🕉️ 20 November 2026, Friday · 12:31:54 PM · CDSHARMA.IN

📚 उमा संस्कृत-हिन्दी महाशब्दकोश

अर्थ · व्याकरण · व्युत्पत्ति · पर्याय · समास · शास्त्रीय उद्धरण — पाँच प्रामाणिक कोश व अमरकोश एक साथ

279,511 शीर्ष-शब्द · 452,554 कोश-प्रविष्टियाँ

हरितकी
haritakī
🟠 शब्दसागर🔵 मोनियर-विलियम्स🟤 शब्दकल्पद्रुम
🟠 हिन्दी शब्दसागरहिन्दी में अर्थ
हरितकी संज्ञा स्त्री॰ [सं॰] दे॰ हरीतकी [को॰] ।
स्रोत: हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
🔵 मोनियर-विलियम्स संस्कृत-अंग्रेज़ी कोशअंग्रेज़ी में अर्थ
हरितकी (ई), f. Terminalia Chebula, Divyāv.
📄 मूल मुद्रित पृष्ठ (1291,3)
स्रोत: Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
🟤 शब्दकल्पद्रुम (संस्कृत-संस्कृत)संस्कृत में अर्थ
हरितकी, स्त्री, (हरि पीतवर्णं फलमिता प्राप्ता इति हरीता । ततः संज्ञायां कन् गौरादि- त्त्वात् ङीष् ।) स्वनामख्यातवृक्षः । हरडा इति हिन्दी भाषा । तत्पर्य्यायः । अभया २ अव्यथा ३ पथ्या ४ वयःस्था ५ पूतना ६ अमृता ७ हैम- वती ८ चेतकी ९ श्रेयसी १० शिवा ११ । इत्यमरः । २ । ४ । ५९ ॥ सुधा १२ कायस्था १३ कन्या १४ रसायनफला १५ । इति शब्दरत्ना- वली ॥ विजया १६ । इति जटाधरः ॥ जया १७ चेतनकी १८ रोहिणी १९ प्रपथ्या २० जीवप्रिया २१ जीवनिका २२ भिषग्वरा २३ पुस्तकान्तरे भिषक्प्रिया इति पाठः । जीवन्ती २४ प्राणदा २५ जीव्या २६ देवी २७ दिव्या २८ । अस्या गुणाः । [] “हरीतकी पञ्चरसा च रेचनी कोष्ठामयघ्नी लवणेन वर्ज्जिता । रसायनी नेत्ररुजापहारिणी त्वगामयघ्नी किल योगवाहिनी ॥” अन्यच्च । “वीजास्थितिक्तं मधुरा तदन्त- स्त्वग्भागतः सा कटुरुष्णवीर्य्या । मांसांशतश्चाम्लकषाययुक्ता हरीतको पञ्चरसा स्मृतेयम् ॥ पथ्यामज्जा तु चक्षुष्यो वातपित्तहरो गुरुः ॥” तस्या भेदा यथा, -- “हरीतक्यमृतोत्पन्ना सप्तभेदैरुदीरिता । तस्यां नामानि वर्णांश्च वक्ष्याम्यथ यथाक्रमात् ॥ विजया रोहिणी चेव पूतना चामृताभया । जीवन्ती चेतकी चेति नाम्ना सप्तविधा स्मृता ॥ अलावुवृत्ता विजया मुवृत्ता रोहिणी मता । स्वल्पत्वक् पूतना क्षेया स्थूलमांसामृता स्मृता ॥ पञ्चासा चाभया ज्ञेया जीवन्ती स्वर्णवर्णभाक् । त्र्यस्रा तु चेतक्री विद्यादित्यासां रूपलक्षणम् ॥ बिन्ध्याद्रौ विजया हिमाचलभवा स्याच्चेतकी पूतना सिन्धौ स्यादथ रोहिणी तु विजया जाता प्रतिस्थानके । चम्पायाममृताभया च जनिता देशे सुराष्ट्राह्वये जीवन्तीति हरीतकी निगदिता सा सप्तभेदा बुधैः ॥ * ॥ सर्व्वप्रयोगे विजयाथ रोहिणी क्षतेषु लेपेषु च पूतनोदिता । विरेचने स्यादमृता गुणाधिका जीवन्तिका स्यादिह जीर्णरोगजित् ॥ स्याच्चेतकी सर्व्वरूजापहारिका नेत्रामयघ्नीमभयां वदन्ति ताम् । इत्थं यथारोगमियं प्रयोजिता ज्ञेया गुणाढ्या न कदाचिदन्यथा ॥ चेतकी च धृता हस्ते यावत्तिष्ठति देहिनः । तावद्धिरिच्यते वेगात्तत्प्रभावान्न संशयः ॥ सप्तानामपि जातीनां प्रधानं विजया स्मृता । सुखप्रयोगसुलभा सर्व्वव्याधिषु शस्यते ॥ क्षिप्ताप्सु निमज्जति या सा ज्ञेया गुणवती भिषग्वरैः । यस्या यस्या भूयो निमञ्जनं सा गुणाल्पा स्यात् ॥ हरते प्रसभं व्याधीन् भूयस्तकति यद्वपुः । हरीतकी तु सा प्रोक्ता तकतिर्दीप्तवाचिका ॥ हरीतकी तु तृष्णायां हनुस्तम्भे गलग्रहे । शोषे नवज्वरे क्षीणे गुर्विण्यां नैव शस्यते ।” इति राजनिर्घण्टः ॥ * ॥ अपि च । “दक्षं पजापतिं स्वस्थं अश्विनौ वाक्यमूचतुः । कुतो हरीतकी जाता तस्यास्तु कति जातयः ॥ रसाः कति समाख्याताः कति चोपरसाः स्मृताः । [] नामानि कति चोक्तानि कञ्च तासाञ्च लक्षणम् ॥ के च वर्णा गुणाः के च का च कुत्र प्रयुज्यते । केन द्रव्येण संयुक्ता कांश्च रोगान् व्यपोहति ॥ पृच्छाम्येतद्यथा पृष्टं भगवन् ! वक्तुमर्हसि । अश्विनोर्व्वचनं श्रुत्वा दक्षो वचनमब्रवीत् ॥ पपात बिन्दूर्म्मेदिन्यां शक्रस्य पिबतोऽमृतम् । ततो दिव्यात् समुत्पन्ना सप्तजातिर्हरीतकी ॥ हरीतक्यभया पथ्या कायस्था पूतनामृता । हैमवत्यव्यथा चापि चेतकी श्रेयसी शिवा । वयस्था विजया चापि जीवन्ती रोहिणीति च । विजया रोहिणी चैव पूतना चामृताभया । जीवन्ती चेतकी चेति पथ्यायाः सप्तजातयः ॥ * ॥ अलावुवृत्ता विजया वृत्ता सा रोहिणी स्मृता । पूतनास्थिमती सूक्ष्मा कथिता मांसलामृता ॥ पञ्चरेखाभया प्रोक्ता जीवन्ती स्वर्णवर्णिनी । त्रिरेखा चेतकी ज्ञेया सप्तानामियमाकृतिः ॥ * ॥ विजया सर्व्वरोगेषु रोहिणी व्रणरोहिणी । प्रलेपे पूतना योज्या शोधनार्थेऽमृता हिता ॥ अक्षिरोगेऽभया शस्ता जीवन्ती सर्व्वरोग- हृत् ॥ चूर्णार्थं
स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
स्रोत व श्रेय:
  • हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
  • Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
  • V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
  • तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
  • राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।

Cologne Digital Sanskrit Dictionaries के डिजिटल पाठ CC BY-NC-SA लाइसेंस के अनुसार निःशुल्क, गैर-व्यावसायिक उपयोग हेतु श्रेय सहित प्रस्तुत हैं। यह शब्दकोश-सेवा पूर्णतः निःशुल्क है। पुराने मुद्रित ग्रन्थों के डिजिटल पाठ में कहीं-कहीं टंकण/OCR दोष सम्भव हैं — सन्देह होने पर "📄 मूल मुद्रित पृष्ठ" देखें।

💬 ज्योतिषीय प्रश्न पूछें