अक, म वक्रगतौ । कुटिलगमने । इति कविकल्प- द्रुमः ॥ म अकयति अकति सर्पः । इति दुर्गा- दासः ॥
अक, इ क लक्ष्मणि । इति कविकल्पद्रुमः । लक्ष्म चिह्नयुक्तकरणं । इ क अङ्कयति वस्त्रं रजकः । नोपधपाठेऽपि ञेर्नित्यत्वाद्धसुङ्नलोपोऽनावित्य- स्याप्राप्तौ यगादौ अङ्क्यते इत्यादौ सिद्धे इदित् पाठश्चरादेर्ञेरनित्यत्वज्ञापनार्थः । तेन अङ्कतीत्यपि स्यात् । तथाच वोपदेवः । “सिद्धे नित्यणिजन्तत्वान्नित्यनुन्त्वे कितामिदित् । निजनित्यत्वबोधार्थं न दृष्टोऽनुम्बिधिःक्वचिदिति” ॥ अस्यार्थः । कितां कानुबन्धानां नित्यणिजन्तत्वा- न्नित्यञ्यंन्तत्वान्नित्यनुन्त्वे नित्यनकारवत्त्वे सिद्धे इदित् इदनुबन्धकरणं णिचो ञेरनित्यत्वबोधार्थं । किन्तु अनुम्बिधिर्नकाराभावः क्वचिदपि न दृष्टः । इति दुर्गादासः ॥
अक, इ ङ गत्यां । लक्ष्मणि । इति कविकल्पद्रुमः ॥ इ अङ्क्यते । ङ अङ्कते पुण्यतीर्थेषु वृषयुग्मान्यश- ङ्कितः । इति हलायुधः ॥ इति दुर्गादासः ॥
अकं, क्ली, (न कं सुखं । तद्विरुद्धं वा । नञ्समासः । नञः न लोपः ।) पापं । दुःखं । इति मेदिनी ॥
📄 मूल मुद्रित पृष्ठ (1-002-b) स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।