🕉️ 21 November 2026, Saturday · 12:57:43 PM · CDSHARMA.IN

📚 उमा संस्कृत-हिन्दी महाशब्दकोश

अर्थ · व्याकरण · व्युत्पत्ति · पर्याय · समास · शास्त्रीय उद्धरण — पाँच प्रामाणिक कोश व अमरकोश एक साथ

279,511 शीर्ष-शब्द · 452,554 कोश-प्रविष्टियाँ

अपस्मार
apasmāra
🟠 शब्दसागर🔵 मोनियर-विलियम्स🟣 आप्टे🟢 वाचस्पत्यम्🟤 शब्दकल्पद्रुम
🟠 हिन्दी शब्दसागरहिन्दी में अर्थ
अपस्मार संज्ञा पुं॰ [सं॰] एक रोगविशेष । मृगी । विशेष—इसमें हृदय काँपने लगता है और के सामने अँधेरा छा जाता है । रोंगी काँपकर पृथ्वी पर मुर्च्छित हो गिर पड़ता है । वैद्यक शास्त्रानुसार इसकी उत्पत्ति चिंता, शोक और भय के कारण कुपित त्रिदोष से मानी गी है । यह चार प्रकार का होता है—(१) वातज, (२) पित्तज, (३) कफज और (४) सन्निपातज । यह रोग नैमित्तिक है । वातज का दौरा बारहवें दिन, पित्तज का पंद्रहवें दिन और कफज का तीसवें दिन होता है । पर्या॰—अंगविकृति । लालाध । भूतविक्रिया । मृगी रोग ।
२. अपस्मृति । भुलक्कडपन । स्मृतिभ्रंश [को॰] ।
स्रोत: हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
🔵 मोनियर-विलियम्स संस्कृत-अंग्रेज़ी कोशअंग्रेज़ी में अर्थ
अप-स्मार m. epilepsy, falling sickness, Suśr. &c.
want of memory, confusion of mind (in rhet. one of the Vyabhicāribhāvas, q.v.), Sāh.
📄 मूल मुद्रित पृष्ठ (53,2)
स्रोत: Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
🟣 आप्टे संस्कृत-अंग्रेज़ी कोशअंग्रेज़ी में अर्थ
अपस्मारः, --स्मृतिः f. [अपस्मारयति स्मरणं विलोपयति, स्मृ-णिच्, कर्तरि अच्, or अपगतः स्मारः स्मरणं यतः] 1 Forgetfulness, loss of memory; स्मर˚ Bh. 1. 89. --2 Epilepsy, falling sickness; Suśr. thus derives it; स्मृतिर्भूतार्थविज्ञानमपश्च परिवर्जने । अपस्मार इति प्रोक्तस्ततोयं व्याधिरंतकृत् ॥
📄 मूल मुद्रित पृष्ठ (0114-b)
स्रोत: V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
🟢 वाचस्पत्यम् (संस्कृत-संस्कृत)संस्कृत में अर्थ
अपस्मार पु० अपस्मारयति स्मरणं विलोपयति अप + स्मृ- णिच्--कर्त्तरि अच्, अपगतः स्मारः स्मरणंयतो वा । १ रोग- भेदे । स च सुश्रुते दर्शितो यथा “स्मृतिर्भूतार्थविज्ञानमपश्च परिवर्जने अपस्मार इति प्रोक्तस्ततोऽयं व्याधिरन्तकृत् ॥ मिय्यादियोगेन्द्रियार्थकर्म्मणामतिसेवनात् । विरुद्धमलिना- हारविहारकुपितैर्मलैः । वेगनिग्रहशीलानामहिताशुचि- भोजिनाम् । रजस्तमोऽभिभूतानां गच्छताञ्च रजस्वलाम् ॥ तथा कामभयोद्वेगक्रोधशोकादिभिर्भृशम् । चेतस्यभिहते पुम्सामपस्मारोऽभिजायते ॥ संज्ञावहेषु स्रोतःसु दोषव्याप्तेषु मानवः । रजस्तमःपरीतेषुमूढो भ्रान्तेन चेतसा ॥ विक्षिपन् हस्तपादौ च विजिह्वभ्रूर्विलोचनः । दन्तान् वादन् वमन् फेनं विवृताक्षः पतेत् क्षितौ ॥ अल्पकालान्तरञ्चापि पुनः संज्ञां लभेत सः । सोऽपस्मार इति प्रोक्तः स च दृष्टश्चतुर्विधः ॥ वातपित्तकफैर्नॄणाञ्चतुर्थः सन्निपाततः । हृत्कम्पः शून्यता स्वेदोध्यानं मूर्च्छा प्रमूढता ॥ निद्रानाशश्च तस्मिंस्तु भविष्यति भवन्त्यथ । वेपमानो दशेद्दन्तान् श्वसन् फेनं वमन्नपि ॥ यो ब्रूयाद्विकृतं सत्वं कृष्णं मामनुधावति । ततो मे चित्त- नाशः स्यात्सोऽपस्मारोऽनिलात्मकः ॥ तृट्तापस्वेदमूर्च्छा- र्त्तोध्वनन्नङ्गानि विह्वलः । यो ब्रूयाद्विकृतं सत्वं पीतं मामनुधावति ॥ ततो मे चित्तनाशः स्यात्स पित्तभव उच्यते । शीतहृल्लासनिद्रार्त्तः पतन् भूमौ वमन् कफम् ॥ यो ब्रूयाद्विकृतं सत्वं शुक्लं मामनुधावति । ततो मे चित्त- नाशः यात्सोऽपस्मारः कफात्मकः ॥ हृदि तोदस्तृडुत्क्लेद- स्त्रिष्वप्येतेषु संस्थया । प्रलापः कूजनं क्लेशः प्रत्येकन्तु भवेदिह ॥ सर्व्वलिङ्गसमावायः सर्व्वदोषप्रकोपजे । अनिमित्तागमाद्व्याधेर्गमनादकृतेऽपि च ॥ आगमाच्चाप्यप- स्मारं वदन्त्यन्ये न दोषजम् क्रमोपयोगाद्दोषाणां क्षणि- कत्वात्तथैव च ॥ आगमाद्वैश्वरूप्याच्च स तु निर्वर्ण्यते बुधैः । वर्षत्यपि यथा देवे भूमौ वीजानि कानिचित् ॥ शरदि प्रतिरोहन्ति तथा व्याधिसमुद्भवः । स्थायिनः केचिदल्पेन [] कालेनाभिप्रवर्द्धिताः ॥ दर्शयन्ति विकारांस्तु विश्वरूपान्नि- सर्गतः । अपस्मारो महाव्याधिस्तस्माद्दोषज एव तु” इति ॥ “धूर्त्तोऽपस्माररोगी स्यादिति” शाता० कर्म्म० । “अपस्मा- रादिरोगाणां ज्वरादीनां विशेषत इति” घटुकस्तोत्रम् ।
📄 मूल मुद्रित पृष्ठ (0240-a)
स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🟤 शब्दकल्पद्रुम (संस्कृत-संस्कृत)संस्कृत में अर्थ
अपस्मारः, पुं, (अपस्मर्य्यते पूर्व्ववृत्तं विस्मर्य्यतेऽनेन, अप + स्मृ + करणे घञ् ।) रोगविशेषः । मृगी इति भाषा । तत्पर्य्यायः । अङ्गविकृतिः २ ला- लाधः ३ भूतविक्रिया ४ । इति राजनिर्घण्टः ॥ * ॥ तस्य सामान्यरूपं । “तमःप्रवेशः संरम्भो दोषोद्रेकहतस्मृतेः । अपस्मार इति ज्ञेयो गदो घोरश्चतुर्व्विधः” ॥ * ॥ तस्य निदानपूर्व्विका सम्प्राप्तिः । “चिन्ताशोकादिभिः क्रुद्धादोषा हृत्स्रोतसि स्थिताः । कृत्वा स्मृतेरपध्वंसमपस्मारं प्रकुर्व्वते” ॥ * ॥ तस्य पूर्व्वरूपं । यथा, -- “हृत्कम्पः शून्यता स्वेदो ध्यानं मूर्च्छा प्रमूढता । निद्रानाशश्च तस्मिंश्च भविष्यति भवत्यथ” ॥ * ॥ वातिकस्य रूपं । “कम्पते प्रदशेत् दन्तान् फेनोद्वामी श्वसित्यपि । परुषारुणकृष्णानि पश्येद्रूपाणि चानिलात्” ॥ * ॥ पैत्तिकस्य रूपं । “पीतफेनाङ्गवक्त्राक्षः पीतासृग्रूपदर्शनः ॥ सतृष्णोष्णानलव्याप्तलोकदर्शी च पैत्तिकः” ॥ * ॥ श्लैष्मिकरूपं । “शुक्लफेनाङ्गवक्त्राक्षः शीतहृष्टाङ्गजो गुरुः । पश्यन् शुक्लानि रूपाणि श्लैष्मिको मुच्यते चिरात्” ॥ * त्रिदोषजरूपं । [] “सर्व्वैरेभिः समस्तैश्च लिङ्गैर्ज्ञेयस्त्रिदोषजः” ॥ * ॥ असाध्यलक्षणं ॥ अपस्मारः स चासाध्यो यः क्षीणस्यानवश्च यः ॥ * ॥ अरिष्टलक्षणं । “प्रस्फुरन्तं सुबहुशः क्षीणं प्रचलितभ्रुवं । नेत्राभ्याञ्च विकुर्व्वाणमपस्मारो विनाशयेत्” ॥ * ॥ तस्य वेगकालः । “पक्षाद्वा द्वादशाहाद्वा मासाद्वा कुपिता मलाः । अपस्माराय कुर्व्वन्ति वेगं किञ्चिदथांन्तरं ॥ देवे वर्षत्यपि यथा भूमौ वीजानि कानिचित् । शरदि प्रतिरोहन्ति तथा व्याधिसमुच्चयाः” ॥ इति माधवकरः ॥ * ॥ तस्य चिकित्सा । यथा, -- “तैलेन लशुनः सेव्यः पयसा च शतावरी । ब्राह्मीरसश्च मधुना सर्व्वापस्मारभेषजं ॥ * ॥ चूर्णैः सिद्धार्थकादीनां भक्षितैरथवापि तैः । गोमूत्रपिष्टैः सर्व्वाङ्गलेपैः शाम्यत्यपस्मृतिः” ॥ सिद्धार्थकादिः उन्मादोक्तः ॥ * ॥ “शिग्रुकट्वङ्गकिणिहीनिम्बत्वग्रसपाचितं । चतुर्गुणे गवां मूत्रे तैलमभ्यङ्गने हितं” ॥ कट्वङ्गः शोनापाठा । किणिही चिरिचिरा ॥ * ॥ “निर्गुण्डीभववन्दाकनावनस्य प्रयोगतः । उपैति सहसा नाशमपस्मारो महागदः ॥ * ॥ मनोह्वा तार्क्ष्यविष्ठा वा शकृत् पारावतस्य च । अञ्जनाद्धन्त्यपस्मारमुन्मादञ्च विशेषतः” ॥ मनोह्वा मनःशिला । तार्क्ष्यो गरुडः । शकृत् विष्ठा ॥ * ॥ “यः खादेत् क्षीरभक्ताशी माक्षिकेण वचारजः । अपस्मारं महाघोरं चिरोत्थं स जयेद्ध्रुवं” ॥ वचा घुरवच् ॥ * ॥ “कुष्माण्डकफलोत्थेन रसेन परिपेषितं । अपस्मारविनाशाय षष्ठ्याह्वं च पिबेत् त्र्यहं” ॥ त्र्यहमिति एतस्य पानाद्दिवसत्रयेणैवापस्मारोप- शमो भवतीत्यभिप्रायः ॥ * ॥ “ब्राह्मीरसवचाकुष्ठशङ्खपुष्पीशृतं घृतं । पुराणं स्यादपस्मारोन्मादग्रहहरं परं” ॥ एतस्य प्रक्रिया । पुराणं गोघृतं प्रस्थमितं वचा- कुष्ठशङ्खपुष्पीणां समुदितानां कुडवमितानां क- ल्केन प्रस्थमितब्राह्मीरसपिष्टेन पचेत् । ब्राह्मी- घृतं ॥ * ॥ “कुष्माण्डकरसे सर्पिरष्टादशगुणे पचेत् । यष्ट्याह्वकल्कं तत्पानमपस्मारविनाशनं” ॥ कुष्माण्डकघृतं ॥ * ॥ “द्वौ कीटमेषौ विधिवदानीय रविवासरे । कण्ठे भुजे वा संधार्य्य जयेदुग्रामपस्मृतिं” ॥ अयन्तु कीटो नदीतीरे सिकतामध्ये तिष्ठति ॥ * ॥ “शिग्रुकुष्ठजलाजाजीलशुनव्योषहिङ्गुभिः । वस्तमूत्रे शृतं तैलं नावनं स्यादपस्मृतौ” ॥ जलं बालकं । अजाजी जीरकः । वस्तः छागः । नावनं नस्यं ॥ * ॥ इत्यपस्माराधिकारः । इति भावप्रकाशः ॥
📄 मूल मुद्रित पृष्ठ (1-067-a)
स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🔗 इससे बने/आरम्भ होने वाले शब्द (समास व व्युत्पन्न)
🔁 जिनके अर्थ में "अपस्मार" आता है (4)
स्रोत व श्रेय:
  • हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
  • Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
  • V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
  • तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
  • राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।

Cologne Digital Sanskrit Dictionaries के डिजिटल पाठ CC BY-NC-SA लाइसेंस के अनुसार निःशुल्क, गैर-व्यावसायिक उपयोग हेतु श्रेय सहित प्रस्तुत हैं। यह शब्दकोश-सेवा पूर्णतः निःशुल्क है। पुराने मुद्रित ग्रन्थों के डिजिटल पाठ में कहीं-कहीं टंकण/OCR दोष सम्भव हैं — सन्देह होने पर "📄 मूल मुद्रित पृष्ठ" देखें।

💬 ज्योतिषीय प्रश्न पूछें