अदन्त पु० नास्ति दन्तोऽस्य । पूषरूपे आदित्यभेदे वा कप् तत्रैव । “यद्यप्यदन्तकः पूषा पैष्टमत्ति सदा चरुमिति” छन्दोगप० । तस्यादन्तता च दक्षयज्ञभङ्गसमये वीरभद्रेण कृता यथा भागवते ४ स्कन्धे । “पूष्णो ह्यपातयद्दन्तान् कालिङ्गस्य यथा बलः । शप्यमाने गरिमणि योऽह- सद्दर्शयन् दत” इति । अतएव तस्यादन्ततया पिष्टचरुभुक्- त्वं तदपि तत्रैवोक्तम् ब्रह्मप्रसादितेन शिवेन पश्चात् दक्षादि वरदानसमये “पूषा तु यजमानस्य दद्भिर्जक्षितु पिष्टभु- गिति” श्रुतावपि “प्रपिष्टभागोऽदन्तको हि तं देवा अध्यगामिति” अदन्तकत्वेन पिष्टकभागित्वमुक्तम् । दन्तहीने, अजातदन्ते च त्रि० । “येऽप्यदन्ताः कुले ममेति” वायु० । नृणां दन्तजननकालस्तु षण्मास एव शुद्धितत्त्वे निर्णीतः पशूनान्तु “वर्षमात्रा तु बाला स्याद- [] तिबाला द्विवार्षिकी । अतः परन्तु सा गौः स्यात्तरुणी दन्तजन्मनीति” अङ्गिरोवचने द्विवर्षोत्तरकाले गवां दन्त- जन्मकथनं पशुमात्रोपलक्षणम् अत्रैव काले (आदाँता) इति लोके प्रसिद्धिः सा च गवामिव महिषाश्वादीनामपि तथैव । अत् अन्ते यस्य ब० । अकारान्तशब्दे पु० ।
📄 मूल मुद्रित पृष्ठ (0114-a) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।