अनुकल्प पु० कल्प्यते विधीयते इति कृप--णिच्--अच् कल्पो विहितः हीनः कल्पो मुख्यकल्पादधमः प्रा० स० । गौणकल्पे, प्रतिनिधौ । “एष वै प्रथमः कल्पः प्रदाने हव्यकव्ययोः । अनुकल्पस्त्वयं ज्ञेय” इति । “प्रभुः प्रथम- कल्पस्य योऽनुकल्पेन वर्त्तते” इति च मनुः “समर्थः प्रथमे कल्पे योऽनुकल्पे प्रवर्त्तते” इति स्मृतिः । “भार्य्याः कार्य्याः सजातीयाः सर्वेषां श्रेयस्यःस्युरितिमुख्यः कल्पस्ततोऽनुक- ल्पस्तु चतस्रोब्राह्मणस्येत्यादि” पैठीनसि स्मृतिः । अनुकल्पश्च मुख्यद्रव्यद्याभावे सुसदृशदव्यान्तरादि प्रतिनिधिरूपम् । यथा “यवाद्यभावे गोधूमाः मध्वाद्यभावे गुडादयः । एवं उपवासासामर्थ्ये नक्तं “हविष्यान्नादि स्मृतिषूक्तं वेदितव्यम् । अनुगतं कल्पं वेदाङ्गभेदम् अत्या० स० । कल्पानुगते ग्रन्थे अनुकल्पप्रतिपादकग्रन्थे च तद्वेत्तरि उक्थादि० ठक् ॥ आनु- कल्पिकः अनुकल्पग्रन्थवेत्तरि त्रि० ।
📄 मूल मुद्रित पृष्ठ (0170,b) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।