🕉️ 23 November 2026, Monday · 01:54:11 AM · CDSHARMA.IN

📚 उमा संस्कृत-हिन्दी महाशब्दकोश

अर्थ · व्याकरण · व्युत्पत्ति · पर्याय · समास · शास्त्रीय उद्धरण — पाँच प्रामाणिक कोश व अमरकोश एक साथ

279,511 शीर्ष-शब्द · 452,554 कोश-प्रविष्टियाँ

अमावस्या
amāvasyā
🟠 शब्दसागर🔵 मोनियर-विलियम्स🟣 आप्टे🟢 वाचस्पत्यम्🟤 शब्दकल्पद्रुम
📗 अमरकोश — पर्याय
🟠 हिन्दी शब्दसागरहिन्दी में अर्थ
अमावस्या संज्ञा स्त्री॰ [सं॰]
१. कृष्णपक्ष की अंतिम तिथि । वह तिथी जिसमें सूर्य और चंद्रमा एक ही शशि के हों ।
२. हठयोग की एक क्रिया ।
स्रोत: हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
🔵 मोनियर-विलियम्स संस्कृत-अंग्रेज़ी कोशअंग्रेज़ी में अर्थ
अमा—वस्या f. = -वास्या, q.v., Kāṭh.; Pāṇ. iii, 1, 122.
📄 मूल मुद्रित पृष्ठ (81,2)
स्रोत: Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
🟣 आप्टे संस्कृत-अंग्रेज़ी कोशअंग्रेज़ी में अर्थ
अमावस्या, --वास्या, --वसी, --वासी (also written अमा मसी-मासी) [ अमावस् -ण्यत्, अमा सह वसतः चंद्रार्कौ अस्यां सा P. III. 1. 122 Sk.] 1 The day of new moon, when the sun and moon dwell together or are in conjunction; the 15th day of the dark half of every lunar month; सूर्याचंद्रमसोः यः परः सन्निकर्षः साऽमावास्या Gobhila. --2 A sacrifice offered at that time. --3 The sacrificial oblation.
📄 मूल मुद्रित पृष्ठ (0151-a)
स्रोत: V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
🟢 वाचस्पत्यम् (संस्कृत-संस्कृत)संस्कृत में अर्थ
अमाव(वा)स्या अमा सह वसतश्चर्न्द्रार्कौ यस्याम् नि० । कृष्ण- पक्षीयपञ्चदशीतिथौ । तथा हि अधः प्रदेशवर्त्ती शीघ्रगामी चन्द्रः, ऊर्द्ध्वप्रदेशवर्त्ती मन्दगामी सूर्य्यः । तयोर्गतिविशेषात् यत्काले चन्द्रमण्डलमन्यूनमनति- रिक्तं सत् सूर्य्यमण्डलस्याधोभागे व्यवस्थितम् भवति तदा सूर्य्यरश्मिभिः साकल्येनाभिभूतत्वात् चन्द्रमण्डलमी- षदपि न दृश्यते इति कृष्णपक्षे पञ्चदशकलाक्रियाकूटो- पलक्षितःकालः अमावस्येति निष्कर्षः । “सूर्य्याचन्द्रमसोः यः परो विप्रकर्षः सा पौर्णमासी र्यः परःसन्निकर्षः साऽमावस्येति” गोभि० “अमावस्या गुरुं हन्ति शिष्यं हन्ति चतुर्दशी” मनुः । अमावास्यायांभवः वा क्वुन् अमा- वास्यकः अण् आमावस्यः । तत्रभवे त्रि० । “य आगारे मृगयन्ते प्रतिक्रोशेऽमावास्ये” अथ० ३६, ३
📄 मूल मुद्रित पृष्ठ (0321,b)
स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🟤 शब्दकल्पद्रुम (संस्कृत-संस्कृत)संस्कृत में अर्थ
अमावस्या, स्त्री, (अमा साहित्येन वसतश्चन्द्रार्कौ यस्यां, अमा + वस + आधारे ण्यत् स्त्रियां टाप् ।) कृष्णपक्षान्ततिथिः । सा तु चन्द्रमण्डलस्य पञ्च- दशकलाक्रियारूपा तत्क्रियोपलक्षितः कालो वा । इति तिथ्यादितत्त्वं ॥ सूर्य्याचन्द्रमसोर्यः परः सन्निकर्षः सामावस्या । इति गोभिलः ॥ परः सन्निकर्षश्च उपर्य्यधोभावापन्नसमसूत्रपातन्यायेन एकराश्यवच्छेदेन सहावस्थानरूपः । इति रघु- नन्दनः ॥ तत्पर्य्यायः । अमावास्या २ । दर्शः ३ । सूर्य्येन्दुसङ्गमः ४ । इत्यमरः ॥ पञ्चदशी ५ । इति स्मृतिः ॥ अमावसी ६ । अमावासी ७ । इति शब्दरत्नावली ॥ अमामसी ८ । अमामासी ९ । इत्यमरटीकायां रमानाथः ॥ सा दृष्टेन्दुकला सिनीवाली १० । नष्टेन्दुकला च कुहूः ११ । इत्य- मरः ॥ तद्व्यवस्थादि यथा । अथामावस्या । सा च प्रतिपद्युता ग्राह्या युग्मात् । वराहपुराणे चाण्डालशपथे । “षष्ठ्यष्टम्यप्यमावास्या उभे पक्षे चतुर्द्दशी । अस्नातानां गतिं यास्ये यद्यहं नागमे पुनः” ॥ अतोऽत्र स्नानमावश्यकं । अतोऽत्र जीवत्पितृके- णापि स्नातव्यम् । “अमास्नानं गयाश्राद्धं दक्षिणामुखभोजनं । न जीवत्पितृकः कुर्य्यात् कृते च पितृहा भवेत्” ॥ इति वचनं रागप्राप्तस्नाननिषेधकं । “भोगाय क्रियते यत्तु स्नानं यादृच्छिकं नरैः । तन्निषिद्धं दशम्यादौ नित्यनैमित्तिके न तु” ॥ इति त्रयोदशीप्रकरणोक्तवचनाच्च ॥ * ॥ पैठिनसिः । “न पर्ब्बसु तैलं क्षौरं मांसमभ्युपे- यात् नामावास्यायां हरितमपि छिन्द्यात्” । इति ॥ * ॥ “पुष्ये तु जन्मनक्षत्रे व्यतीपाते च वैधृतौ । अमायाञ्च नदीस्नानं पुनात्यासप्तमं कुलं” ॥ अत्र दहत्याजन्मदुष्कृतमिति ज्योतिषे पाठः ॥ * ॥ व्यासः । “अमावास्यां भवेद्वारो यदि भूमिसुतस्य च । गोसहस्रफलं दद्यात् स्नानमात्रेण जाह्नवी” ॥ “सिनीवाली कुहूर्व्वापि यदि सोमदिने भवेत् । गोसहस्रफलं दद्यात् स्नानं यन्मौनिना कृतम्” ॥ सिनीवाली चतुर्द्दशीयुक्तामावास्या व्यस्तापि प्रशस्ता एवमन्यत्रापि वारविशिष्टविधौ न युग्मा- दरः निरवकाशत्वेन संशयायोगात् । एतच्च मौन- मरुणोदयकालमारभ्य स्नानपर्य्यन्तं । न तु स्नान- कालमात्रे । तत्र, “उच्चारें मेथुने चैव प्रस्रावे दन्तधावने । स्नाने भोजनकाले च षट्सु मौनं समाचरेत्” ॥ इति स्कान्देन तस्य सामान्यतः प्राप्तत्वात् । उच्चारे पुरीषोत्सर्गे ॥ * ॥ स्मृतिः । “करतोयाजलं प्राप्य यदि सोमयुता कुहूः । अरुणोदयवेलायां सूर्य्यग्रहशतैः समा” ॥ [] स्नानमन्त्रः । “करतोये सदानीरे सरित्श्रेष्ठे सुविश्रुते । पौण्ड्रान् प्लावयसे नित्यं पापं हर करोद्भवे” ॥ पौण्ड्रान् देशविशेषान् ॥ * ॥ मरीचिः । “मासे नभस्यमावास्या तस्यां दर्भचयो मतः । अयातयामास्ते दर्भा विनियोज्याः पुनः पुनः” ॥ अत्र । “दर्भाः कृष्णाजिनं मन्त्रा ब्राह्मणा हविरग्नयः । अयातयामान्येतानि नियोज्यानि पुनः पुनः” ॥ इति गृह्यपरिशिष्टवचनेनैव सिद्धौ श्रावणा- मावास्याया उपादानं । “वार्षिकांश्चतुरो मासान्नाहरेत् कुशमृत्तिकाः । आददीत त्वभावेऽपि सद्यो यस्योपयोजनं” ॥ इति संवत्सरप्रदीपधृतशिवरहस्यीयस्यापवादक- मिति ॥ विद्याकरधृतं । “सङ्ग्रहाद्वत्सरं यावत् शुद्धिः स्यादिध्मवर्हिषां । ततः परं न गृह्णीयात् जपादौ यज्ञकर्म्मणि” ॥ * ॥ संवत्सरप्रदीपे । “अमावास्यान्तु कन्यार्के तीर्थप्राप्तौ तथा नृप । कृत्वा श्राद्धं विधानेन दद्यात् षोडशपिण्डकं” ॥ तत्प्रमाणप्रयोगौ षोडशीशब्दे द्रष्टव्यौ ॥ * ॥ अमावास्यायामपि मलमासे श्राद्धाभावमाह कौथुमिः । “संवत्सरातिरेको वै मासो यः स्यात्त्रयोदशः । तस्मिंस्त्रयोदशे श्राद्धं न कुर्य्यादिन्दुसंक्षये” ॥ सम्बत्सरप्रदीपे । “एकराशिस्थिते सूर्य्ये यदि दर्शद्वयं भवेत् । दर्शश्राद्धं तदादौ स
स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🔁 जिनके अर्थ में "अमावस्या" आता है (10)
स्रोत व श्रेय:
  • हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
  • Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
  • V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
  • तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
  • राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।

Cologne Digital Sanskrit Dictionaries के डिजिटल पाठ CC BY-NC-SA लाइसेंस के अनुसार निःशुल्क, गैर-व्यावसायिक उपयोग हेतु श्रेय सहित प्रस्तुत हैं। यह शब्दकोश-सेवा पूर्णतः निःशुल्क है। पुराने मुद्रित ग्रन्थों के डिजिटल पाठ में कहीं-कहीं टंकण/OCR दोष सम्भव हैं — सन्देह होने पर "📄 मूल मुद्रित पृष्ठ" देखें।

💬