अन्यतम त्रि० अन्य + डतमैति, मुग्धबोधम् । बहूनां मध्ये निर्द्धारिते एकस्मिन् । न्यायमते अनेकभेदावच्छिन्नप्रतियो- गिताकभेदवति तच्च तद्भिन्नत्वे सति तद्भिन्नत्वे सति तद्भिन्न- भिन्नत्वम् । यथा धटपटगृहान्यतम इत्यादौ घटादिभेद- त्रयभेदो घटपटगृहेष्वेव, तद्भिन्नेषु सर्वत्र तत्त्रयभेदस- त्त्वात् । अनेकत्वञ्च अपेक्षाबोधविषयत्वं तथा च यावन्तः पदार्थाः अन्यतमघटकप्रथमभेदप्रतियोगितया विवक्षिता- स्तावन्तएव भेदा ग्राह्यास्तथा च तावत्पदार्थभिन्नभेद- वत्त्वमेवान्यतमशब्दार्थः । “अन्यतरान्यतमशब्दौ अव्युत्पन्नो प्रातिपदिके इति” कैयटः । तेनान्यतमस्य न सर्वनामका- र्य्यम् “किंयत्तदोनिर्द्धारणे इति” पा० किंयत्तद्भ्योऽन्यत्र डतरादिविधानाभावान्न डतमान्तत्वम् अतोऽव्युत्पन्नत्वम् । इति भा० प्र० उ० । अतएव सर्वनामसंज्ञासूत्रे डतरडत- मान्तयोरुक्तत्वेऽपि अन्यतरशब्दस्य पृथग्ग्रहणम् । “कर्म्मादिषट्कान्यतमत्वं कारकत्वमिति” सारमञ्जरी “अधःप्रकुपितोऽन्यतमो हि दोष” इति सुश्रुतम् ।
📄 मूल मुद्रित पृष्ठ (0213,b) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।