अविवेक पु० न विवेकः भेदकधर्म्मेण ज्ञानम् अभावे न० त० । अन्योन्यतादात्मारोपहेतौ १ विशेषज्ञानाभावे इति नैयायिका । विरोधे न० २ अन्योन्यतादात्म्यज्ञानरूपे मिथ्याज्ञाने “तद्योगोऽप्यविवेकात्” सा० सू० । “अयञ्चाविवेकोऽगृही- तासंसर्गकमुभयज्ञानमविद्यास्थलाभिषिक्तं विवक्षितः” “ब- न्धोविपर्य्यात्” विपर्ययभेदाः पञ्च” इत्यागामिसूत्रद्वयात् “तस्य हेतुरविद्येति” योगसूत्रेऽप्यविद्याया एव पञ्चपर्ब्धरूपाया बुद्धिपुरुषसंयोगहेतुतया वचनाच्चान्ययाख्यात्यनभ्युपगमएव योगतोऽत्र विशेषौचित्यात् । न पुनरविवेकोऽत्राभावमात्रं विवेकप्रागभावो वा मुक्तस्यापि बन्धापत्तेः जीवन्मुक्त- स्यापि भाविविवेकव्यक्तिप्रागभावेन धर्माधर्म्मोत्पत्तिद्वारा पुनर्बन्धप्रसङ्गाच्च । तथागामिसूत्रस्थध्वान्तदृष्टान्तानुपपत्तेः अभावस्य ध्वान्तवदावकरत्वाभावात् । तथा वृद्धिह्रासाव- प्यविवेकस्य श्रूयमाणौ नोपपद्येयातामिति । अस्मन्मते च वासनात्मकर्स्यवाविवेकस्य संयोगाख्यजन्महेतुतया तमोव- दावरकत्ववृद्धिह्रासादिकमञ्जसैवोपपद्यते । “तस्य हेतुर- विद्येति” पातञ्जलसूत्रे च भाष्यकारैरविद्याशब्देनावि- द्यावीजं व्याख्यातम् ज्ञानस्य संयोगोत्तरकालीनत्वेन संयोगाजसकत्वादिति । अपि च “पुरुषः प्रकृतिस्थो हि भुङ्क्त” इत्यादिवाक्येष्वभिमानाख्यसंयोगस्यैव प्रकृतिस्थता- ख्यसंयोगहेतुतावगम्यते । अत एव चाविद्या नाभावोऽपि तु विद्याविरोधिज्ञानान्तरमिति योगभाष्ये व्यासदेर्वः प्रय- त्नेनावधृतम् । तस्मादविवेकाविद्ययोस्तुल्ययोगक्षेमतया- [] ऽविवेकस्यापि ज्ञानविशेषत्वमिति सिद्धम् । अयं चाविवे- कस्त्रिघा संयोगाख्यजन्महेतुः साक्षात्, धर्माधर्मोत्पत्तिद्वारा, रागादिदृष्टद्वारा च भवति” सां० प्र० भा० । अधिकमविद्या शब्दे दृश्यम् ।
📄 मूल मुद्रित पृष्ठ (0462-b) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।