अशक्ति स्त्री अभावे न० त० । १ सामर्थ्याभावे “श्रमेण तद- शक्त्या वा न गुणानामियत्तया” रघुः । २ अपाटवे सांख्य- भतसिद्धे बुद्धेः ३ ज्ञानजननासामर्थ्यभेदे च सा च “एष प्रत्ययसर्गोविपर्य्ययोऽशक्तितुष्टिसिद्ध्याख्यः” इति सामान्यत उक्त्वा “पञ्च विपर्य्य यभेदाः भवन्त्यशक्तिश्च करणवैकल्यात् । अष्टाविंशतिभेदा” इति । अशक्तीर्विभज्य “एकादशेन्द्रिय बधाः सह बुद्धिबधैरशक्तिरुद्दिष्टा । सप्तदश बधा बुद्धेर्विपर्य्य- यात् तुष्टिसिद्धीनाम्” सा० का० “बाधिर्यं, कुष्टिताऽन्धत्वं, जडताऽजिघ्रता तथा । मूकता, कौण्यपङ्गुत्वक्लैव्योदा- वर्त्तमन्दताः” । यथासंख्यं श्रोत्रादीनामिन्दियाणं बधाः एतावत्येव तद्धेतुका बुद्धेरशक्तिः स्वव्यापारे भवति । तथाचैकादशहेतुकत्वादेकादशधा वुद्धेरशक्ति रुच्यते । हेतुहेतुमतोरभेदविवक्षया च सामानाधि- करण्यम् । तदेवमिन्द्रियबधद्वारेण बुद्धेरशक्तिमुक्त्वा स्वरूप- तोऽशक्तीराह सह बुद्धिबधैरिति । कति बुद्धेः स्वरूपतोबधा [] इत्यत आह सप्तदश बधा बुद्धेः, कुतः? विपर्य्ययात्तुष्टि- सिद्धीनाम्, तुष्टयोनवधेति तद्विपर्ययास्तन्निरूपणान्नवधा भवन्ति । एवं सिद्धयोऽष्टाविति तद्विपर्ययास्तन्निरूपणात् अष्टौ भवन्तीति” सा० कौ० दर्शिता । व्याख्यातञ्चैतदस्मा- भिः “पूर्व्वार्द्धेज्ञानेन्द्रियाणाम् अपाटवमुक्तरार्द्धे कर्मेन्द्रिया- णामिति मनसस्तु उभयेन्द्रियानुकूल्यादन्तेऽभिनिवेश इति भेदः । तत्र बाधिर्य्यं श्रोत्रगतं शब्दग्रहणापाटवम् । कुष्ठिता त्वग्गतं स्पर्शग्रहणापाटवम् । अन्धत्वं नेत्रगतं रूपग्रहणापाटवम् । जडता रसनागतं रसग्रहणा- पाटवम् । मूकता वागिन्द्रियगतं वचनापाटवम् । कौण्यं हस्तगतमादानापाटवम् । पङ्गुत्वं पादगतं चलना- पाटवम् । क्लैव्यमुपस्थगतं मैथुनासामर्थ्यम् । उदावर्त्तः अपानगतं विष्ठोत्सर्गासामर्थ्यम् । मन्दता मनोगतं मुखा- दिविषयग्रहणासामर्थ्यम् । एकादशेति पञ्च ज्ञानेन्द्रियाणि पञ्च कर्म्मेन्द्रियाणि मनश्चेति एकादशेन्द्रियाणां बधाः स्वस्व- कर्म्माक्षमत्वरूपा धर्मभेदाः तद्धेतुकत्वात् बुद्धेः स्वविषयाग्र- हणमिम्बते अतो बुद्धेरशक्तिरेकादशविधैवेत्याह तथा चेत्या- दि । वे बुद्धेः सप्तदश भेदा उत्तरार्द्धे वक्ष्यन्ते तैः सप्तदशभिः सह मिलिता एकादश भेदाः अष्टाविंशतिर्भेदाः स्युः । तथा च शक्तिरष्टाविंशतिभेदा इति यदुक्तं तत् समर्थितमिति”
📄 मूल मुद्रित पृष्ठ (0473-b) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।