अन्तरङ्ग पु० अन्तरं सदृशमङ्गं यस्य । अत्यन्तप्रिये, “समीप- गोऽन्तरङ्गःप्रियो भवतीति” छा० उप० भा० । “चरमगिरि- कुरङ्गीशृङ्गकण्डूयनेन स्वपिति सुखमिदानीमन्तरङ्गः [] कुरङ्गः” इति । वहिरङ्गशास्त्रीयनिमित्तसमुदायमध्ये अन्तभूतानि अङ्गानि निमित्तानि यस्य । व्याकरणोक्ते परनित्यवहिरङ्गबाधके नैमित्तिककार्य्यभेदे, तद्बोधकशास्त्रे च । यथा ग्रामणिनी कुले इत्यादौ “इकोऽचीति” पा० नित्यप्राप्त नुमं बाधित्वा “ह्रस्वो नपुंसके” इति पा० ह्रस्वः । पूर्व्वं कृते तु नुमि अजन्तत्वाभावात् ह्रस्वो न स्यात् । ततश्च नुम्रूपकार्य्यं प्रत्ययस्थाज्रूपं निमित्तमपेक्षतेइति तद्वहिरङ्ग, ह्रस्वस्तु प्रकृतिमात्रसापेक्षत्वात् अन्तरङ्ग इति तस्य वहिरङ्ग- निमित्तककार्य्यबाधकत्वे वीजम् । “परनित्यान्तरङ्गापवादा- नामुत्तरोत्तरं बलोय इति” “असिद्धं वहिरङ्गमन्तरङ्ग” इति च परि० सि० को० । एतन्मूलिकैव “वहिरङ्गविधिभ्यस्तु अन्तरङ्गविधिर्बलीति” कारिका । अन्तः आसन्नमङ्गं कर्म्म० । आरादुपकारके न० यथा ब्रह्मसाक्षात्कारे श्रवणमनन निदिध्यासनानि, संप्रज्ञातसमाघौ च धारणादीनि त्रीणि अन्तरङ्गाणि । यमादयस्तु पञ्च वहिरङ्गाणि । तथा हि यमनियमासनप्राणायामप्रत्याहारधारणाध्यानसमाधयैत्यष्टौ संप्रज्ञातसमाधेरङ्गानि तत्र यमादयः वहिरङ्गाणि, प्रति- बन्धकस्य चित्तकायप्राणेन्द्रियमलस्य निवर्त्तनेन परम्परया उपकारकत्वात्, धारणादयस्तु संप्रज्ञातसमाधेः समान- विषयतया साक्षात्स्वरूपोपकारकत्वादन्तरङ्गाणीति अत एव धारणादित्रयमभिधाय “त्रयमन्तरङ्गं पूर्व्वेभ्य” इति पात० सूत्रे धारणादित्रयस्यान्तरङ्गत्वमुक्तम् । धारणादि- स्वरूपादि तत्तच्छब्दे वक्ष्यते । असंप्रज्ञातसमाधौ तु सर्व्वा- ण्येव वहिरङ्काणि असमानविषयत्वादिति बोध्यम् ।
📄 मूल मुद्रित पृष्ठ (0199-a) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।