🕉️ 20 November 2026, Friday · 05:39:44 AM · CDSHARMA.IN

📚 उमा संस्कृत-हिन्दी महाशब्दकोश

अर्थ · व्याकरण · व्युत्पत्ति · पर्याय · समास · शास्त्रीय उद्धरण — पाँच प्रामाणिक कोश व अमरकोश एक साथ

279,511 शीर्ष-शब्द · 452,554 कोश-प्रविष्टियाँ

अष्टका
aṣṭakā
🟠 शब्दसागर🔵 मोनियर-विलियम्स🟢 वाचस्पत्यम्🟤 शब्दकल्पद्रुम
🟠 हिन्दी शब्दसागरहिन्दी में अर्थ
अष्टका संज्ञा स्त्री॰ [सं॰]
१. अष्टमी ।
२. अगहन, पूस, माघ और फागुन महीने की कृष्ण अष्टमी । इस दिन श्राद्ध करने से पितरों की तृप्ति होती है ।
३. अष्टमी के दिन का कृत्य । अष्टका याम ।
४. अष्टका में कृत्य श्राद्ध ।
स्रोत: हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
🔵 मोनियर-विलियम्स संस्कृत-अंग्रेज़ी कोशअंग्रेज़ी में अर्थ
अष्टका f. the eighth day after full moon (especially that in the months Hemanta and Śiśira, on which the progenitors or manes are worshipped, ĀśvGṛ.; Mn. &c.; अष्टका is therefore also a N. of the worship itself or the oblations offered on those days, Kauś. &c.), AV. xv, 16, 2; ŚBr. &c.
a N. of the Acchodā river, MatsyaP.
📄 मूल मुद्रित पृष्ठ (117,1)
स्रोत: Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
🟢 वाचस्पत्यम् (संस्कृत-संस्कृत)संस्कृत में अर्थ
अष्टका स्त्री अश्नन्ति पितरोऽस्यां तिथौ अश--तकन् । “अष्टका पितृदैवत्ये” इत्यजादिपाठात् न इत्त्वम् । “अष्टका तु समाख्याता सप्तम्यादिदिनत्रयम्” इत्युक्त- लक्षणे १ सप्तम्यादिदिनत्रये, २ दिनत्रयसाध्ये कर्मधेदे च तच्चा- श्वलायन गृ० दर्शितम् तदपि पौषमाघफाल्गुनानां कृष्ण सप्तम्यादिषु कर्त्तव्यं तत्र प्रधानमष्टमी, सप्तम्यामारम्भः अष्टम्यां कृत्यं नवम्यामन्यष्टकेति भेदः । “अमावास्या चतुर्द्दश्योः पौर्णमास्यष्टकासु च” “अष्टकासु त्वहोरात्रमृत्वन्तासु च रात्रिषु” इति च मनुः तच्च न पितृमात्रदैवत्यम् अन्यदैवत्य- मपि यथाह “पित्र्यदानाय मूले स्युरष्टकास्तिस्र एव च । कृष्णपक्षे वरिष्ठाहि पूर्व्वा चैन्द्री हि भाष्यते । प्राजापत्था द्वितीया स्यात् तृतीया वैश्वदेविकी । आद्या पूपैः सदा कार्य्या मांसैरन्या भवेत्तथा । शाकैः कार्य्या तृतीया स्यादेष द्रव्यगतो विधिः वायु० पुरा० । मूले प्रधानस्थाने अमावस्या हि श्राद्धस्य प्रधानं कालः तद्वदिति [] यावत् रघु० । पश्वभावे स्थालीपाकेन कार्य्यं “अपि वा स्थालीपाकं कुर्व्वीतेति” गोभिलः । एतद्विधानन्तु “स्थालीपाकं पशुस्थाने कुर्य्यात् यद्यानुकल्पिकम् । श्रपयेत्तं सवत्सायास्तरुण्या गोः पयस्यनु” छन्दोग- परिशि० । अन्विति ओदनचरोः पश्चात् । अत- एव । “पितरः स्पृहयन्त्यन्नमष्टकासु मघासु च । तस्मा- द्दद्यात् सदोद्युक्तो विद्वत्सु ब्राह्मणेषु च” शाता० । तस्मादन्नं प्रधानं पूपादिकन्तूपकरणत्वेन शक्तानामावश्यकं, सदेति श्रवणात् । “अमावस्याष्टका वृद्धिः कृष्णपक्षेऽ- यनद्वयम्” । “पौषमासस्य रोहिण्यामष्टकायामथापि बा” या० स्मृ० । अत्रायं भेदः हेमन्तशिशिरयोश्चतुर्ण्णामपर- पक्षाणामष्टमीष्वष्टका एकस्यां वा” आश्व० सू० उक्तेः समर्थासमर्थभेदेन चतुर्षु मासेषु कृष्णाष्टमीषु एकस्यां वा अष्टका कार्य्येति । आग्रहायण्या ऊर्द्ध्वं तिसृष्वष्टकासु” स्मृत- न्तरात्तथात्वम् । अन्वष्टकाशब्दे विवृतमेतत् । अष्टपरिमा- णमस्याः कन् । अजादिपाठा० टाप् पितृदैवत्ये इति अस्य प्रायिकत्वात् क्षिपका० नेत्त्वम् । ४ अष्टमीतिथिमात्रे “अमावास्या गुरुंहन्ति शिष्यं हन्ति चतुर्द्दशी । ब्रह्माष्टका पौर्णमास्यौ तस्मात्ताः परिवर्ज्जयेत्” मनुः एतद्भिन्नाया स्त्रियामष्टिका अत इत्वम् ।
📄 मूल मुद्रित पृष्ठ (0517-a)
स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🟤 शब्दकल्पद्रुम (संस्कृत-संस्कृत)संस्कृत में अर्थ
अष्टका, स्त्री, (अश्नन्ति पितरोऽस्याम् । अश् + तकन् ।) श्राद्धविशेषः । तिथिभेदः । तद्यथा । गौणचान्द्रपौषमाघफाल्गुनमासीयकृष्णाष्टमी । आश्विनकृष्णाष्टमी च । एतासु श्राद्धमावश्यकं । यथा । आग्रहायण्या ऊद्ध्वं तिसृषु कृष्णाष्ट- मोषु श्राद्धानि नित्यानि । यथा गोभिलः । “अष्टका योर्द्ध्वमाग्रहायण्यास्तमिस्राष्टमी” । इति । ब्रह्मपुराणे । “पित्र्यदानाय मूले स्युरष्टकास्तिस्र एव च । कृष्णपक्षे वरिष्ठा हि पूर्व्वा चैन्द्रो विभाव्यते ॥ प्राजापत्या द्वितीया स्यात् तृतीया वैश्वदेवकी । आद्या पूपैः सदा कार्य्या मांसैरन्या भवेत्तथा ॥ शाकैः कार्य्या तृतीया स्यादेष द्रव्यगतो विधिः” । मूले प्रधानस्थाने अमावास्यायां अमावास्या हि श्राद्धस्य प्रधानकालस्तद्वदिति यावत् । ऐन्द्री साग्नेरिन्द्रदेवताकयागसम्बन्धात् । एवं प्राजापत्था [] वैश्वदेवकी च । मांसैः पशोः । तथा च गोभिलः । “यद्युवाल्पतरसम्भारः स्यात्तदापि पशुनैव कु- र्य्यात्” इति । यद्युवेति निपातसमुदायो यद्यर्थे पशुरपि छाग एव । छागोऽनादेशे पशुः । इति गौतमात् । न च तैष्या ऊर्द्ध्वमष्टम्यां गौः । इति गोभिलसूत्रेण गवोपदेशात् कथमनुपदिष्टत्व- मिति वाच्यं । तदसम्भवे पशुरित्यनेन यः पशु- रुपदिष्टस्तस्य विशेषतोऽनुपदिष्टत्वात् । तैषी पौषी । वस्तुतस्तु हरिवंशे मृगोऽपि विहितः । यथा, -- “इक्ष्वाकुस्तु विकुक्षिं वै अष्टकायामथादिशत् । मांसमानय श्राद्धाय मृगं हत्वा महाबलः” ॥ इति । स्त्रिया बधाभावमाह सएव । “अबध्याञ्च स्त्रियं प्राहुस्तिर्य्यग्योनिगतामपि” । एतदर्द्धं ब्रह्मपुराणेऽपि । आरण्यानामगस्त्य- प्रोक्षितत्वं वक्ष्यते । पश्वभावे स्थालोपाकेन । यथा गोभिलः । “अपि वा स्थालीपाकं कुर्ब्बीत” । इति । तद्विधानन्तु । “स्थालीपाकं पशुस्थाने कुर्य्याद्यद्यानुकल्पिकं । श्रपयेत्तं सवत्सायास्तरुण्या गोः पयस्यनु” ॥ इति छन्दोगपरिशिष्टोक्तं ग्राह्यं । अन्विति ओ- दनचरोः पश्चात् । अतएव सातातपः । “नवोदके नवान्ने च गृहप्रच्छादने तथा । पितरः स्पृहयन्त्यन्नमष्टकासु मघासु च ॥ तस्माद्दद्यात् सदा युक्तो विद्वत्सुं ब्राह्मणेषु च” । तस्मादन्नं प्रधानं । पूपादिकन्तूपकरणत्वेन शक्ताना- मावश्यक उभयत्र सदेति श्रवणात् । तथा च । “नित्यं सदा यावदायुर्न कदाचिदतिक्रमेत् । उपेत्यातिक्रमे दोषश्रुतेरत्यागदर्शनात् ॥ फलाश्रुतेर्व्वीप्सया च तम्नित्यमिति कीर्त्तितं” । इति तिथ्यादितत्त्वम् ॥ गोणचान्द्रपौषस्य कृष्णाष्टमी पूपाष्टका । गौण- चान्द्रमाघस्य कृष्णाष्टभी मांसाष्टका । गौण- चान्द्रफाल्गुनस्य कृष्णाष्टमी शाकाष्टका । केषाञ्चि- न्मते गौणचान्द्राश्विनस्य कृष्णाष्टमी अष्टकापद- वाच्या । तासु क्रमात् पूपमांसशाकैः षाट्पौरु- षिकं श्राद्धं कर्त्तव्यं । इति ब्रह्मवायुविष्णुधर्म्मोत्तर- पुराणानि ॥
📄 मूल मुद्रित पृष्ठ (1-148-b)
स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🔗 इससे बने/आरम्भ होने वाले शब्द (समास व व्युत्पन्न)
स्रोत व श्रेय:
  • हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
  • Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
  • V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
  • तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
  • राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।

Cologne Digital Sanskrit Dictionaries के डिजिटल पाठ CC BY-NC-SA लाइसेंस के अनुसार निःशुल्क, गैर-व्यावसायिक उपयोग हेतु श्रेय सहित प्रस्तुत हैं। यह शब्दकोश-सेवा पूर्णतः निःशुल्क है। पुराने मुद्रित ग्रन्थों के डिजिटल पाठ में कहीं-कहीं टंकण/OCR दोष सम्भव हैं — सन्देह होने पर "📄 मूल मुद्रित पृष्ठ" देखें।

💬 ज्योतिषीय प्रश्न पूछें