🕉️ 19 November 2026, Thursday · 07:45:52 PM · CDSHARMA.IN

📚 उमा संस्कृत-हिन्दी महाशब्दकोश

अर्थ · व्याकरण · व्युत्पत्ति · पर्याय · समास · शास्त्रीय उद्धरण — पाँच प्रामाणिक कोश व अमरकोश एक साथ

279,511 शीर्ष-शब्द · 452,554 कोश-प्रविष्टियाँ

आमलकी
āmalakī
🟠 शब्दसागर🔵 मोनियर-विलियम्स🟣 आप्टे🟤 शब्दकल्पद्रुम
📗 अमरकोश — पर्याय
आँवला के नाम (2.4.57) तिष्यफला
🟠 हिन्दी शब्दसागरहिन्दी में अर्थ
आमलकी संज्ञा स्त्री॰ [सं॰]
१. छोटी जाति का आँवला । आँवली ।
२. फगुन सुदी एकादशी ।
स्रोत: हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
🔵 मोनियर-विलियम्स संस्कृत-अंग्रेज़ी कोशअंग्रेज़ी में अर्थ
स्रोत: Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
🟣 आप्टे संस्कृत-अंग्रेज़ी कोशअंग्रेज़ी में अर्थ
आमलकः, --की 1 The tree, Emblic Myrobalan, Emblica Officinalis Gærtn (Mar. आंवळा). --2 N. of another tree (वासक). --कं Fruit of the Emblic Myrobalan; बदरामलकाम्रदाडिमानां Bv. 2. 8.
📄 मूल मुद्रित पृष्ठ (0249-a)
स्रोत: V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
🟤 शब्दकल्पद्रुम (संस्कृत-संस्कृत)संस्कृत में अर्थ
आमलकी, स्त्री, (आङ् + मल + क्कन् + जातेरिति ङीष् ।) स्वनामख्यातफलवृक्षविशेषः । आमला इति भाषा । तत्पर्य्यायः । तिष्यफला २ अमृता ३ वयस्था ४ वयःस्था ५ कायस्था ६ । इत्यमरस्त- ट्टीका च ॥ श्रीफला ७ धात्रिका ८ शिवा ९ शान्ता १० धात्री ११ अमृतफला १२ वृष्या १३ वृत्तफला १४ रोचनी १५ । इति राजनिर्घण्टः ॥ कर्षफला १६ तिष्या १७ इति रत्नमाला ॥ अस्या गुणाः । हरीतकीगुणवद्गुणत्वं । विशे- षेण शुक्रकारित्वं । शीतवीर्य्यत्वं । अम्लत्वात् वायु- नाशित्वं । शैत्यमाधुर्य्यात् पित्तनाशित्वं । कषाय- रूक्षत्वात् कफनाशित्वं । सर्व्वफलाधिकगुणत्वं । भोजनाद्यमध्यान्ते प्राशस्त्यं । निरत्ययत्वं । दोष- हरत्वञ्च ॥ अस्य मज्जगुणाः । तृष्णाच्छर्दिकफ- वायुनाशित्वं । लघुत्वं । कषायत्वं । बलकारित्वञ्च । इति राजवल्लभः ॥ अपि च । लघुत्वं । दाहवमि- मेहशोषनाशित्वं । रसायनत्वं । कटुत्वं । रुचि- करत्वं । रक्तदोषनाशित्वं । श्रमविबन्धाध्मान- विष्टम्भदोषप्रशमनकारित्वञ्च । अस्य मज्जनो विभीतकमज्जवद्गुणत्वञ्च । इति राजनिर्घण्टः ॥ (अस्या नामानि गुणाश्च । “त्रिष्वामलकमाख्यातं धात्री तिष्यफलामृता । हरीतकीसमञ्जात्रीफलं किन्तु विशेषतः ॥ रक्तपित्तप्रमेहघ्नं परं वृष्यं रसायनम् । हन्ति वातं तदम्लत्वात् पित्तं माधुर्य्यशैत्यतः ॥ कफं रूक्षकषायत्वात् फलं धात्र्यास्त्रिदोषजित् । यस्य यस्य फलस्येह वीर्य्यं भवति यादृशं ॥ तस्य तस्यैव वीर्य्येण मज्जानमपि निर्द्दिशेत्” । इति भावप्रकाशः ॥ “तान् गुणांस्तानि कर्म्माणि विद्यादामलकीष्वपि । यान्युक्तानि हरीतक्यां वीर्य्यस्य तु विपर्य्ययः” । इति धरकः ॥) तच्छुष्कफलगुणाः । कफपित्तनाशित्वं । अम्लत्वं । [] स्वादुद्रव्यद्वारा पाके पित्तनाशित्वञ्च । इति राज- वल्लभः ॥ तस्या उत्पत्तिर्यथा । सख्यावूचतुः । “उक्तस्त्वया महेशानि तुलसीविल्वसम्भवः । अनयोस्तुल्य एकः कः शिवविष्णुप्रियस्तरुः ॥ तदावां श्रोतुमिच्छावः शिवसुन्दरि कथ्यतां” । देव्युवाच । “अस्ति विल्वतुलसीतरुतुल्यः पुण्य एक उत विष्णुशिवार्हः । नामतोऽमलक इत्यपि सख्यौ रोपितः कमलयाथ मयापि ॥ कदाचित् देवयात्रायां प्रभासे पुण्यतीर्थके । सर्व्वे देवाः समायाता दिने पुण्ये च कुत्रचित् ॥ तत्राहञ्च स्वयं लक्ष्मीरेकस्थाने समागते । तत्रावयोर्मतिर्जाता शिवविष्णुप्रपूजने ॥ अहं श्रियमवोचञ्च सामुद्रि शृणु मे मतिं । स्वकल्पितेन द्रव्येण पूजयेऽहं हरिं प्रभुं ॥ मामुवाच ततो लक्ष्मीर्गद्गदाक्षरभाषिणी ॥ ममाप्येवं मतिर्जाता त्वमवोचः स्वयं यथा । स्वकल्पितेन द्रव्येण पूजयेऽहं त्रिलोचनं” ॥ देव्युवाच । “सजये विजये देवि ! नावेवम्भूतयोस्तदा । नयनेषु सुजातानि अमलाश्रुजलानि च ॥ तानि नौ नयनेभ्यश्च निपेतुर्मुवि हे सखि ! । ततो जाता द्रुमाः पृथ्व्यां चत्वारो विमलप्रभाः ॥ ख्याता आमलकी नाम्ना जाता कादमलाद्यतः । श्यामलच्छदवृन्दास्ते कर्व्वूरस्कन्धमूलकाः ॥ शिराग्रथितपत्राली पत्रमालाकपत्रका । विल्वस्य च तुलस्याश्च ये गुणाः कथिताः सखि ॥ ते ते गुणाः सर्व्वएव आमलक्यां समाहिताः । पत्रमालादलैरस्याः शिवविष्णु सुरेश्वरौ ॥ सर्व्वथा पूजितौ स्यातां सख्यौ नास्त्यत्र संशयः । माघे मासि सितायां तामेकादश्यां समुद्भवां ॥ शुभामामलकीं दृष्ट्वा समेताः सर्व्वदेवताः । ऋषयस्ते सशिष्याश्च हर्षमापुः परं तदा ॥ शिवाच्युबस्वरूपाञ्च ददृशुस्तुष्टुवुस्तदा” ॥ * ॥ अस्या नमस्कारमन्त्रादिः । “नमाम्यामलकीं देवीं पत्रमालाद्यलङ्कृतां । शिवविष्णुप्रियां दिव्यां श्रीमतीं सुन्दरप्रभां ॥ एतेन खलु मन्त्रेण सर्व्वा अस्याः क्रिया मताः । एतामुद्दिश्य तीर्थानि त्रीण्युक्तानि मनीषिभिः ॥ विल्ववृक्षवदेवेह पृथिव्यां कर्म्मणां स्थले
स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🔗 इससे बने/आरम्भ होने वाले शब्द (समास व व्युत्पन्न)
🔁 जिनके अर्थ में "आमलकी" आता है (15)
स्रोत व श्रेय:
  • हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
  • Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
  • V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
  • तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
  • राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।

Cologne Digital Sanskrit Dictionaries के डिजिटल पाठ CC BY-NC-SA लाइसेंस के अनुसार निःशुल्क, गैर-व्यावसायिक उपयोग हेतु श्रेय सहित प्रस्तुत हैं। यह शब्दकोश-सेवा पूर्णतः निःशुल्क है। पुराने मुद्रित ग्रन्थों के डिजिटल पाठ में कहीं-कहीं टंकण/OCR दोष सम्भव हैं — सन्देह होने पर "📄 मूल मुद्रित पृष्ठ" देखें।

💬 ज्योतिषीय प्रश्न पूछें