आण्ड त्रि० अण्डेभवः अण् । १ अण्डसम्भवे पक्षिप्रभृतौ स्त्रियां ङीप् वेदे तु क्वचित् टाप् । “आण्डेव भित्त्वां शकु- नस्य गर्भम्” ऋ० १, ६८, ७, २ अण्डजाते हिरण्यगर्भे पु० “तदण्डमभवद्धैमं सहस्रांशुसमप्रभम् । तस्मिन् जज्ञे स्वयं ब्रह्मा सर्व्वलोकपितामह” इति मनूक्तेस्तस्याण्डजातत्वात् तथात्वम् । “विराड्वहेमावाण्डौ स्वराट् च” शत० ब्रा० । अण्डमेव स्वार्थे अण् । ३ पुरुषवृषणेस्वार्थिकप्रत्ययस्य क्वचित् लिङ्गवचनातिक्रमस्येष्टत्वात् पु० “यस्य ह्याण्डौ भवतः रेतः सिञ्चति” शत० ब्रा० । “आनन्दनन्दामाण्डौ मे” यजु० २०, ९, “आण्डौ वृषणौ” वेददी० । “अण्डं वृषणोऽस्त्यस्य अण् । ४ वृषणयुक्ते “आण्डौ वै रेतःसिचौ” शत० ब्रा० । अण्डेन निर्वृत्तः अण् । अण्डनिर्वृत्ते ५ कपालरूपे द्युलोके भूलोके च । “तस्मिन्नण्डे स भगवानुषित्वा परिवत्सरम् [] स्वयमेवात्मनो ध्यानात्तदण्डमकरोद्द्विधा । ताभ्यां स श- कलाभ्याञ्च दिवं भूमिञ्च निर्ममे इति” मनुनाऽण्डशक- लाभ्यां तयोरुत्पत्तिप्रतिपादनात्तयोस्तथात्वम् ।
📄 मूल मुद्रित पृष्ठ (0647-a) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।