अम्लवेतसः, पुं, स्वनामप्रसिद्धः अम्लरसवृक्षविशेषः । चुकाशाक इति ख्यात इति केचित् । अम्ल- कुचाइ इति ख्यात इति केचित् । इत्यमर- टीकायां भरतः ॥ तत्पर्य्यायः । अम्लः २ बेधी ३ रसाम्लः ४ आम्लवेतसः ५ वेतसाम्लः ६ अम्ल- सारः ७ शतबेधी ८ बेधकः ९ भीमः १० भेदनः ११ भेद्री १२ राजाम्लः १३ अम्लभेदनः १४ अम्ला- ङ्कुशः १५ रक्तसारः १६ फलाम्लः १७ अम्ल- नायकः १८ सहस्रबेधी १९ वीराम्लः २० गुल्म- केतुः २१ वराभिधा २२ शङ्खद्रावी २३ मांस- द्रावी २४ । इति राजनिर्घण्टः ॥ वराङ्गी २५ । इति रत्नमाला ॥ चुक्रः २६ । इत्यमरः ॥ तत्फल- गुणाः । अत्यम्लत्वं । कषायत्वं । उष्णत्वं । वायु- कफार्शःश्रमगुल्मनाशित्वं । अरुचिहारित्वञ्च । इति राजनिर्घण्टः ॥ छागमांसलौहसूचीद्रव- कारित्वं । चणकाम्लवत् गुणकारित्वञ्च । इति भावप्रकाशः ॥ आनाहरोगनाशित्वं । तत्पक्व- फलगुणाः । दोषविनाशित्वं । गुरुत्वं । धारकत्वञ्च । इति राजवल्लभः ॥ तत्पर्य्यायगुणाः । “स्यादम्लवेतसश्चुक्रः शतबेधी सहस्रजित् । अम्लवेतसमत्यम्लं भेदनं लघु दीपनं ॥ हृद्रोगशूलगुल्मघ्नं पित्तलोहितदूषणं । रूक्षं विण्मद्यदोषघ्नं प्लीहोदावर्त्तनाशनं ॥ [] हिक्कानाहारुचिश्वासकासाजीर्णवमिप्रणुत् । कफवातामयध्वंसि छागमांसद्रवत्वकृत् ॥ चणकाम्लगुणं ज्ञेयं लौहसूचीद्रवत्वकृत्” । इति भावप्रकाशः ॥ (“अम्लिकायाः फलं पक्वं तस्मादल्पान्तरं गुणैः । गुणैस्तैरेव संयुक्तं भेदनन्त्वम्लवेतसम्” ॥ इति च चरकः ॥)
📄 मूल मुद्रित पृष्ठ (1-090-c) स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।