अव रक्षणे, गतौ, स्पृहायां, तृप्तौ, शोभायां, श्रबणे, व्याप्तौ आलिङ्गने, प्रार्थने, प्रवेशे, सत्तायां, वृद्धौ, ग्रहणे, बधे, सामर्थ्ये, अवगमे, करणे, इच्छोत्पादने च यथायथं सक० अक० च भ्वादि० सेट् पर० । अवति आवीत् । आव । अघ्यात् । अविता । अवितः अवन् । अविषः । “अवतु वोगिरिसुता शशिभृतः प्रियतमा” उद्भ० । “अरि- समुदयादवतः” नलोदयः । “प्रविष्टीमिनमाविषुः” । य० २३, २९, तत्र तर्पणे “न मामवति सद्वीपा रत्नसूरपि मेदिनी” रघुः । रक्षणे “यदाविथ सखीयतो यदाविथ” ऋ० १, १३१, ५, “आविथ रक्षसि अन्यत्र तर्पयसि” भा० गतौ च आनो “बर्हिः सदताविता” ७, ५९, ६, “अविता [] आगच्छत्” भा० । भक्षणेच “प्रोथदश्वो न यवसेऽविष्यन्यदा” । ७, ३, २, “अविष्यन् भक्षयिष्यन्” “भा० तृष्वविष्यन्नतसेषु तिष्ठति” १, ४८, २, “अविष्यन् भक्षयिष्यन्” भा० एवमन्या- र्थेषूदाहार्य्यम् ।
अव अव्य० अव--अच् । १ निश्चये, २ व्याप्तौ, ३ अनादरे, ४ असाकल्ये ५ आलम्बने, ६ शुद्धौ, ७ परिभवे, ८ नियोगे, ९ निम्नतायां च । अयं चादिः प्रादिश्च “अव ज्ञानावज्ञालम्बशुद्धीषदर्थव्याप्ति पराभवातियोगेषु” गण० र० ज्ञाने अवगतोऽर्थः । अवज्ञाया- मवजानाति । आलम्बने आलम्ब्य यष्टिं गच्छति शुद्धौ अवदातम् । ईषदर्थे अवहन्ति अल्पं हन्ति, व्याप्तौ अव- कीर्ण्णः । परिभवे अवघ्नन्ति । अतियोगे अवघात इत्युदा- हृतञ्च । अनादरे “अवजानासि मां यस्मात्” रघुः अव- मानः । व्याप्तौ अवकाशः असत्यां व्याप्तौ न सर्व्वतः प्रवेशः इति तस्य व्याप्त्यार्थकता । अवगाहते । निश्चये अवस्यति अवसायः अवधारयति । निम्नतायाम् अवनमति अवतरति अवक्षिपति अवाचीनः इत्यादिः । असाकल्य मीषदर्थः । ब्रीहीनवहन्ति अवघातश्च वितुषीकरणार्थ एकदेशमात्रे घातः न तु सर्व्वावयवे इति असाकल्यद्योत- कता पराभवे शत्रून् अवहन्ति पुराभवतीत्यर्थः नियीगे अवक्लप्तिः “एवेचानियोगे” वा० अनियोगोऽनवक्लप्तिः सि० कौ अवकल्पते । अस्य वातो लोपः वगाहः । “अवा- दयः क्रुष्टाद्यर्थे तृतीयया” वा० उक्तेः क्रोशार्थेऽपि अव- क्रुष्टं कोकिलया अवकोकिलः ।
📄 मूल मुद्रित पृष्ठ (0416-a) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।