🕉️ 19 November 2026, Thursday · 09:37:55 AM · CDSHARMA.IN

📚 उमा संस्कृत-हिन्दी महाशब्दकोश

अर्थ · व्याकरण · व्युत्पत्ति · पर्याय · समास · शास्त्रीय उद्धरण — पाँच प्रामाणिक कोश व अमरकोश एक साथ

279,511 शीर्ष-शब्द · 452,554 कोश-प्रविष्टियाँ

अ
a
🔵 मोनियर-विलियम्स🟣 आप्टे🟢 वाचस्पत्यम्🟤 शब्दकल्पद्रुम
🔵 मोनियर-विलियम्स संस्कृत-अंग्रेज़ी कोशअंग्रेज़ी में अर्थ
1. अ the first letter of the alphabet
the first short vowel inherent in consonants.
2. अ (प्रगृह्य, q.v.), a vocative particle [अ अनन्त, O Viṣṇu], T.
interjection of pity, Ah!
3. अ (before a vowel अन्, exc. अ-ऋणिन्), a prefix corresponding to Gk. ἀ, ἀν, Lat. in, Goth. and Germ. un, Eng. in or un, and having a negative or privative or contrary sense (अन्-एक not one; अन्-अन्त endless; अ-सत् not good; अ-पश्यत् not seeing)
rarely prefixed to Inf. (अ-स्वप्तुम् not to sleep, TāṇḍyaBr.) and even to forms of the finite verb (अ-स्पृहयन्ति they do not desire, BhP.; Śiś.) and to pronouns (अ-सः not he, Śiś.; अ-तद् not that, BhP.)
occasionally denoting comparison (अ-ब्राह्मण like a Brahman, T.)
sometimes disparagement (अ-यज्ञ a miserable sacrifice)
sometimes diminutiveness (cf. अ-कर्ण, अन्-उदरा)
rarely an expletive (cf. अ-कुप्य, अ-पूप). According to Pāṇ. vi, 2, 161, the accent may be optionally either on the first or last syllable in certain compounds formed with अ (as अ-तीक्ष्ण or अ-तीक्ष्ण, अ-शुचि or अ-शुचि, अन्-अन्न or अन्-अन्न)
the same applies to stems ending in तृ accentuated on the first syllable before अ is prefixed
cf. also अ-तूर्त and अ-तूर्त, अ-भिन्न and अ-भिन्न, &c.
4. अ the base of some pronouns and pronom. forms, in अस्य, अत्र, &c.
5. अ the augment prefixed to the root in the formation of the imperfect, aorist, and conditional tenses (in the Veda often wanting, as in Homer, the fact being that originally the augment was only prefixed in principal sentences where it was accentuated, whilst it was dropped in subordinate sentences where the root-vowel took the accent).
6. अ m. N. of Viṣṇu, L. (especially as the first of the three sounds in the sacred syllable ओम्).
📄 मूल मुद्रित पृष्ठ (1,1)
स्रोत: Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
🟣 आप्टे संस्कृत-अंग्रेज़ी कोशअंग्रेज़ी में अर्थ
अ The first letter of the Nāgarī Alphabet. --अः [अवति, अतति सातत्वेन तिष्ठतीति वा; अव्-अत् वा, ड Tv.] 1 N. of Viṣṇu, the first of the three sounds constituting the sacred syllable ओम्; अकारो विष्णुरुद्दिष्ट उकारस्तु महेश्वरः । मकारस्तु स्मृतो ब्रह्मा प्रणवस्तु त्रयात्मकः ॥; for more explanation of the three syllables अ, उ, म् see ओम्. --2 N. of Śiva, Brahmā, Vāyu, or Vaiśvānara. --ind. 1 A prefix corresponding to Latin in, Eng. in or un, Gr. a or an, and joined to nouns, adjectives, indeclinables (or even to verbs) as a substitute for the negative particle नञ्, and changed to अन् before vowels except in the word अ-ऋणिन्. The senses of न usually enumerated are six- (a) सादृश्य ‘likeness’ or ‘resemblance’; अब्राह्मणः one like a Brāhmaṇa (wearing the sacred thread &c.), but not a Brāhmaṇa, but a Kṣatriya, or Vaiśya; अनिक्षु : a reed appearing like इक्षु, but not a true इक्षु. (b) अभाव ‘absence’, ‘negation’, ‘want’, ‘privation’; अज्ञानं absence of knowledge, ignorance; अक्रोधः, अनंगः, अकंटकः, अघटः &c. (c) भेद ‘difference’ or ‘distinction’; अपटः not a cloth, something different from, or other than, a cloth. (d) अल्पता ‘smallness’, ‘diminution’, used as a diminutive particle; अनुदरा having a slender waist (कृशोदरी or तनुमध्यमा). (e) अप्राशस्त्य ‘badness,’ ‘unfitness,’ having a depreciative sense; अकालः wrong or improper time; अकार्यं not fit to be done, improper, unworthy, bad act. (f) विरोध ‘opposition’, ‘contrariety’; अनीतिः the opposite of morality, immorality; असित not [] white, black; असुर not a god, a demon &c. These senses are put together in the following verse: --तत्सादृश्यमभावश्च तदन्यत्वं तदल्पता । अप्राशस्त्यं विरोधश्च नञर्थाः षट् प्रकीर्तिताः ॥ See न also. With verbal derivatives, such as gerunds, infinitives, participles, it has usually the sense of ‘not’; अदग्ध्वा not having burnt: अपश्यन् not seeing; so असकृत् not once; अमृषा, अकस्मात् &c. Sometimes अ does not affect the sense of the second member; अ-पश्चिम that which has no last, i. e. last; अनुत्तम having no superior, unsurpassed, most excellent; for examples see the words. --2 An interjection of (a) Pity (ah!) अ अवद्यं P. I. 1. 14 Sk. (b) Reproach, censure (fie, shame); अपचसि त्वं जाल्म P. VI. 3. 73 Vārt. See अकरणि, अजीवनि also. (c) Used in addressing; अ अनंत. (d) It is also used as a particle of prohibition. --3 The augment prefixed to the root in the formation of the Imperfect, Aorist and Conditional Tenses. N-B. --The application of this privative prefix is practically unlimited; to give every possible case would almost amount to a dictionary itself. No attempt will, therefore, be made to give every possible combination of this prefix with a following word; only such words as require a special explanation, or such as most frequently occur in the literature and enter into compounds, with other words, will be given; others will be found self-explaining when the English ‘in,’ ‘un,’ or ‘not,’ is substituted for अ or अन् before the meaning of the second word, or the sense may be expressed by ‘less,’ ‘free from,’ ‘devoid or destitute of’ &c; अकथ्य unspeakable; अदर्प without pride, or freedom from pride; अप्रगल्भ not bold; अभग unfortunate; अवित्त [] destitute of wealth &c. &c. In many cases such compounds will be found explained under the second member. Most compounds beginning with अ or अन् are either Tatpuruṣa or Bahuvrīhi (to be determined by the sense) and should be so dissolved.
📄 मूल मुद्रित पृष्ठ (0001-b)
स्रोत: V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
🟢 वाचस्पत्यम् (संस्कृत-संस्कृत)संस्कृत में अर्थ
अ पु० अवति रक्षति अतति सातत्येन तिष्ठतीति वा अव--अत-- वा ड । विष्णौ “अकारो विष्णुरुद्दिष्ट उकारस्तु महेश्वरः । मकारस्तु स्मृतोब्रह्मा प्रणवस्तु त्रयात्मक” इति । अस्य (विष्णोः) अपत्यम् अत इञ् इः (कामः) अस्य (विष्णोः) पत्नी ङीप् ई (लक्ष्मीः) ।
अ अव्य० अव--प्रीणनादौ ड स्वरादिपाठादव्ययत्वम् । अभावे, प्रतिषेधे स्वल्पेऽर्थे अनुकम्पायां, सम्बोधने, अ अनन्त! । अधिक्षेपे, अ पचसि त्वं जाल्म! । “उपसर्गस्वरविभक्ति- प्रतिरूपकाश्चेति” स्वरादिगणसूत्रे अ इति सिद्धान्त- कौमुद्यामुदाहृतं मनोरमायाञ्च अ संबोधने अधिक्षेपे निषेधे चेति व्याख्यातम् । “अभावे नह्यनोन” इत्यमर- टीकायां नञादेशोऽयमित्युक्तम् । स च आदेशः नखनमुच्या- दिभिन्नशब्दघटके उत्तरपदस्थे हलादौ शब्दे परे भवति । स तु नञर्थे एव स्थानितुल्यार्थकत्वादादेशस्य । नञर्थाश्च तत्सादृश्यमभावश्च तदन्यत्वं तदल्पता । अप्राशस्त्यं विरोधश्च नञर्थाः षट् प्रकीर्त्तिताः ॥ इत्युक्तेः षड्विधाः । तत्र अब्राह्मणइत्यादौ ब्राह्मणसादृश्य- वत्त्वेन क्षत्त्रियादीनां बोधकता, अघटमित्यादौ घटा- भावस्य, अपट इत्यादौ पटभिन्नस्य, अनुदरा कन्येत्यादौ अल्पोदरत्वस्य, अपशवो वै अन्ये गोऽश्वेभ्यइत्यादौ गवाश्व- भिन्नपशूनामप्राशस्त्यस्य, असुरः असित इत्यादौ च सुरसित विरोधस्य बोधकता । तत्रायं विशेषः नञः सर्व्वत्र अभावे भेदे च शक्तिः सादृश्यादौ तु निरूढलक्षणा । तत्र अघट- मित्यादौ अव्ययीभावे, अधन इत्यादौ बहुव्रीहौ भाव कृदन्तोत्तरपदके “अभेदः अज्ञानमित्यादौ” नञ्तत्पुरुषे च अभावबोधकता । भावकृदन्तभिन्नोत्तरपदनञ्तत्पुरुषे तु अघट इत्यादौ भिन्नत्वबोधकतेति । अत्रेदं बोध्यम् । समासे हलादौ उत्तरपदे नञः स्थाने अ इत्यादेशविधानेन समासएवास्य नञर्थकस्य अ इत्यस्य प्रयोगः नान्यथा, सम्बो- [] धनाद्यर्थकस्य तु पृथक्प्रयोगः किन्तु “नञोनलोपस्तिङि क्षेपे” इति वार्त्तिकेन तिङन्तपदे परेऽपि नञादेशस्य विधा- नात् तस्यैव पृथक्प्रयोगः । अधिकं नञ्शब्दार्थावसरे वक्ष्यते । अजीवनिरित्यादौ अधिक्षेपार्थकता अजस्रमित्यादौ उप० स० । तस्य च क्रियायोगात् प्रतिषेधार्थकता ।
अ “अःश्रीकण्ठः सुरेशश्च ललाटं चैकमातृकः । पूर्णो दरी सृष्टिमेषौ सारखतप्रियंवदः । महाब्राह्मी वासुदेवो- धनेशः केशवोऽमृतम् । कीर्त्तिर्निवृत्तिर्वागीशो नरका- रिर्हरोमरुत् । ब्रह्मा रामानुजोह्रस्व कामश्च प्रणवाद्यकः । ब्रह्माणी कामरूपश्च कामेशीवासिनी वियत् । विश्वेशः श्रीविष्णुकण्ठौ प्रतिपत्तिथिरश्विनी । अर्कमण्डलं वर्णाद्यो ब्राह्मणः कामकर्षिणी” ।
अ “शृणु तत्त्वमकारस्य अतिगोप्यंवरानने! । शरच्- चन्द्रप्रतीकाशं पञ्चकोशमयं सदा । पञ्चदेवमयं वर्णं शक्तित्रयसमन्वितम् । निर्गुणं त्रिगुणोपेतं स्वयं कैव- ल्यमूर्त्तिमत् । विन्दुतत्त्वमयं वर्णं स्वयंप्रकृतिरूपकम्” ।
📄 मूल मुद्रित पृष्ठ (0035,a)
स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🟤 शब्दकल्पद्रुम (संस्कृत-संस्कृत)संस्कृत में अर्थ
अ, अकारः । आद्यस्वरवर्णः । अस्योच्चारणस्थानं कण्ठः । स तु ह्रस्वो दीर्घः प्लुतश्च भवति । इति व्याकरणं ॥ अस्य लेखनप्रकारो यथा, -- “दक्षतः कुण्डली भूत्वा कुञ्चिता वामतो गता । ततोर्द्ध्वसङ्गता रेखा दक्षोर्द्ध्वा तासुशङ्करः ॥ विधिर्नारायणश्चैव सन्तिष्ठेत् क्रमतः सदा । अर्द्धमात्रा शक्तिरूपा ध्यानमस्य च कथ्यते ॥” इति वर्णोद्धारतन्त्रं ॥ अस्य तत्त्वं यथा, -- “श्टणु तत्त्वमकारस्य अतिगोप्यं वरानने । शरच्चन्द्रप्रतीकाशं पञ्चकोणमयं सदा ॥ पञ्चदेवमयं वर्णं शक्तित्रयसमन्वितं । निर्गुणं त्रिगुणोपेतं स्वयं कैवल्यमूर्त्तिमान् ॥ विन्दुतत्त्वमयं वर्णं स्वयं प्रकृतिरूपिणी” । इति कामधेनुतन्त्रं ॥ अस्य पर्य्यायः । “अः श्रीकण्ठो मातृकाद्योऽनन्तो विष्णुरनुत्तरः” । इति वीजवर्णाभिधानं ॥ अन्यच्च । “अः श्रीकण्ठः सुरेशश्च ललाटञ्चैकमात्रिकः । पूर्णोदरी सृष्टिमेधौ सारस्वतः प्रियम्बदः ॥ महाब्राह्मी वासुदेवो धनेशः केशवोऽमृतं । कीर्त्तिर्निवृत्तिर्व्वागीशो नरकारिर्हरो मरुत् ॥ ब्रह्मा वामाद्यजो ह्रस्वः करसुः प्रणवाद्यकः” । प्रणवाद्यावयव इत्यर्थः । “ब्रह्माणी कामरूपश्च कामेशी वासिनी बियत् ॥ विश्वेशः श्रीविष्णुकण्ठौ प्रतिपत्तिथिरंशिनी । अर्कमण्डलवर्णाद्यौ ब्राह्मणः कामकर्षिणी” ॥ इति वर्णाभिधानतन्त्रं ॥
अ, व्य, अभावः । अल्पः । निषेधः । अनुकम्पा । इति मेदिनी । (नञोऽयमकारः षड्विधान् नञर्थान् बोध- यति । यथा, -- “तत्सादृश्यमभावश्च तदन्यत्वं तदल्पता । अप्राशस्त्यं विरोधश्च नञर्थाः षट् प्रकीर्त्तिताः” ॥ इति । सादृश्ये यथा -- अब्राह्मणः ब्राह्मणसदृश- इत्यर्थः । अभावे यथा -- अभोजनं भोजनाभावः । अन्यत्वे यथा, -- पटः अघटः, पटः घटभिन्न- इत्यर्थः । अल्पत्वे यथा -- अनुदरी कन्या अल्पोदरी इत्यर्थः । अप्राशस्त्ये यथा, -- अधनं चर्म्मधनं, चर्म्मधनम् अप्रशस्तधनम् इत्यर्थः । विरोधे यथा -- अधर्म्मः परापकारः, परापकारः धर्म्मविरोधी इत्यर्थः ।)
अः, पुं, (अतति सर्व्वं व्याप्नोति इति अततेर्डः) विष्णुः । इति मेदिनी । [] “अकारो विष्णुरुद्दिष्ट उकारस्तु महेश्वरः । मकार उच्यते ब्रह्मा प्रणवेन त्रयो मताः” ॥ इति दुर्गादासधृतवचनं । (क्ली । ब्रह्म । यथा, -- अ इ उ ए ओ ओम् कलाश्च मूलं ब्रह्म इति कीर्त्तितम्, इति अग्निपुराणम् ।)
अं अंकारः । स तु अनुस्वारः । तन्त्रमते पञ्चदश- स्वरवर्णः । (स तु पाणिन्यादिमते अयोगवाह एव “अयोगवाहा विज्ञेया आश्रयस्थानभागिनः” । इत्यक्तेः । नस्ति योगः अक्षरसमाम्नायसूत्रेषु येषां ते अयोगास्तथापि वाहयन्ति णत्वषत्वकार्य्यं नि- र्व्वाहयन्तीति वाहाः अयोगाश्च ते वाहाश्चेति अयोगवाहा अनुस्वारविसर्गजिह्वामूलीयोपाध्मा- नीया इत्यर्थः ।) विन्दुमात्रानुनासिकवर्णोऽयं अकार उच्चारणार्थः । वोपदेवेनास्य नुरिति संज्ञा कृता । स तु नकार- मकारस्थानेऽपि भवति ॥ * ॥ “नुवीपूर्व्वेण संबद्धौ मून्यौ तु परगामिनौ । चत्वारोऽयोगवाहाख्या णत्वकर्म्मण्यचो मताः” ॥ इति दुर्गादासः ॥ * ॥ [] “अंकारं विन्दुसंयुक्तं पीतविद्युत्समप्रभम् । पञ्चप्राणात्मकं वर्णं ब्रह्मादिदेवतामयम् ॥ सर्व्वज्ञानमयं वर्णं विन्दुत्रयसमन्वितम्” ॥ इति कामधेनुतन्त्रम् ॥ (वङ्गीयभाषायाम् ।) तस्य लेखनप्रकारो यथा । “अकाररूपशीर्षे तु दक्षिणे विन्दुरूपिणी । ब्रक्ष्मा विष्णुश्च रुद्रश्च क्रमशस्तासु तिष्ठति ॥ या तु विन्दुमयी रेखा सैवाद्या शक्तिरीरिता” ॥ इति वर्णोद्धारतन्त्रम् ॥ * ॥ अस्य नामानि यथा । “अंकारश्चक्षुषो दन्तो घटिका समगुह्यकः । प्रद्युम्नः श्रीमुखी प्रीतिर्वीजयोनिर्वृषध्वजः ॥ परं शशी प्रमाणीशः सोमविन्दुः कलानिधिः । अक्रूरश्चेतना नादपूर्णा दुःखहरः शिवः ॥ शिवः शम्भुर्नरेशश्च सुखदुःखप्रवर्त्तकः । प
स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
स्रोत व श्रेय:
  • हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
  • Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
  • V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
  • तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
  • राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।

Cologne Digital Sanskrit Dictionaries के डिजिटल पाठ CC BY-NC-SA लाइसेंस के अनुसार निःशुल्क, गैर-व्यावसायिक उपयोग हेतु श्रेय सहित प्रस्तुत हैं। यह शब्दकोश-सेवा पूर्णतः निःशुल्क है। पुराने मुद्रित ग्रन्थों के डिजिटल पाठ में कहीं-कहीं टंकण/OCR दोष सम्भव हैं — सन्देह होने पर "📄 मूल मुद्रित पृष्ठ" देखें।

💬 ज्योतिषीय प्रश्न पूछें