अर्द्ध पु० ऋध--वृद्धौ भावादौ धञ् । १ वृद्धौ । आधारे घञ् । २ गृहादौ । “आतून इन्द्र! वृत्रहन्नस्माकमर्द्धमागहि” यजु० ३३, ६५ । “अर्द्धम् निवासदेशम्” वे० दी० । अधि + ऋध--अच् । वृद्धिप्राप्त्याधारे २ वायौ । “कतमोऽध्यर्द्ध इति” प्रश्ने “योऽयं पवते” इत्युत्तरं दत्त्वा “तदाहुर्यदयमेकैवैष पवतेऽथ कथमध्यर्द्ध” इति प्रश्नेउत्तरम् । “यदस्मिन्निदं सर्व्व- मध्यार्ध्रोत् अस्मिनवायौ सति इदं सर्व्वम् अधिकमार्घ्नोति प्राणः आप्त प्राप्नोति इति तेनाध्यर्द्ध” इति छा० उ० । करणे घञ् । ४ अवयवरूपे खण्डे अवयवेनेवोपचयात् अवयविनो [] वृद्धिरिति तस्य तथात्वम् । समखण्डवाचित्वे तु न० । “अर्द्धं नपुंसकम्” पा० सूत्रेतथैवोक्तेः । ५ समीपे अर्धदेव- शब्दे उदा० समांसवाचिनस्तु एकदेशिसमासः । अर्धर्च्चः अर्धकायम् अर्धपिप्पली क्षचित् षष्ठीसमासः “एतच्छता- र्द्धमावत्त्य त्रैलोक्यविजयी भवेत्” तन्त्रम् । एतत् पूर्व्वकनौशब्दान्ततत्पुरुषात् अच् अर्धनावम् खार्य्यास्तु वा अर्धखारम् अर्धखारो । खण्डमात्रवाचित्वे षष्ठी- समासः । “क्रोशार्धं प्रकृतिपुरस्सरेण गत्वा” रघुः । अवयवावयविनोर्भेदात् क्वचित् धर्म्मिपरता । अर्ध्यते वर्ध्यते ऋध्--णिच्--कर्म्मणि अच् । ६ खण्डिते त्रि० जसि अर्धाः अर्धे ।
📄 मूल मुद्रित पृष्ठ (0374-a) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।