🕉️ 21 November 2026, Saturday · 03:15:00 AM · CDSHARMA.IN

📚 उमा संस्कृत-हिन्दी महाशब्दकोश

अर्थ · व्याकरण · व्युत्पत्ति · पर्याय · समास · शास्त्रीय उद्धरण — पाँच प्रामाणिक कोश व अमरकोश एक साथ

279,511 शीर्ष-शब्द · 452,554 कोश-प्रविष्टियाँ

आरंभवाद
āraṃbhavāda
🟠 शब्दसागर🟢 वाचस्पत्यम्
🟠 हिन्दी शब्दसागरहिन्दी में अर्थ
आरंभवाद संज्ञा पुं॰ [सं॰ आरम्भवाद] न्याशास्त्र का वह सिद्धांत जिसके अनुसार विश्वसृष्टि परमाणुओं के योग से परमात्मा के इच्छानुसार हुई [को॰] ।
स्रोत: हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
🟢 वाचस्पत्यम् (संस्कृत-संस्कृत)संस्कृत में अर्थ
आरम्भवाद पु० आरम्भस्य वादः परीक्षापूर्व्वकः कथाभेदः । वैशेषिकाद्यभिमते परमाणुभ्य एव जगदुत्पत्तिनिर्ण्णायके वादे । स च “द्रव्याणि द्रव्यान्तरमारभन्ते गुणाश्च गुणा- न्तरमिति” वै० सू० दर्शितः “आत्माकाशाणुमुखतः कारणं पूर्व्वमिष्यते । कुलालादिवदण्डन्तु घटवज्जन्मनाशभाक् । पृथिव्यम्भोऽग्निवायूनां कर्मसंयीजिताणवः । द्यणुकादि क्रमेणाण्डमारभन्ते इदं महदिति” हि तेषां वादः । शा० भाष्ये तु तदेतन्मतमुत्थाप्य निराकृतं यथा “परमाणुकारणवादैदानीं निराकर्त्तव्यः । तत्रादौ ताव- द्योऽणुकारणवादिना ब्रह्मवादिनि दोष उत्प्रेक्ष्यते स प्रतिसमाधीयते । तत्रायं वैशेषिकाणामभ्युपगमः कारण द्रव्यसमवायिनोगुणाः कार्य्यद्रव्यसमानजातीयं गुणा- न्तरमारभन्ते शुक्लेभ्यसुन्तुभ्यः शुक्लस्य पटस्य प्रसवद- र्शनात्तद्विपर्य्ययाऽदर्शनाच्च । तस्माच्चेतनस्य ब्रह्मणो जग- त्कारणत्वेऽभ्युपगम्यमाने कार्य्येऽपि जगति चैतन्यं सम- वेयात् तददर्शनात् । न चेतनं ब्रह्मजगत्कारणम्भवितुमर्ह- [] तीति । इममभ्युपगमन्तदीययैव प्रक्रियया व्यभिचारयति । “महद्दीर्घवद्ग्रस्वपरिमण्डलाभ्याम्” सू० । “एषा तेषां प्रक्रिया परमाणवः किल किञ्चित्कालमनारब्धकार्य्या यथा- योगं रूपादिमन्तः पारिमाण्डल्यपरिमाणास्तिष्ठन्ति । ते च पश्चाददृष्टादिपुरःपराः संयोगसचिवाश्च सन्तोद्व्यणुकादि- क्रमेण कृत्स्नं कार्य्यजातमारभन्ते कारणगुणाश्च कार्य्येगुणा- न्तरम् । यदा द्वौ परमाणू द्व्यकणुकमारभेते तदा परमा- णुगता रूपादिगुणविशेषाः शुक्लादयोद्व्यणुके शुक्लादीनार- भन्ते । परमाणुगुणविशेषस्तु पारिमाण्डल्यम् न द्व्यणुके पारिमाण्डल्यमपरमारभते द्व्यणुकस्य परिमाणान्तरयोगा- भ्युपगमात् । अणत्वह्रस्वत्वे हि द्व्यणुकवर्त्तिनी परिमाणे वर्णयन्ति । यदापि द्वे द्व्यणुके चतुरणुकमारभेते तदापि समानं द्व्यणुकसमवायिनां शुक्लादीनामारम्भकत्वम् । अणुत्वह्रस्वत्वे तुद्व्यणुकसमवायिनी अपि नैवारभेते चतुर- णुकस्य महत्त्वदीर्घत्वपरिमाणयोगाभ्युपगमात् । यदा- पि बहवः परमाणवो बहूनि वा द्व्यणुकानि द्व्यणु कसहितो वा परमाणुः कार्य्यमारभन्ते तदापि समानैषा योजना । तदेवं यथा परमाणोः परिमण्डलात्मनोऽणु ह्रस्वञ्च द्व्य- णुकं जायते महद्दीर्घञ्च त्र्यणुकादि न परिमण्डलम् । यथा वा द्व्यणुकादणोर्ह्रस्वाच्च सतोमहद्दीर्घञ्च त्र्यणुकादि जा- यते नाणु नोत ह्रस्वम् एवं चेतनाद्ब्रह्मणोऽचेतनं जगज्ज- निष्यत इत्यभ्युपगमे तव किं छिन्नम् । अथ मन्यसे विरो- धिना परिमाणान्तरेणाक्रान्तं कार्य्यद्रव्यं द्व्यणुकादि ततो- नारम्भकाणि कारणगतानि पारिमाण्डल्यादीनि इत्य- भ्युपगच्छामि न तु चेतनाविरोधिना गुणान्तरेण जगत आक्रान्तत्वमस्ति येन कारणगता चेतना कार्य्ये चेतनान्तरं नारभेत । नह्यचेतनानां चेतनाविरोधी कश्चिद्गुणोऽ स्ति चेतनाप्रतिषेधमात्रत्वात् । तस्मात् पारिमाण्डल्यादि वैषम्यात् प्राप्नोति चेतनाया आरम्भकत्वमिति, मैवं मंस्थाः यथा कारणे विद्यमानानामपि पारिमाण्डल्यादी- नामनारम्भकत्वमेवं चैतन्यस्यापीत्यस्यांशस्य समानत्वात् । न च परिमाणान्तराक्रान्तत्वं पारिमाण्डल्यादीनामनार- म्भकत्वे कारणं प्राक् परिमाणान्तरारम्भात् पारिमाण्ड- ल्यादीनामारम्भकत्वोपपत्तेः आरब्धमपि कार्य्य द्रव्यं प्राग्गुणारम्भात् क्षणमात्रमगुणं तिष्ठतीत्यभ्युपगसात् । न च परिमाणान्तरारम्भेव्यग्राणि पारिमाण्डल्यादी- नीत्यतः स्वममानजातीयं परिमाणान्तरं नारभन्ते परि- माणान्तरस्यान्यहेतुकत्वाभ्युपगमात् । “कारणबहुत्वात् प्रच- [] यविशेषाच्च महत्” “तद्विपरीतमण्” । “एतेन दीर्घत्वह्रस्व- त्वे व्याख्याते” इति
स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🔁 जिनके अर्थ में "आरंभवाद" आता है (1)
स्रोत व श्रेय:
  • हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
  • Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
  • V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
  • तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
  • राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।

Cologne Digital Sanskrit Dictionaries के डिजिटल पाठ CC BY-NC-SA लाइसेंस के अनुसार निःशुल्क, गैर-व्यावसायिक उपयोग हेतु श्रेय सहित प्रस्तुत हैं। यह शब्दकोश-सेवा पूर्णतः निःशुल्क है। पुराने मुद्रित ग्रन्थों के डिजिटल पाठ में कहीं-कहीं टंकण/OCR दोष सम्भव हैं — सन्देह होने पर "📄 मूल मुद्रित पृष्ठ" देखें।

💬 ज्योतिषीय प्रश्न पूछें