हिन्तालः, पुं, वृक्षविशेषः । हेँताल इति भाषा । तस्य फलं उद्वेगम् । इत्यमरः । २ । ४ । १६९ ॥ तत्पर्य्यायः । पूगरोटः २ । तत्फलम् किरिटि । इति त्रिकाण्डशेषः ॥ * ॥ तस्य पर्य्यायान्तरं गुणाञ्च । “हिन्तालः स्थूलतालश्च बन्धपत्रो बृहद्दलः । स्थिरपत्रो द्विधालेख्यः शिरापत्रोऽस्थिराङ्घ्रिकः ॥ गर्भस्रावी नीलतालो भीषणो बहुकण्टकः । अम्लसारो बृहत्तालः स्याच्चतुर्द्दशधाभिधः ॥ हिन्तालो मधुराम्लश्च कफकृत् पित्तदाहनुत् । श्रमतृष्णापहारी च शिशिरो वातदोषकृत् ॥” इति राजनिर्घण्टः ॥ (व्यवहारोऽस्य यथा, -- “गुडूचीबालहिन्तालवानरीनीलझिण्टिकाः ॥” इति वैद्यकरसेन्द्रसारसंग्रहे कुष्ठाधिकारे माणिक्यरसे ॥) स तु तृणराजविशेषः । यथा, क्रियाकौमुद्यां वशिष्ठः । “गुवाकतालहिन्तालास्तथा ताडी च केतकी । खर्ज्जूरनारिकेलौ च सप्तैते तृणराजकाः ॥ तृणराजशिरापत्रैर्यः कुर्य्याद्दन्तधावनम् । तावद्भवति चण्डालो यावद्गां नैव पश्यति ॥” इत्याह्निकाचारतत्त्वम् ॥
📄 मूल मुद्रित पृष्ठ (5-537-c) स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।