आज्यदोह न० सामवेदिपाठ्ये सूक्तभेदे “वामदेव्यं वृहत्साम ज्येष्ठसाम रथन्तरम् । तथा पुरुषसूक्तञ्च रुद्रसूक्तं ततः परम् । आज्यदोहानि सामानि शान्तिकं भारुडानि च । पश्चिमे द्वारपालौ तु पठेतां सामगौ तथा” दानपारि० पु० तानि च सामानि देवव्रतसंज्ञकानि त्रीणि यथा । “अधि पतायि मित्र पतायि क्षत्रप तायि स्वाः प तायि धनप ता २, यि ना २, माः । मन्युना वृत्रहा सू- र्य्येण स्वराद्यन्नेन मघवा दक्षिणास्य प्रिया तनूराज्ञा विशं दाधार । वृषभस्त्वष्टा वृत्रेण शचीपतिरन्नेन पयः पृथिव्या सृणिकोऽग्निना विश्वं भूतम् । व्यभवो वायुना विश्वाः । प्रजा अभ्यपवथा वषट्कारेणार्द्धभाक् सोमेन सोमपाः समिज्या परमेष्ठी । ये देवादेवाः । दिविषदः । स्थलभ्यो वो देवादेवेभ्यो नमः । ये देवादेवाः । अन्तरि- क्षसदः । स्थलेभ्यो० । ये देवा० । पृथिवीषदः । स्थलेभी० । [] ये देवा० । असुषदः । स्थलेभ्यो० । ये देवा० दिक्षुसदः । स्थलेभ्यो० । ये देवा० । आशासदः । स्थलेभ्यो० । अव- ज्यामिव धन्वने विते मन्युन्नयामसि मृडतां नैह अस्म- भ्यम् । इडा २, ३, भा । यैदं विश्वं भूतं युयो २, । आउ । वा २, ३, ना २, ३, ४, माः ॥ १ ॥ अ- धिप तायि मित्रप तायि क्षत्रप तायि । स्वः- प तायि धनप ता २, यि । ना २, माः । नम उत्ततिभ्यश्चोत्तन्वानेभ्यश्च नमो नीषङ्गिभ्यश्चोपवीतिभ्यश्च न- मोऽस्यद्भ्यश्च प्रतिदधानेभ्यश्च नमः प्रविध्यद्भ्यश्च प्रव्याधि- भ्यश्च नमः त्सरद्भ्यश्च त्सारिभ्यश्च नमः श्रीतृभ्यश्च श्रायि- भ्यश्च नमस्तिष्टद्भ्यश्चोपतिष्ठद्भ्यश्च नमो यते च वियते च नमः पथे च विपथाय च अवज्यामिव धन्वने इत्यादि प्रा- ग्वत् ॥ २ ॥ अधिप । तायि । मित्रप । तायि क्षत्रप । तायि । स्वःप । तायि । धनप । ता २, यि । ना २, माः । नमोऽन्नाय नमोऽन्नपतय एकाक्षाय चावपन्नादाय च नमो नमः । रुद्राय तीरसदे नमः स्थिराय स्थिरधन्वने नमः प्रतिपदाय च पटरिणे च नमस्त्रियम्बकाय च कप्रर्द्दिने च नम आश्रयेभ्यश्च प्रत्याश्रयेभ्यश्च नमः क्रव्येभ्यश्च विरिम्फे- भ्यश्च नमः संवृते च विवृते च अवज्यामित्यादि पूर्व्वं वत् ३ । (सामारणौ ५ प्र० १ अ० ६, ७, ८ गा०) गाना- शक्तौ अधिपतये इत्याद्यनुवाकं त्रिधा जपेत् अधिपतये मित्रंपतये क्षत्रपतये स्वःपतये धनपतये नम इत्येव पठनीयमेवमग्रेऽपि अस्मभ्यमित्यनन्तरं य इदं विश्वं भूतं युयोवे नम इति नीषङ्गीत्यत्र निषङ्गीत्येव पठनीय- मन्यत् गानांशं स्तोभं विहाय समानम् ।
📄 मूल मुद्रित पृष्ठ (0644-b) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।