हरितालं, क्ली, (हरितं तद्वर्णं आलातीति । आ + ला + कः ।) पीतवर्णधातुविशेषः । स तु हरेर्व्वीर्य्यम् । यथा, -- “हरितालं हरेर्व्वीर्य्यं लक्ष्मीवीर्य्यं मनःशिला । [] पारदं शिववीर्य्यं स्यात् गन्धकं पार्व्वतीरजः ॥” इति वैद्यकम् ॥ तत्पर्य्यायः । पिञ्जरम् २ पीतकम् ३ तालम् ४ आलम् ५ हरितालकम् ६ । इत्यमरः । २ । ९ । १०३ ॥ गोदन्तम् ७ पीतलम् ८ नटमण्डनम् ९ हरि- बीजम् १० सिद्धधातुः ११ । इति जटाधरः ॥ वर्णकम् १२ नटभूषणम् १३ । इति रत्नमाला ॥ पीतम् १४ गोरोचम् १५ चित्राङ्गम् १५ पिञ्ज- रकम् १७ वैदलम् १८ तालकम् १९ कनक- रसः २० काञ्चनकम् २१ विडालकम् २२ चित्र- गन्धम् २३ पिङ्गम् २४ पिङ्गसारम् २५ नौरी- ललितम् २६ । अस्य गुणाः । कटुत्वम् । उष्ण- त्वम् । स्निग्धत्वम् । त्वग्दोषभूतभीतिविषयवात- रुजानाशित्वञ्च । इति राजनिर्घण्टः ॥ * ॥ अपि च । “हरितालं द्विधा प्रोक्तं पत्राख्यं पिण्डसंज्ञकम् । तयोराद्यं गुणैः श्रेष्ठं ततो हीनगुणं परम् ॥ स्वर्णवर्णं गुरु स्निग्धं सपत्रं चाभ्रपत्रवत् । पत्राख्यं तालकं विद्यात् गुणाढ्यं तद्रसायनम् ॥ निष्पत्रं पिण्डसदृशं स्वल्पसत्त्वं तथा गुरु । स्त्रीपुष्पहारकं स्वल्पगुणं तत्पिण्डतालकम् ॥ हरितालं कटु स्निग्धं कषायोष्णं हरेद्विषम् । कण्डुकुष्ठास्य रोगास्रकफपित्तकचव्रणान् ॥ हरति च हरितालं चारुतां देहजातां सृजति च बहुतापानङ्गसङ्कोचपीडाः । वितरति कफवातौ कुष्ठरोगं विदध्या- दिदमसितमशुद्धं मारितं चाप्यसम्यक् ॥” इति भावप्रकाशः ॥ * ॥ अथ तालस्याशुद्धस्य दोषमाह । “अशुद्धं तालमायुर्हृत् कफमारुतमेहकृत् । तापस्फोटाङ्गसंकोचान् कुरुते तेन शोधयेत् ॥” अथ तालकस्य शोधनविधिः । “तातकं कणशः कृत्वा तच्चूर्णं काञ्जिके क्षिपेत् । दोलायन्त्रेण यामैकं ततः कुष्माण्डजे द्रवे ॥ तिलतैले पचेद्यामं यामञ्च त्रिफलारसे । दोलायन्त्रे चतुर्यामं पक्वं शुध्यति तालकम् ॥” * ॥ अथ तालकस्य मारणविधिः । “सदलं तालकं शुद्धं पौनर्नवरसेन तु । खल्ले विमर्द्दयेदेकं दिनं पश्चाद्विशोधयेत् ॥ संशोध्य गोलकं तस्य कुर्य्यात्तच्च विशोधयेत् । ततः पुनर्नवाक्षारैः स्थाल्यामर्द्धं प्रपूरयेत् ॥ तत्र तद्गोलकं धृत्वा पुनस्तेनैव पूरयेत् । आकण्ठं पिठरं तस्य पिधानं धारयेन्मुखे ॥ स्थालीं चूल्यां समारोप्य क्रमाद्वह्निं विवर्द्धयेत् । दिनान्यन्तरशून्यानि पञ्चवह्निं प्रदीपयेत् ॥ एवं तन्म्रियते तालं मात्रा तस्यैकरत्तिका । अनुपानान्यनेकानि यथायोग्यं प्रयोजयेत् ॥” एवं शोधितस्य मारितस्य तालकस्य गुणाः । “हरितालं कटु स्निग्धं कषायोष्णं हरेद्विषम् । कण्डुकुष्ठास्यरागास्रकफपित्तकचव्रणान् ॥” अन्यच्च । “तालकं हरते रोगान् कुष्ठमृत्युज्वरापहम् । [] शोधितं कुरुते कान्तिं वीर्य्यवृद्धिं तथायुषः ॥” इति च भावप्रकाशः ॥
हरितालः, पुं, पीतवर्णपक्षिविशेषः । हरियाल इति भाषा । तस्य मांसगुणाः । “हरितालोऽल्पविट्कः स्यात् कषायो मधुरो लघुः । रक्तपित्तपशमनस्तृषाघ्नो वातकोपनः ॥” इति राजवल्लभः ॥
📄 मूल मुद्रित पृष्ठ (5-515-b) स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।