अस्य ध्ये- यरूपं कामधेनुतन्त्राक्तं यथा “हकारं शृणु चार्वङ्गि! चतुवर्गपदायकम् । कुण्डलीद्वयसंयुक्तं रक्तविद्यल्लतो- पम् । रजःसत्त्वतमोयुक्तं पञ्चदेवमयं सदा । पञ्चपाणा त्मकं वर्णं त्रिशक्तिसहितं सदा । त्रिविन्दसहितं वर्णं हृदि भावय पार्वति!” । अस्याधिष्ठातृदेवताध्यानमुक्तं वर्णोद्वारतन्त्रे यथा “करवीरभूषिताञ्च सादृहामां दिग म्बराम् । अस्थिमाल्यामष्टभुजां वरदाममुजेक्षणाम् । न गेन्द्रहारभूषाढ्यां जटामुकुटमण्डिताम् । सर्वसिद्धि- प्रयां नित्यां धर्मकामार्थमोक्षदाम् । एवं ध्यात्वा हकारन्तु तन्मन्त्रं दशधा जपेत्” । मातृकन्यासेऽप्य दक्षपादेन्यम्यता काष्य ष्टौ पथमप्रयोगे खेदःफलं वृ० र० टीकायामुक्तं यथा “मः मौख्य हस्तु खेदम विनयमपि च लं क्षः समृद्धिं करोति” । अकारादिवर्णानां प्रयोगे फलादिकं यत्र भवतीत तत्रैवोक्तं यथा “पद्यादौ गद्यवक्त्रे वचसि च यकले प्राकृतादौ समोऽयम्” इति । एतेषां फलाधार निरूपणमप्याकारे “नायको वर्ण्यते यत्र फलं तस्य समा दशेत् । अन्यथा तु कृते काव्ये कवेर्दोषावहं फलम्” तस्य प्रतिप्रसवो यथा “देवता वर्ण्यते यत्र क्वापि काव्ये कवीश्वरैः । मित्रामित्रविचारो वा न तत्र फल- कल्पना । देवतावाचकाः शब्दा ये च भद्रादिवाचकाः । ते सर्वे नैव निन्द्याः स्युर्लिपितो गणतोपि वा” । अस्य वाचकशब्दास्तन्त्राक्ता यथा “हः शिवो गगनं हसो नागलोकोऽम्बिकापतिः । नकुलीशो जगत्प्राणः प्राणेशः कपिलामलः । परमात्म त्मजो जीवः वराकः शान्तिदोऽकुलः । मृगोऽभयोऽरुणःस्थाणुः कूटकूपनिवा- रकाः । लक्ष्मीर्हरिहरः शम्भुः प्राणसन्धिर्ललाटजः । स्वकोपवारण शूली चैतन्यं पादपूरणम् । महामक्ष्मीः परं नादो मघनादो विमर्दनः । विन्दुर्दुर्गा प्रिय । देवी मेचश्यामः महेश्वरः । दक्षपादः सदा शम्भुः श्यामो यः [] साममण्डलम्” वर्णांभिषानम् । “शुक्रश्चाथ हकारो- ऽंशुः प्राणः शान्तः शिवो वियत । अकुलो नकुलीशश्च हंसः शून्यञ्च हाकिनी । अनन्तो नकुली जीवः पर- मात्मा ललाटजः” इति वीजवर्णाभिधातम । “हकारा नकुलीशोऽपि हंसः प्राणोऽङ्कुशः प्रिये । महेशो नकुली चैव वराको गगनं रविः । लिङ्गं गूवा- महाशून्यः प्राणश्च परमेश्वरि!” रुद्रयामले ८ पष्टले ।
📄 मूल मुद्रित पृष्ठ (5395-b) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।