अति(ती)सार पु० अतिसारयति मलम् द्रवीकृत्य अति + सृ--णिच्--अच् वा अतेः दीर्घः । रोगभेदे उदारामये । तस्य निदानादि सुश्रुते उक्तं यथा “गुर्वतिस्निग्धरूक्षो- ष्णद्रवस्थूलातिशीतलैः । विरुद्धाध्यशनाजीर्णैर्विषमैश्चापि भोजनैः । स्नेहाद्यैरतियुक्तैश्च मिथ्यायुक्तैर्विषैर्भयैः । शोकाद्दुष्टाम्बुमद्यातिपानैः सात्न्यर्त्तुपर्य्ययैः । जलाभिरम- णैर्वेगविघातैः कृमिदोषतः । नृणां भवत्यतीसारो लक्षणं तस्य वक्ष्यते । (तस्य संप्राप्तिः) “संशाम्यापां धातुरग्निं प्रवृद्धः शकृन्मिश्रो वायुनाधः प्रणुन्नः । सरत्यतीवातिसारं तमाहुर्व्याधिं घोरं षड्विधं तं वदन्ति । एकैकशः, ३ सर्वशश्चापि ४ दोषैः शोकेनान्यः ५ षष्ठ आमेन ६ चोक्तः ॥ (तस्य पूर्व्वरूपम्) हृन्नाभिपायूदरकुक्षितोद--गात्रावसादा- निलसन्निरोधाः । विट्सङ्ग आध्मानमथाऽविपाको भविष्यत- स्तस्य पुरःसराणि । (वायुजः) शूलाविष्टः सक्तमूत्रोऽन्त्र- कूजी स्रस्तापानः सन्नकट्यूरुजङ्घः । वर्चोमुञ्चत्यल्पमल्पं सफेनं रूक्षं श्यावं सानिलं मारुतेन । (पित्तजः) दुर्गन्ध्युष्णं वेगवन्मांसतोयप्रख्यं भिन्नं स्विन्नदेहोऽतितीक्ष्णम् । पित्ता- त्पीतं नीलमालोहितं वा तृष्णा मूर्च्छा दाहपाकज्व- रार्त्त्योः (कफजः) तन्द्रानिद्रागौरवोत्क्लेशसादी वेगाशङ्की सृष्टविट्कोऽपि भूयः । शुक्लं सान्द्रं श्लेष्मणा श्लेष्मयुक्तं भक्तद्वेषी निस्वनं सृष्टरोमा ॥ (त्रिदोषजः) तन्द्रायुक्ते मोहमादास्यशोषी वर्चः कुर्य्यान्नैकवर्णं तृषार्त्तः । सर्व्वोद्भूतः सर्वलिङ्गोपपत्तिः कृच्छ्रश्चायं बालवृद्धेष्वसाध्यः ॥ (शोकजः) तैस्तैर्भावैः शोचतोऽल्पाशनस्य बाष्पो वेगः पक्तिमाविध्य- [] जन्तोः । कोष्ठं गत्वा क्षोभयन् यस्य रक्तं तच्चाध- स्तात्काकनन्तीप्रकाशम् ॥ वर्च्चोमिश्रं निः पुरीषं सगन्धं निर्गन्धं वा सार्य्यते तेन कोष्ठात् । शोकोत्पन्नो दुश्चि- कित्स्योऽतिमात्रं रोगो वैद्यैः कष्ट एष प्रदिष्टः ॥ (आमजः) आमाजीर्णैः प्रद्रुताः क्षोभयन्तः कोष्ठं दोषाः सम्प्रदुष्टाः सभक्तम् । नानावर्णं नैकशः सारयन्ति कृच्छ्राज्जन्तोः षष्ठमेनं वदन्ति ॥
📄 मूल मुद्रित पृष्ठ (0107-a) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।