अशुचि त्रि० विरोधे न० त० । १ शौचशून्ये २ अपवित्रे मूत्रादौ च । स्त्रियां ङीप् । “अशुच्योनैव तास्तेन येन वैकारिकं हितत्” शङ्खः । शुचितत्कालजीविनां कर्म्मा- घिकारित्वेनाशुचेः पर्य्युदस्तत्वम् “अशुचिद्रव्याणि च अशुद्धिशब्दे वक्ष्यन्ते” व्रतानामुपवासानां श्राड्वादी- नाञ्च सङ्गमे । करोति यः क्षौरकर्म सोऽशुचिः सर्वकर्म्मसु” स्मृतिः “त्रिरात्रमशुचिर्भवेत्” स्मृतिः । अशु- चित्वं च वैदिककर्म्मानर्हत्वप्रयोजकोधर्म्मविशेषः तच्च कर्त्तृनिष्ठ द्रव्यनिष्ठञ्च । सूतकनिमित्तं दुष्टद्रव्यसंसर्गकृतञ्च कर्त्तृनिष्ठम् । द्रव्यनिष्ठन्तु वस्तुस्वभावकृतम् “यथा मलमूत्र- पुरीषास्थि निर्गतं ह्यशुचि स्मृतम् । नारं स्मृष्ट्वा तु सस्नेहं सचेलं जलमाविशेदित्यादि स्मृत्युक्तं तत्संसर्ग- युतद्रव्यनिष्ठञ्च अधिकमशुद्धिशब्दे वक्ष्यते । शुचिः शुभ्रः । तद्भिन्ने ३ कृष्णवर्ण्णे पु० ४ तद्वति त्रि० स्त्रियां वा ङीप् तस्य भावः अण् अशौचम् ष्यञ् आशौच्यम् । अशुचिभावे न० “आशौच्यात् विप्रमुच्येत ब्राह्मणान् स्वस्तिवाच्य च” स्मृतिः वा पूर्व्वपदवृद्धिः अशौच्यमपि तत्रैव । अशुचौ भवः ष्यञ् वा पूर्व्वपदःदीर्घ अ(आ)शौच्यः तद्भवे त्रि० ।
📄 मूल मुद्रित पृष्ठ (0476,b) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।