हुड, इ ङ संहे । इति कविकल्पद्रुमः ॥ (भ्वा०- आत्म०-सक०-सेट् ।) इ, हुण्ड्यते । ङ, हुण्डते धनं लोकः । राशीकरोतीत्यर्थः । इति दुर्गा- दासः ॥
हुड, ऋ ङ गतौ । इति कविकल्पद्रुमः ॥ (भ्वा०- आत्म०-सक०-सेट् ।) ऋ, अजुहोडत् । ङ, होडते । इति दुर्गादासः ॥
हुड, शि मग्ने । संहे । इति कविकल्पद्रुमः ॥ (तुदा०- पर०-मग्ने अक०-संहे सक०-सेट् ।) शि, हुडति अहुडीत् जुहोड । मग्नमिह मज्जनम् । इति दुर्गादासः ॥
हुडः, पुं, (हुडतीति । हुड + कः ।) मेषः । इति हेमचन्द्रः राजनिर्घण्टश्च ॥ चौरादिनिवार- णार्थभूमिनिहितलौहमयतीक्ष्णशङ्कुविशेषः ॥ तस्य नामान्तरं गुडः । पाँजिकाटा इति भाषा । लगुडः । इति महाभारतम् ॥ सैन्या- श्रयस्थानम् । वुरुज् इति भाषा । रथोपरि विण्मूत्रत्यागशृङ्गम् । यथा, -- “पुरी समन्ताद्विहिता सपताका सतोरणा । सचक्रा सहुडा चैव सयन्त्रखनका तथा ॥” इति महाभारते वनपर्ब्बणि सौभवघे १५ अध्यायः ॥ पताका ध्वजाञ्चलः । तोरणानि बहिर्द्वाराणि । चक्राणि योधगणाः । हुडा- स्तदाश्रयस्थानानि । भाषायां वरुज्संज्ञानि । अन्ये तु विण्मूत्रोत्सर्ज्जनशृङ्गाणि हुडा इत्याहुः । उदाहरन्ति च । [] “कल्प्यन्ते हुडशृङ्गाणि रथस्योपरि सूरिभिः । विण्मूत्रस्पर्शशुद्ध्यर्थकरादिस्पर्श उद्यते ॥” इति ॥ यन्त्राणि आग्नेयौषधबलेन दृषत्पिण्डोत्क्षेपणानि । महान्ति कामानसंज्ञानि क्षुद्राणि सीसगुलि- कोत्क्षेपणानि बन्दुकसंज्ञानि । खनकाः सुरङ्ग- द्वारा गुप्तमार्गकर्त्तारः । इति तट्टीकायां नील- कण्ठः ॥
📄 मूल मुद्रित पृष्ठ (5-543-b) स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।