अपत्नीक पु० नास्ति सन्निकर्षे कर्म्मयोग्या, मृत्या वा पत्नी यस्य कप् । असन्निकृष्टपत्नीके, कर्म्मायोग्यपत्नीके, मृतपत्नीके च । “अपत्नीकस्याहवनीये तच्छ्रापिणः” कात्या० २, ५, १८ । “अपत्नीकस्य रजोदोषप्रसवप्रवासादिना असन्निहित- पत्रीकस्य तच्छ्रापिण आहवनीयश्रापिणः आहवनीये हविः- श्रपणं कुर्व्वतो यजमानस्य “आहवनीये आज्यमधिश्रयती” त्युक्तेः । आहवनोयश्रापिणोऽपि सन्निहितायां पत्न्यां गार्ह- पत्य एवाज्यमधिश्रयति, शाखान्तरे चैवं श्रूयते “यस्य व्रत्येऽ- हनि पत्न्यनालंभुक्ती (रजस्वला) स्यात्तामनपरुध्य यजे- तेति” । केचित् अपत्नीको मृतपत्नीक इत्याहुः तस्या- प्येकाकिन एवाघानं श्रूयते आश्वलायनब्राह्मणे, “पत्न्यां मृतायामग्निभिर्दग्धायां पुनर्विवाहासम्भवे आत्मार्थमग्न्या- धानमाहापस्तम्बः दर्शपौर्णमासाग्रयर्णार्थं, शेषाणि कर्म्माणि न भवन्तीति” तथा त्रिकाण्डे मण्डनः “तस्मान्नग्न्यै- कदेशेन दग्धव्या पूर्व्वमारिणी पत्नी ज्येष्ठेतरा वापि यज्ञपार्श्वे निरूपितम्” ॥ कात्यायनः (कर्मप्रदीपे) “मृता- यामपि भार्य्यायां वैदिकाग्नीन्नहि त्यजेत् । उपाधिनापि तत्कर्म यावज्जीवं समापयेदिति” । तद्व्या० (उपाधिना स्वर्ण्णादितत्प्रतिमूर्त्त्या) । नास्ति पत्नीसहिता यस्य कप् । पत्नीस्यहित्यरहिते । “पितृयज्ञमुपक्रम्य” । “अपत्नीकः” कात्या० ५, ७, ५ । “पितृयज्ञो भवति केबलस्यैकाकिनो यज- मानस्यैवाधिकारो न तु पत्नीसहितस्य । अतोऽत्र पत्न्याः प्रति- षेधात् “पत्नीं समुह्येति प्रैषस्याभावः । आज्यावेक्षणं त्वाज्यसंस्कारत्वादध्वर्य्युः करोतीति” तद्व्या० ।
📄 मूल मुद्रित पृष्ठ (0225,b) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।