अनाचार पु० अप्राशस्त्येऽभावे वा न० त० । कदाचारे, आचाराभावे च । “सर्वदेशेष्वनाचारः पथि ताम्बूल- चर्वणमिति” स्मृतिः । “अनाचारोद्विविधः विहितस्यानु- ष्ठानाभावः निषिद्धस्याचरणञ्च । तत्र आचारशब्दे वक्ष्यमाणा भावाभावरूपाः शास्त्रे कर्त्तव्यतया ये विहि- तास्तेषामननुष्ठानम् अनाचारः । निषिद्धशब्दे वक्ष्य- माणानि वर्ज्जनीयतया शास्त्रे यानि उक्तानि तेषा- मनुष्ठानमप्यनाचारः । तत्रायं विशेषः यत्र देशे पर- भ्पराप्रसिद्धः योऽनाचारः स, अल्पदोषाधायकः यथोक्तं माधवीये बौधायनेन “पञ्चधा विप्रतिपत्तिर्दक्षिणत उर्णाविक्रयो, अनुपनीतेन भार्य्यया च सह भोजनम्, पर्य्युषितभोजनम्, मातुलपितृष्वसृदुहितृपरिणयनम्, तथोत्तरतः सीधुपानमुभयतोदद्भिर्व्यवहार” इत्यादिक- मभिधाय “इतर इतरस्मिन् कुर्वन् दुष्यति देशप्रामाण्या- दिति” । “इतरोदाक्षिणात्य इतरस्मिन् उत्तरदेशे मातुलसुतादिसम्बन्धं कुर्वन् दुष्यति न स्वदेशे, तथा इतर उदीच्य इतरस्मिन् दक्षिणे देशे सीधुपानादिकं कुर्वन् दुष्यति न स्वदेशे कुतः देशप्रामाण्यात् देशनिबन्धनत्वा- दाचारप्रमाण्यस्येति” माधवः । देवलः “यस्मिन् देशे ग आवारः न्यायदृष्टः सुकल्पितः । स तस्मिन्नेव कर्त्तव्यो न तु देशान्तरे स्मृतः इति । यस्मिन् देशे पुरे ग्रामे त्रिविधे नगरेऽपि वा । यो यत्र विहितो धर्म्मस्तं धर्मं न विचालयेदिति” । “देशानुशिष्टं कुलधर्ममग्र्यं स्वजाति- धर्मं न हि संत्यजेच्चेति” स्मृत्यन्तरं बृहस्पतिरपि “पर- म्परासिद्धानानाचारान् देशविशेषेष्वाह स्म । “उदुह्यते दाक्षिणात्यैर्मातुलस्य सुता द्विजैः । मत्स्यादाश्च नराः पूर्व्वे व्यभिचाररताः स्त्रियः । उत्तरे मद्यपाश्चैव स्पृश्या नॄणां रजस्वला इति” एवमन्येप्यनाचारा [] देशभेदे परम्परागताः तत्तत्स्पृतिषूक्ता वेद्याः । ब० । आचारहीने त्रि० ।
📄 मूल मुद्रित पृष्ठ (0158-a) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।