हस्तामलकं, क्ली, (हस्तस्थितं आमलकम् ।) करस्थितामलकीफलम् । (यथा, रामायणे । “त्वया दृष्टं जगत्सर्व्वं हस्तामलकवत् सदा ॥”) वेदान्तग्रन्थविशेषः । तल्लिख्यते । श्रीमच्छङ्करा- चार्य्यस्य दिग्विजयसमये पथिमध्ये कञ्चित् बालकं प्रति प्रश्नः । “कस्त्वं शिशो ! कस्य कुतोऽसि गन्ता किं नाम ते त्वं कुत आगतोऽसि । एतद्वद त्वं मम सुप्रसिद्धं मत्प्रीतये प्रीतिविवर्द्धनोऽसि ॥” बालकस्योत्तरम् । “नाहं मनुष्यो न च देवयक्षो न ब्राह्मणक्षत्त्रियवैश्यशूद्राः । [] न ब्रह्मचारी न गृही वनस्थो भिक्षुर्न चाहं निजबोधरूपः ॥” एतस्य श्लोकस्य शङ्कराचार्य्येण भाष्यं न कृतम् ॥ “निमित्तं मनश्चक्षुरादिप्रवृत्तौ निरस्ताखिलोपाधिराकाशकल्पः । रविर्लोकचेष्टानिमित्तं यथा यः स नित्योपलब्धिस्वरूपोऽहमात्मा ॥ १ ॥ यमग्न्युष्णवन्नित्यबोधस्वरूपं मनश्चक्षुरादीन्यबोधात्मकानि । प्रवर्त्तन्त आश्रित्य निष्कम्पमेकं स नित्योपलब्धिस्वरूपोऽहमात्मा ॥ २ ॥ मुखाभासको दर्पणे दृश्यमानो मुखत्वात् पृथक्त्वेन नैवास्ति वस्तु । चिदाभासको धीषु जीवोऽपि तद्वत् स नित्योपलब्धिस्वरूपोऽहमात्मा ॥ ३ ॥ यथा दर्पणाभाव आभासहानौ मुखं विद्यते कल्पनाहीनमेकम् । तथा धीवियोगे निराभासको यः स नित्योपलब्धिस्वरूपोऽहमात्मा ॥ ४ ॥ मनश्चक्षुरादेर्विमुक्तः स्वयं यो मनश्चक्षुरादेर्मनश्चक्षुरादिः । मनश्चक्षुरादेरगम्यस्वरूपः स नित्योपलब्धिस्वरूपोऽहमात्मा ॥ ५ ॥ य एको विभाति स्वतः शुद्धचेताः प्रकाशस्वरूपोऽपि नानेव धीषु । शरावोदकस्थो यथा भानुरेकः स नित्योपलब्धिस्वरूपोऽहमात्मा ॥ ६ ॥ यथानेकचक्षुः प्रकाशी रविर्न क्रमेण प्रकाशीकरोति प्रकाश्यम् । अनेका धियो यस्तथैकप्रबोधः स नित्योपलब्धिस्वरूपोऽहमात्मा ॥ ७ ॥ विवस्वत्प्रभातं यथा रूपमक्षं प्रगृह्णाति नाभातमेवं विवस्वान् । यथा भात आभासयत्यक्षमेकः स नित्योपलब्धिस्वरूपोऽहमात्मा ॥ ८ ॥ यथा सूर्य्य एकोऽप्स्वनेकश्चलासु स्थिरास्वप्यनन्वन्विभाव्यस्वरूपः । चलासु प्रभिन्नासु धीष्वेक एवं स नित्योपलब्धिस्वरूपोऽहमात्मा ॥ ९ ॥ घनच्छन्नदृष्टिर्घनच्छन्नमर्क यथा निष्प्रभं मन्यते चातिमूढः । तथा बद्धवद्भाति यो मूढदृष्टेः स नित्योपलब्धिस्वरूपोऽहमात्मा ॥ १० ॥ समस्तेषु वस्तुष्वनुस्यूतमेकं समस्तानि वस्तूनि यन्न स्पृशन्ति । वियद्वत् सदा शुद्धमच्छस्वरूपं स नित्योपलब्धिस्वरूपोऽहमात्मा ॥ ११ ॥ उपाधौ यथा भेदता सन्मणीनां तथा भेदता बुद्धिभेदेषु तेषु । यथा चन्द्रकाणां जले चञ्चलत्वं तथा चञ्चलत्वं तवापीह विष्णो ॥” १२ ॥ इति हस्तामलकं समाप्तम् ॥
📄 मूल मुद्रित पृष्ठ (5-527-b) स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।