🕉️ 22 November 2026, Sunday · 01:25:55 PM · CDSHARMA.IN

📚 उमा संस्कृत-हिन्दी महाशब्दकोश

अर्थ · व्याकरण · व्युत्पत्ति · पर्याय · समास · शास्त्रीय उद्धरण — पाँच प्रामाणिक कोश व अमरकोश एक साथ

279,511 शीर्ष-शब्द · 452,554 कोश-प्रविष्टियाँ

हनुमान्
hanumān
🟠 शब्दसागर🟤 शब्दकल्पद्रुम
🟠 हिन्दी शब्दसागरहिन्दी में अर्थ
हनुमान् १ वि॰ [सं॰ हनुमत्]
१. दाढ़वाला । जबड़ेवाला ।
२. भारी दाढ़ या जबड़ेवाला । महावीर ।
हनुमान् २ संज्ञा पुं॰ पंपा के एक वीर बंदर जिन्होंने सीताहरण के उपरांत रामचंद्र की बड़ी सेवा और सहायता की थी । विशेष—ये लंका में जाकर सीता का समाचार भी लाए थे और रावण की सेना के साथ लड़े थे । ये अपने अपार बल, वीरता और वेग के लिये प्रसिद्ध हैं और बंदरों के समान इनकी उत्पत्ति भी विष्ण के अवतार राम की सहायता के लिये देवांश से हुई थी । इनकी माता का नाम अंजनी था और ये वायु या मरुत् देवता के पुत्र कहे जाते हैं । कहीं कहीं इन्हें शिव के वीर्य या अंश से भी उत्पन्न कहा गया है । ये रामभक्तों में सबसे आदि कहे जाते हैं और राम ही के समान इनकी पूजा भी भारत में सर्वत्र होती है । ये बलप्रदाता माने जाते हैं और हिंदू पहलवान या योद्धा इनका नाम लेते हैं और इनकी उपासना करते हैं ।
स्रोत: हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
🟤 शब्दकल्पद्रुम (संस्कृत-संस्कृत)संस्कृत में अर्थ
हनुमान्, [त्] पु, (हनुरस्त्यस्येति । हनु + मतुप् ।) वानरविशेषः । स तु अञ्जनागर्भे पवनीरसाज्जातः । रावणबधार्थश्रीरामदूतश्च । तत्पर्य्यायः । मनूमान् २ आञ्जनेयः ३ योग- चरः ४ अनिली ५ हिडिम्बारमणः ६ राम- दूतः ७ अर्ज्जुनध्वजः ८ । इति त्रिकाण्डशेषः ॥ मरुतात्मजः ९ । इति जटाधरः ॥ * ॥ अथ हनूमत्कल्पः । देव्युवाच । “शैवानि गाणपत्यानि शाक्तानि वैष्णवानि च । साधनानि च सौराणि चान्यानि यानि कानि च । श्रुतानि तानि देवेश ! त्वद्वक्त्रान्निःसृतानि च ॥ किङ्किदन्यत्तु देवानां साधनं यदि कथ्यताम् । शङ्कर उवाच । शृणु देवि ! प्रवक्ष्यामि सावधानावधारय । हनूमत्साधनं पुण्यं महापातकनाशनम् ॥ एतद्गुह्यतमं लोके शीघ्रसिद्धिकरं परम् । जयो यस्य प्रसादेन लोकत्रयजितो भवेत् ॥ * ॥ तत्साधनविधिं वक्ष्ये नृणां सिद्धिकरं द्रुतम् ॥ वियत् सलवकं हनूमते च तदनन्तरम् । रुद्रात्मकाय कवचं फडिति द्वादशाक्षरः ॥ एतन्मन्त्रं समाख्यातं गोपनीयं प्रयत्नतः । तव स्नेहेन भक्त्या च दासोऽस्मि तव सुन्दरि ! ॥ एतन्मन्त्रं अर्ज्जुनाय प्रदत्तं हरिणा पुरा । जयेन साधनं कृत्वा जितं सर्व्वं चराचरम् ॥ नदीकूले विष्णुगेहे निर्ज्जने पर्व्वते वने । एकाग्रचित्तमाधाय साधयेत् साधनं महत् ॥” ध्यानमाह । “महाशैलं समुत्पाट्य धावन्तं रावणं प्रति । तिष्ठ तिष्ट रणे दुष्ट घोररावं समुत्सृजन् ॥ लाक्षारक्तारुणं रौद्रं कालान्तकयमोपमम् । ज्वलदग्निसमं नेत्रं सूर्य्यकोटिसमप्रभम् ॥ अङ्गदाद्यैर्महावीरैर्व्वेष्टितं रुद्ररूपिणम् । एवंरूपं हनूमन्तं ध्यात्वा यः प्रजपेन्मनुम् ॥ लक्षजपात् प्रसन्नः स्यात् सत्यं ते कयितं मया । ध्यानैकमात्रतः पुंसां सिद्धिरेव न संशयः ॥ प्रातः स्नात्वा नदीतीरे उपविश्य कुशासने । प्राणायामं षडङ्गञ्च मूलेन सकलं चरेत् ॥ [] पुष्पाञ्जल्यष्टकं दत्त्वा ध्यात्वा रामं ससीतकम् । ताम्रपात्रे ततः पद्ममष्टपत्रं सकेशरम् ॥ रक्तचन्दनघृष्टेन लिखेत्तस्य शलाकया । कर्णिकायां लिखेन्मन्त्रं तत्रावाह्य कपिं प्रभुम् ॥ कर्णिकायां हनूमन्तं ध्यात्वा पाद्यादिकं ततः । सुग्रीवं लक्ष्मणं चैव अङ्गदं नलनोलकम् ॥ जाम्बवन्तञ्च कुमुदं केशरिणं दले दले । पूर्व्वादिक्रमतो देवि ! पूजयेद्बन्धचन्दनैः ॥ पवनञ्चाञ्जनाञ्चैव पूजयेद्दक्षवामतः । दलाग्रे षु कपिभ्योऽपि पुष्पाञ्जल्यष्टकं ततः ॥ ध्यात्वा तु मन्त्राराजं वै लक्षं यावत्तु साधकः । लक्षान्तदिवसं प्राप्य कुर्य्याच्च पूजनं महत् ॥ एकाग्रचित्तप्रनसा तस्मिन् पवननन्दने । दिवारात्रौ जपं कुर्य्यात् यावत् सन्दर्शनं भवेत् ॥ सुदृढं साधकं मत्वा निशीथे पवनात्मजः । सुप्रसन्नस्ततो भूत्वा प्रयाति साधकाग्रतः ॥ यथेप्सितं वरं दत्त्वा साधकाय कपिप्रभुः । वरं लब्ध्वा साधकेन्द्री विहरेदात्मगः सुखैः ॥ एतद्धि साधनं पुण्यं देवानाभाप दुर्लभम् । तव स्नेहात् समाख्यातं भक्तासि मयि पार्व्वति ॥” इति गावडे हनूमत्साधनमिति तन्त्रसारः ॥ * ॥ “हनूमतोऽतिगुह्यन्तु लिख्यते वीरसाधनम् । ब्राह्म्ये मुहूर्त्ते उत्थाय कृतनित्यक्रियो द्विजः ॥ गत्वा नदीं ततः स्नात्वा तीर्थमाबाह्य चाष्टधा । मूलमन्त्रं ततो जप्त्वा सिञ्चेदादित्यसंख्यया ॥” ततो वाससो परिधाय गङ्गातीरे पर्व्वते वा उपविश्य हां अङ्गुष्ठाभ्यां नमः इत्यादिना कराङ्गन्यासौ कुर्य्यात् । ततः प्राणायामः । अकारादिवर्णानुच्चार्य्य वामनासापुटेन वायुं पूरयेत् पञ्चवर्गानुच्चार्य्य वायुं स्तम्भयेत् । यकारादिवर्णानुच्चार्य्य दक्षिणनासापुटेन रेच- येत् । एवं वारत्रयं कृत्वा मन्त्रवर्णैरङ्गन्यासं कृत्वा ध्यायेत् ॥ * ॥ “ध्यायेद्रणे हनूमन्तं कपिकोटिसमन्वितम् । धावन्तं रावणं जेतुं दृष्ट्वा सत्वरमुत्थितम् ॥ लक्ष्मणञ्च महावीरं पतित
स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🔁 जिनके अर्थ में "हनुमान्" आता है (7)
स्रोत व श्रेय:
  • हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
  • Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
  • V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
  • तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
  • राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।

Cologne Digital Sanskrit Dictionaries के डिजिटल पाठ CC BY-NC-SA लाइसेंस के अनुसार निःशुल्क, गैर-व्यावसायिक उपयोग हेतु श्रेय सहित प्रस्तुत हैं। यह शब्दकोश-सेवा पूर्णतः निःशुल्क है। पुराने मुद्रित ग्रन्थों के डिजिटल पाठ में कहीं-कहीं टंकण/OCR दोष सम्भव हैं — सन्देह होने पर "📄 मूल मुद्रित पृष्ठ" देखें।

💬