चुक्रं, क्ली, (चकते तृप्यत्यनेन इति । चक + “चकि- रम्योरुच्चोपधायाः ।” उणां । २ । १४ । इति रक् उपधाया उच्च ।) अम्बद्रव्यविशेषः । महादा इति ख्यातम् । तत्पर्य्यायः । तिन्तिडीकम् २ वृक्षाम्लम् ३ । इत्यमरः । २ । ९ । ३५ ॥ चुक्र- कम् ४ । इति शब्दरत्नावली ॥ महाम्लम् ५ । इति जटाधरः ॥ (अम्लवृक्षकम् ६ । इति भाव- प्रकाशः । १ । १ ॥) पत्रशाकविशेषः । चुक इति भाषा ॥ तत्पर्य्यायः । चुक्रवास्तूकम् २ लिकु- चम् ३ अम्लवास्तुकम् ४ दलाम्लम् ५ अम्ल- शाकाख्यम् ६ अम्लादि ७ हिलमोचिका ८ । अस्य गुणाः । अम्लपत्रत्वम् । लघुत्वम् । उष्ण- त्वम् । वातगुल्मनाशित्वम् । रुच्यग्नीषत्पित्त- कारित्वम् । पथ्यत्वम् । तत्पर्य्यायगुणाः । “चुक्रिया स्यात्तु पत्राम्ला रोचनी शतवेधिनी । चुक्रा त्वम्लतरा स्वाद्बी वातध्नी कफपित्तकृत् ॥ रुच्या लघुतरा पाके वृन्ताके नातिरोचनी ॥” इति भावप्रकाशः ॥ * ॥ (“चुक्रमत्यम्लमुष्णञ्च दीपनं पाचनं परम् । शूलगुल्मविबन्धामवातश्लेष्महरं परम् ॥ वमितृष्णास्यवैरस्यहृत्पीडावह्निमान्द्यहृत् ॥” इति शब्दार्थचिन्तामणिधृतवैद्यकम् ॥) काञ्जिकप्रभेदः । तत्पर्य्यायः । सहस्रवेधम् २ रसाम्लम् ३ चुक्रवेधकम् ४ शाकाम्लभेदनम् ५ चन्द्रम् ६ अम्लसारम् ७ चुक्रिका ८ । अस्य गुणाः । तिक्तत्वम् । अम्लत्वम् । स्वादुत्वम् । कफपित्तनासिकारोगदुर्गन्धशिरोरोगनाशित्वञ्च । इति राजनिर्घण्टः ॥ * ॥ सन्धानविशेषः । यथा, “यन्मस्त्वादिशुचौ भाण्डे सगुडक्ष्रौद्रकाञ्जिकम् । धान्यराशौ त्रिरात्रस्थं शुक्तं चुक्रं तदुच्यते ॥ द्विगुणं गुडमध्वारनालमस्तु क्रमादिह ॥” इति परिभाषा ॥ (अस्य लक्षणं यथा, -- “विनष्टे संहितो यस्तु तच्चुक्रमभिधीयते ॥” इति शार्ङ्गधरे मध्यखण्डे दशमेऽध्याये ॥)
चुक्रः, पुं, (चकते तृप्यतेऽनेनेति । चक + रक् उप- धाया उच्च ।) अम्लः । अम्लवेतसः । इति विश्वः ॥
📄 मूल मुद्रित पृष्ठ (2-455-b) स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।