हृद्रोग पु० ६ त० । हृदयस्य रोगभेदे हृदामयोऽप्यत्र । भावप्र० तस्य निदानादि तल्लक्षणं चोक्तं यथा “हृद्रोगस्य विप्रकृष्टनिदानमाह “अत्युष्णगुर्वम्ल कषायतिक्तश्रमाभिघाताध्यशनप्रसङ्गे । सञ्चिन्तनैर्वेगवि- धारणैश्च हृदामयः पञ्चविधः प्रदिष्टः” । प्रसङ्गः सततं सेवा । सञ्चिन्तनम् अतिचिन्ता राजभयादि- जमिति । हृदामयः स च पञ्चविधः वातिकः पैत्तिकः श्लैष्मिकः सान्निपातिकः क्रिमिजश्चेति । तस्य संप्राप्ति- पूर्वकं लक्षणमाह । “दूपयित्वा रसं दोषा विगुणा हृदयङ्गताः । हृदि वाधां प्रकुर्वन्ति हृद्रोगन्तं प्रचक्षते” । विगुणाः दष्टाः बाघां दोषभेदेन नानाविधां व्यथाम् । भङ्गवत्पीडामिति गणदासः । वातिकं हृद्रोगमाह “आयम्यते मारुतजे हृदयन्तुद्यते तथा । निर्मथ्यते दीर्य्यते च स्फोट्यते पाट्यतेऽपि वा” । मारुतजे हृद्रीग इति शेषः । आयम्यते व्यथया विस्तार्य्यते इव । तु- [] द्यते सूचीमिरिव विध्यते । निर्मथ्यते मथनेनेव दी र्य्यते करपत्रेण द्विधाक्रियत इव । स्फोट्यते अस्त्रेणेव पाट्यते कुठारेण बहुधाक्रियत इव । अथ पैत्तिकमाह “तृष्णोष्मदाहचोषाः स्युः पैत्तिके हृदये क्लमः । धूमा- यनञ्च मूर्च्छा च स्वेदः शोषो मुखस्य च” । उष्मा शीत गात्रस्येव शीतवाताभिलाषहेतुः किञ्चिदिवौष्ण्यम् । दाहः पार्श्वस्थेन वह्निनेव दुःखहेतुर्गात्रस्य सन्तापः । चोषः चूषणेनेव पीडा । हृदये क्लमः हृदयाकुलत्वं ग्लानि- वदित्यर्थः । धूमायनम् कण्ठाद्धूमनिर्गमः । क्लेदः कि- ञ्चिद्दुर्गन्धः शटित इव । वातश्लैष्मिकमाह “गौरवं कफसंस्रावोऽरुचिस्तम्भोऽग्निमार्दवम् । माधूर्य्यमपि चा- स्यस्य बलासावतते हृदि” । बलासावतते हृदि कुपित कफव्याप्ते गौरवं हृदयस्य । स्तम्भो जडता । माधुर्य्यं जलप्लुतमिव माधुर्य्यं मुखे । त्रिदोषजमाह “विद्या- त्त्रिदोषमप्येवं सर्वलिङ्गकृदामयम्” । क्रिमिजमाह क्रिमयो जायन्ते अस्मिनिति क्रिमिज इति निरुक्तिः । तस्य विप्रकृष्टनिदानपूर्विका सम्प्राप्तिमाह “त्रिदोष- हेतुहृद्रोगे यो दुरात्मा निषेवते । तिलक्षीरगुडादींश्च ग्रन्थिस्तस्योपजायते । मर्मैकदेशे संक्लेदं रसश्चाप्युप- गच्छति । संक्लेदात् कृमवश्चास्य पतन्त्युपहतात्मनः” । मर्मैकदेशे हृदयैकदेशे संक्लेदं शटितत्वं रस उपग- च्छति । संक्लेदात् रसस्य शटितत्वात् उपहतात्मनः तिलाद्यहिताहारेण । तस्य लक्षणमाह “उत्क्लेदः ष्टीवनन्तोदः शूलं हृल्लासकस्तमः । अरुचिः श्यावने- त्रत्वं शोषश्च कृमिजे भवेत्” । उत्क्लेदः वमनमिवोप- स्थितम् । शोषो यक्ष्म । हृद्रोगस्योपद्रवानाह “क्लोम- सादा भ्रमः शोषो ज्ञेयास्तेषामुपद्रवाः । कृषिजे तु कृमीणां ये श्लैष्मिकाणां हि ते मताः” । क्लोम्नः पिषा- सास्थानस्य सादः शोषः । शोषो मुखस्य । तेषां हृद्रीगाणां, क्रिमिजे तु हृद्रोगे श्लैष्मिकाणां कृमीणाम् ये उपद्रवा हृकासात् स्रवणान्ता विपाकादयस्ते माताः” २ कुम्भराशौ शुद्धिदीपिका ।
📄 मूल मुद्रित पृष्ठ (5434-a) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।